शान्ति पर्व

अध्याय 324: पञ्चशिख: मृत्यु से कोई नहीं बचता

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुविंशत्यधिकत्रिशततमोऽध्यायः ॥

15 श्लोक · 324 में से 372

इस अध्याय में क्या होता है

पञ्चशिख: मृत्यु से कोई नहीं बचता

युधिष्ठिर पूछते हैं कि क्या धन, तप, विद्या या रसायन मनुष्य को बुढ़ापे और मृत्यु से पार ले जा सकते हैं। भीष्म भिक्षु पञ्चशिख और विदेहराज जनक का संवाद सुनाते हैं, जिन्होंने यही पूछा था। पञ्चशिख कहते हैं कि इन दोनों से न लौटना है न इनके पार जाना। सब प्राणी धारा की तरह बहते हुए बिना नाव के काल सागर में डूबते हैं, जहाँ जरा और मृत्यु बड़े मगर हैं। पत्नी और बन्धु मार्ग में मिले साथी हैं, जो हवा से बादलों की तरह बिखर जाते हैं। जरा और मृत्यु भेड़ियों की तरह बलवान और दुर्बल सबको खा जाते हैं। सोचो कि कहाँ से आए, कौन हो और कहाँ जाओगे। स्वर्ग और नरक किसी ने देखे नहीं, इसलिए शास्त्र का पालन करो, दान दो और यज्ञ करो।

युधिष्ठिर उवाच

324.1

ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ ।
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत्

aiśvaryaṃ vā mahatprāpya dhanaṃ vā bharatarṣabha |
dīrghamāyuravāpyātha kathaṃ mṛtyumatikramet

324.2

तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ

tapasā vā sumahatā karmaṇā vā śrutena vā |
rasāyanaprayogairvā kairnāpnoti jarāntakau

भीष्म उवाच

324.3

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च

atrāpyudāharantīmamitihāsaṃ purātanam |
bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca

324.4

वैदेहो जनको राजा महर्षि वेदवित्तमम् ।
यर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम्

vaideho janako rājā maharṣi vedavittamam |
yaryapṛcchatpañcaśikhaṃ chinnadharmārthasaṃśayam

324.5

केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ ।
तपसा वाऽथवा बुद्ध्या कर्मणा वा श्रुतेन वा

kena vṛttena bhagavannatikrāmejjarāntakau |
tapasā vā'thavā buddhyā karmaṇā vā śrutena vā

324.6

एवमुक्तः स वैदेहं प्रत्युवाचापरेक्षवित् ।
निवृत्तिर्नैतयोरस्ति नातिवृत्तिः कथंचन

evamuktaḥ sa vaidehaṃ pratyuvācāparekṣavit |
nivṛttirnaitayorasti nātivṛttiḥ kathaṃcana

324.7

न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः ।
सोयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः

na hyahāni nivartante na māsā na punaḥ kṣapāḥ |
soyaṃ prapadyate'dhvānaṃ cirāya dhruvamadhruvaḥ

324.8

सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा ।
ऊह्यमानं निमज्जन्तमप्लवे कालसागरे

sarvabhūtasamucchedaḥ srotasevohyate sadā |
ūhyamānaṃ nimajjantamaplave kālasāgare

324.9

जरामृत्युमहाग्राहे न कश्चिदतिवर्तते ।
नैवास्य कश्चिद्भवति नासौ भवति कस्यचित्

jarāmṛtyumahāgrāhe na kaścidativartate |
naivāsya kaścidbhavati nāsau bhavati kasyacit

324.10

पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः ।
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित्

pathi saṃgatamevedaṃ dārairanyaiśca bandhubhiḥ |
nāyamatyantasaṃvāso labdhapūrvo hi kenacit

324.11

क्षिप्यन्ते तेनतेनैव निष्टनन्तः पुनः पुनः ।
कालेन जाता याता हि वायुनेवाभ्रसंचयाः

kṣipyante tenatenaiva niṣṭanantaḥ punaḥ punaḥ |
kālena jātā yātā hi vāyunevābhrasaṃcayāḥ

324.12

जरामृत्यू हि भूतानां खादितारौ वृकाविव ।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि

jarāmṛtyū hi bhūtānāṃ khāditārau vṛkāviva |
balināṃ durbalānāṃ ca hrasvānāṃ mahatāmapi

324.13

एवंभूतेषु भूतेषु नित्यभूताध्रवेषु च ।
कथं हि हृष्येज्जातेषु मृतेषु च न संज्वरेत्

evaṃbhūteṣu bhūteṣu nityabhūtādhraveṣu ca |
kathaṃ hi hṛṣyejjāteṣu mṛteṣu ca na saṃjvaret

324.14

कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा ।
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि

kuto'hamāgataḥ ko'smi kva gamiṣyāmi kasya vā |
kasminsthitaḥ kva bhavitā kasmātkimanuśocasi

324.15

द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च ।
आगमास्त्वनतिक्रम्य दद्याच्चैव यजेत च

draṣṭā svargasya na hyasti tathaiva narakasya ca |
āgamāstvanatikramya dadyāccaiva yajeta ca

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)