शान्ति पर्व

अध्याय 298: पराशर: दान, ऋण और धर्म से अर्जित धन

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टनवत्यधिकद्विशततमोऽध्यायः ॥

23 श्लोक · 298 में से 372

इस अध्याय में क्या होता है

पराशर: दान, ऋण और धर्म से अर्जित धन

पराशर जनक से आगे कहते हैं। हर प्राणी अपने लिए कर्म करता है। जिसने आदर और स्नेह छोड़ दिया हो, उसे त्याग दे, चाहे सगा भाई हो। लेने से देना पवित्र है। न्याय से कमाया धन धर्म के लिए रखे, क्रूरता से कभी न कमाए। भूखे अतिथि को जल देना भी फल देता है। रन्तिदेव ने फल और मूल से मुनियों को पूजकर सिद्धि पाई, और राजा शैब्य ने वैसे ही माठर को प्रसन्न किया। मनुष्य देवों, अतिथियों, आश्रितों, पितरों और अपने प्रति ऋणी जन्मता है, और स्वाध्याय, यज्ञ, श्राद्ध और सेवा से उऋण होता है। उशना देवी की स्तुति से शुक्र बने, और असित देवल, नारद, वसिष्ठ, विश्वामित्र आदि ने ऋचाओं से विष्णु की स्तुति कर सिद्धि पाई। अधर्म का धन धिक्कार योग्य है, अग्निहोत्री गृहस्थ श्रेष्ठ है।

पराशर उवाच

298.1

कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति ।
प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना

kaḥ kasya copakurute kaśca kasmai prayacchati |
prāṇī karotyayaṃ karma sarvamātmārthamātmanā

298.2

गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत् ।
सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम्

gauraveṇa parityaktaṃ niḥsnehaṃ parivarjayet |
sodaryaṃ bhrātaramapi kimutānyaṃ pṛthagjanam

298.3

विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ ।
तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः

viśiṣṭasya viśiṣṭācca tulyau dānapratigrahau |
tayoḥ puṇyataraṃ dānaṃ taddvijasya prayacchataḥ

298.4

न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम् ।
संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः

nyāyāgataṃ dhanaṃ varṇairnyāyenaiva vivardhitam |
saṃrakṣyaṃ yatnamāsthāya dharmārthamiti niścayaḥ

298.5

न धर्मार्थी नृशंसेन कर्मणा धनमार्जयेत् ।
शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरन्

na dharmārthī nṛśaṃsena karmaṇā dhanamārjayet |
śaktitaḥ sarvakāryāṇi kuryānnarddhimanusmaran

298.6

अपो हि प्रयताः शीतास्तापिता ज्वलनेन वा ।
शक्तितोऽतिथये दत्त्वा क्षुधार्तायाऽश्नुते फलम्

apo hi prayatāḥ śītāstāpitā jvalanena vā |
śaktito'tithaye dattvā kṣudhārtāyā'śnute phalam

298.7

रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना ।
फलपत्रैरथो मूलैर्मुनीनचिंतवांश्च सः

rantidevena lokeṣṭā siddhiḥ prāptā mahātmanā |
phalapatrairatho mūlairmunīnaciṃtavāṃśca saḥ

298.8

तैरेव फलपत्रैश्च स माठरमतोषयत् ।
तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः

taireva phalapatraiśca sa māṭharamatoṣayat |
tasmāllebhe paraṃ sthānaṃ śaibyo'pi pṛthivīpatiḥ

298.9

देवतातिथिभृत्येभ्यः पितृभ्यश्चात्मनस्तथा ।
ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत्

devatātithibhṛtyebhyaḥ pitṛbhyaścātmanastathā |
ṛṇavāñjāyate martyastasmādanṛṇatāṃ vrajet

298.10

स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा ।
पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च

svādhyāyena maharṣibhyo devebhyo yajñakarmaṇā |
pitṛbhyaḥ śrāddhadānena nṛṇāmabhyarcanena ca

298.11

पाकशेपावहार्येण पालनेनात्मनोऽपि च ।
यथावद्भृत्यवर्गस्य चिकीर्षेत्कर्म आदितः

pākaśepāvahāryeṇa pālanenātmano'pi ca |
yathāvadbhṛtyavargasya cikīrṣetkarma āditaḥ

298.12

प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः ।
सम्यग्घृत्वा हुतवहं मुनयः सिद्धिमागताः

prayatnena ca saṃsiddhā dhanairapi vivarjitāḥ |
samyagghṛtvā hutavahaṃ munayaḥ siddhimāgatāḥ

298.13

विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत् ।
ऋग्भिः स्तुत्वा महाबाहो देवान्वै यज्ञभागिनः

viśvāmitrasya putratvamṛcīkatanayo'gamat |
ṛgbhiḥ stutvā mahābāho devānvai yajñabhāginaḥ

298.14

गतः शुक्रत्वमुशना देवदेवप्रसादनात् ।
देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः

gataḥ śukratvamuśanā devadevaprasādanāt |
devīṃ stutvā tu gagane modate tejasā vṛtaḥ

298.15

असितो देवलश्चैव तथा नारदपर्वतौ ।
कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथाऽऽत्मवान्

asito devalaścaiva tathā nāradaparvatau |
kakṣīvāñjāmadagnyaśca rāmastāṇḍyastathā''tmavān

298.16

वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च ।
भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः

vasiṣṭho jamadagniśca viśvāmitro'trireva ca |
bharadvājo hariśmaśruḥ kuṇḍadhāraḥ śrutaśravāḥ

298.17

एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः ।
लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः

ete maharṣayaḥ stutvā viṣṇumṛgbhiḥ samāhitāḥ |
lebhire tapasā siddhiṃ prasādāttasya dhīmataḥ

298.18

अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह ।
न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम्

anarhāścārhatāṃ prāptāḥ santaḥ stutvā tameva ha |
na tu vṛddhimihānvicchetkarma kṛtvā jugupsitam

298.19

येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् ।
धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया

ye'rthā dharmeṇa te satyā ye'dharmeṇa dhigastu tān |
dharmaṃ vai śāśvataṃ loke na jahyāddhanakāṅkṣayā

298.20

आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः ।
वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो

āhitāgnirhi dharmātmā yaḥ sa puṇyakṛduttamaḥ |
vedā hi sarve rājendra sthitāstriṣvagniṣu prabho

298.21

च चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते ।
श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम्

ca cāpyagnyāhito vipraḥ kriyā yasya na hīyate |
śreyo hyanāhitāgnitvamagnihotraṃ na niṣkriyam

298.22

अग्निरात्मा च माता च पिता जनयिता तथा ।
गुरुश्च नरशार्दूल परिचर्या यथातथम्

agnirātmā ca mātā ca pitā janayitā tathā |
guruśca naraśārdūla paricaryā yathātatham

298.23

मानं त्यक्त्वा यो नरो वृद्धसेवी
विद्वान्क्लीबः पश्यति प्रीतियोगात् ।
दाक्ष्येण हीनो धर्मयुक्तो न दान्तो
लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः

mānaṃ tyaktvā yo naro vṛddhasevī
vidvānklībaḥ paśyati prītiyogāt |
dākṣyeṇa hīno dharmayukto na dānto
loke'sminvai pūjyate sadbhirāryaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)