मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत
mokṣaḥ pitāmahenokta upāyānnānupāyataḥ |
tamupāyaṃ yathānyāyaṃ śrotumicchāmi bhārata
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अशीत्यधिकद्विशततमोऽध्यायः ॥
19 श्लोक · 280 में से 372
युधिष्ठिर मोक्ष का उपाय पूछते हैं। भीष्म उपाय खोजने के लिए उनकी प्रशंसा करते हैं, क्योंकि घड़ा बनाने का विचार घड़ा नहीं है, और पूर्वी समुद्र का मार्ग पश्चिमी तक नहीं पहुँचता। मोक्ष का एक ही मार्ग है। क्षमा से क्रोध, संकल्पत्याग से काम, सत्त्व से निद्रा, अप्रमाद से भय, सन्तोष से लोभ और मोह, करुणा से अधर्म, दूरदर्शिता से आशा, अनित्यता के दर्शन से आसक्ति, योग से भूख, करुणा से अभिमान, उद्यम से आलस्य, निश्चय से संशय और मौन से बकवाद जीतो। बुद्धि से वाणी और मन को, ज्ञान से बुद्धि को साधो। योग के पाँच दोषों से बचो और ध्यान, अध्ययन, दान, सत्य, लज्जा, क्षमा, शौच और संयम का पालन करो। यही निर्मल, पवित्र मार्ग है।
युधिष्ठिर उवाच
मोक्षः पितामहेनोक्त उपायान्नानुपायतः ।
तमुपायं यथान्यायं श्रोतुमिच्छामि भारत
mokṣaḥ pitāmahenokta upāyānnānupāyataḥ |
tamupāyaṃ yathānyāyaṃ śrotumicchāmi bhārata
भीष्म उवाच
त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम् ।
यदुपायेन सर्वार्थं नित्यं मृगयसेऽनघ
tvayyevaitanmahāprājña yuktaṃ nipuṇadarśanam |
yadupāyena sarvārthaṃ nityaṃ mṛgayase'nagha
करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सा मता ।
एवं धर्माभ्यपायेषु नान्यद्धर्मेषु कारणम्
karaṇe ghaṭasya yā buddhirghaṭotpattau na sā matā |
evaṃ dharmābhyapāyeṣu nānyaddharmeṣu kāraṇam
पूर्वे समुद्रे यः पन्थाः स न गच्छति पश्चिमम् ।
एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु
pūrve samudre yaḥ panthāḥ sa na gacchati paścimam |
ekaḥ panthā hi mokṣasya tanme vistarataḥ śṛṇu
क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात् ।
सत्वसंसेवानद्धीरो निद्रामुच्छेत्तुमर्हति
kṣamayā krodhamucchindyātkāmaṃ saṃkalpavarjanāt |
satvasaṃsevānaddhīro nidrāmucchettumarhati
अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात् ।
इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्
apramādādbhayaṃ rakṣecchvāsaṃ kṣetrajñaśīlanāt |
icchāṃ dveṣaṃ ca kāmaṃ ca dhairyeṇa vinivartayet
भ्रमं संमोहमावर्तमभ्यासाद्विनिवर्तयेत् ।
निद्रां चाप्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्
bhramaṃ saṃmohamāvartamabhyāsādvinivartayet |
nidrāṃ cāpratibhāṃ caiva jñānābhyāsena tattvavit
उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात् ।
लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात्
upadravāṃstathā rogānhitajīrṇamitāśanāt |
lobhaṃ mohaṃ ca saṃtoṣādviṣayāṃstattvadarśanāt
अनुक्रोशादधर्मं च जयेद्धर्ममवेक्षया ।
आयत्या च जयेदाशामर्थं सङ्गविवर्जनात्
anukrośādadharmaṃ ca jayeddharmamavekṣayā |
āyatyā ca jayedāśāmarthaṃ saṅgavivarjanāt
अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः ।
कारुण्येनात्मनो मानं तृष्णां च परितोषतः
anityatvena ca snehaṃ kṣudhaṃ yogena paṇḍitaḥ |
kāruṇyenātmano mānaṃ tṛṣṇāṃ ca paritoṣataḥ
उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत् ।
मौनेन बहुभाषां च शौर्येण च भयं जयेत्
utthānena jayettandrīṃ vitarkaṃ niścayājjayet |
maunena bahubhāṣāṃ ca śauryeṇa ca bhayaṃ jayet
यच्छेद्वाङ्भनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा ।
ज्ञानमात्मा महान्यच्छेत्तं यच्छेज्ज्ञानमात्मनः
yacchedvāṅbhanasī buddhyā tāṃ yacchejjñānacakṣuṣā |
jñānamātmā mahānyacchettaṃ yacchejjñānamātmanaḥ
तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा ।
योगदोषान्समुच्छिद्यात्पञ्च यान्कवयो विदुः
tadetadupaśāntena boddhavyaṃ śucikarmaṇā |
yogadoṣānsamucchidyātpañca yānkavayo viduḥ
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम् ।
परित्यज्य निषेवेत तथेमान्योगसाधनान्
kāmaṃ krodhaṃ ca lobhaṃ ca bhayaṃ svapnaṃ ca pañcamam |
parityajya niṣeveta tathemānyogasādhanān
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ।
शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः
dhyānamadhyayanaṃ dānaṃ satyaṃ hrīrārjavaṃ kṣamā |
śaucamāhārataḥ śuddhirindriyāṇāṃ ca saṃyamaḥ
एतैर्विवर्धते तेजः पाप्मानमपहन्ति च ।
सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते
etairvivardhate tejaḥ pāpmānamapahanti ca |
sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate
धूतपापः स तेजस्वी लध्वाहारो जितेन्द्रियः ।
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
dhūtapāpaḥ sa tejasvī ladhvāhāro jitendriyaḥ |
kāmakrodhau vaśe kṛtvā ninīṣedbrahmaṇaḥ padam
अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम् ।
अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः
amūḍhatvamasaṅgitvaṃ kāmakrodhavivarjanam |
adainyamanudīrṇatvamanudvego vyavasthitiḥ
एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः ।
तथा वाक्कायमनसां नियमः कामतोऽन्यथा
eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ |
tathā vākkāyamanasāṃ niyamaḥ kāmato'nyathā
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)