शान्ति पर्व

अध्याय 263: शिव की विनती और मृत्यु का जन्म

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिषष्ट्यधिकद्विशततमोऽध्यायः ॥

22 श्लोक · 263 में से 372

इस अध्याय में क्या होता है

शिव की विनती और मृत्यु का जन्म

शिव ब्रह्मा से विनती करते हैं कि वे अपनी ही रची प्रजा पर क्रोध न करें। ब्रह्मा कहते हैं कि वे क्रुद्ध नहीं हैं और प्रजा का नाश नहीं चाहते; भार से डूबती पृथ्वी ने उन्हें हल्का करने को कहा था, और कोई उपाय न सूझने पर क्रोध ने उन्हें घेर लिया। शिव कोई दूसरा उपाय करने की विनती करते हैं। ब्रह्मा अग्नि को अपने भीतर समेट लेते हैं और प्रवृत्ति तथा निवृत्ति, जन्म और उसके अन्त का विधान करते हैं। उनके शरीर से लाल काले वस्त्रों वाली एक कन्या निकलती है। ब्रह्मा उसे मृत्यु नाम देकर ज्ञानी और मूर्ख सबका संहार करने को कहते हैं। वह रोती है; ब्रह्मा उसके आँसू अपने हाथों में थाम लेते हैं, और वह मनुष्यों के हित के लिए फिर विनती करती है।

स्थाणुरुवाच

263.1

प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो ।
विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह

prajāsarganimittaṃ me kāryavattāmimāṃ prabho |
viddhi sṛṣṭāstvayā hīmā mā kupyāsāṃ pitāmaha

263.2

तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः ।
ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो

tava tejogninā deva prajā dahyanti sarvaśaḥ |
tā dṛṣṭvā mama kāruṇyaṃ mā kupyāsāṃ jagatprabho

प्रजापतिरुवाच

263.3

न कुप्ये न च मे कामो नभवेयुः प्रजा इति ।
लाघवार्थं धरण्यास्तु ततः संहार इष्यते

na kupye na ca me kāmo nabhaveyuḥ prajā iti |
lāghavārthaṃ dharaṇyāstu tataḥ saṃhāra iṣyate

263.4

इयं हि मां सदा देवी भारार्ता समचोदयत् ।
संहारार्थं महादेव भारेणाप्सु निमज्जती

iyaṃ hi māṃ sadā devī bhārārtā samacodayat |
saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjatī

263.5

यदाऽहं नाधिगच्छामि बुद्ध्या बहु विचारयन् ।
संहारमासां वृद्धानां ततो मां क्रोध आविशत्

yadā'haṃ nādhigacchāmi buddhyā bahu vicārayan |
saṃhāramāsāṃ vṛddhānāṃ tato māṃ krodha āviśat

स्थाणुरुवाच

263.6

संहारात्त्वं निवर्तस्य मा क्रुधो विवुधेश्वर ।
मा प्रजाः स्थावरं चैव जङ्गमं च व्यनीनशः

saṃhārāttvaṃ nivartasya mā krudho vivudheśvara |
mā prajāḥ sthāvaraṃ caiva jaṅgamaṃ ca vyanīnaśaḥ

263.7

पल्वलानि च सर्वाणि सर्वं चैव तृणीलपम् ।
स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्

palvalāni ca sarvāṇi sarvaṃ caiva tṛṇīlapam |
sthāvaraṃ jaṅgamaṃ caiva bhūtagrāmaṃ caturvidham

263.8

अकाले भस्मसाद्भूतं जगत्सर्वमुपप्लुतम् ।
प्रसीद भगवन्साधो वर एष वृतो मया

akāle bhasmasādbhūtaṃ jagatsarvamupaplutam |
prasīda bhagavansādho vara eṣa vṛto mayā

263.9

नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन ।
तस्मान्निवर्ततामेतत्तेन स्वेनेव तेजसा

naṣṭā na punareṣyanti prajā hyetāḥ kathaṃcana |
tasmānnivartatāmetattena sveneva tejasā

263.10

उपायमन्यं संपश्य भूतानां हितकाम्यया ।
यथामी जन्तवः सर्वे न दह्येरन्पितामह

upāyamanyaṃ saṃpaśya bhūtānāṃ hitakāmyayā |
yathāmī jantavaḥ sarve na dahyeranpitāmaha

263.11

अभावं हि न गच्छेयुरुत्सन्नप्रजनाः प्रजाः ।
पुत्रत्वेनानुसंकल्प्ये तदाऽहं तप्य दानवैः ।
अधिदैवे नियुक्तोस्मि त्वया लोकहितेप्सुना

abhāvaṃ hi na gaccheyurutsannaprajanāḥ prajāḥ |
putratvenānusaṃkalpye tadā'haṃ tapya dānavaiḥ |
adhidaive niyuktosmi tvayā lokahitepsunā

263.12

त्वद्भवं हि जगन्नाथ एतत्स्थावरजङ्गमम् ।
प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः

tvadbhavaṃ hi jagannātha etatsthāvarajaṅgamam |
prasādya tvāṃ mahādeva yācāmyāvṛttijāḥ prajāḥ

नारद उवाच

263.13

श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्भनाः ।
तेजस्तत्सन्निजग्राह पुनरेवान्तरात्मनि

śrutvā tu vacanaṃ devaḥ sthāṇorniyatavāṅbhanāḥ |
tejastatsannijagrāha punarevāntarātmani

263.14

ततोऽग्निमुपसंगृह्य भगवाँल्लोकपूजितः ।
प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः

tato'gnimupasaṃgṛhya bhagavām̐llokapūjitaḥ |
pravṛttiṃ ca nivṛttiṃ ca kalpayāmāsa vai prabhuḥ

263.15

उपसंहरतस्तस्य तमग्निं रोषजं तदा ।
प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः

upasaṃharatastasya tamagniṃ roṣajaṃ tadā |
prādurbabhūva viśvebhyaḥ khebhyo nārī mahātmanaḥ

263.16

कृष्णरक्ताम्बरधरा कृष्णनेत्रतलान्तरा ।
दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता

kṛṣṇaraktāmbaradharā kṛṣṇanetratalāntarā |
divyakuṇḍalasaṃpannā divyābharaṇabhūṣitā

263.17

सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम् ।
ददृशाते च तां कन्यां देवौ विश्वेश्वरावुभौ

sā viniḥsṛtya vai khebhyo dakṣiṇāmāśritā diśam |
dadṛśāte ca tāṃ kanyāṃ devau viśveśvarāvubhau

263.18

तामाहूय तदा देवो लोकानामादिरीश्वरः ।
मृत्यो इति महीपाल जहि चेमाः प्रजा इति

tāmāhūya tadā devo lokānāmādirīśvaraḥ |
mṛtyo iti mahīpāla jahi cemāḥ prajā iti

263.19

त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च ।
तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः

tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca |
tasmātsaṃhara sarvāstvaṃ prajāḥ sajaḍapaṇḍitāḥ

263.20

अविशेषेण चैव त्वं प्रजाः संहर कामिनि ।
मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि

aviśeṣeṇa caiva tvaṃ prajāḥ saṃhara kāmini |
mama tvaṃ hi niyogena śreyaḥ paramavāpsyasi

263.21

एवमुक्ता तु या देवी मृत्युः कमलमालिनी ।
प्रदध्यौ दुःखिता बाला साश्रुपातमतीव च

evamuktā tu yā devī mṛtyuḥ kamalamālinī |
pradadhyau duḥkhitā bālā sāśrupātamatīva ca

263.22

पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः ।
मानवानां हितार्थाय ययाचे पुनरेव ह

pāṇibhyāṃ caiva jagrāha tānyaśrūṇi janeśvaraḥ |
mānavānāṃ hitārthāya yayāce punareva ha

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)