इस अध्याय में क्या होता है वानप्रस्थ और संन्यास की ओर कदम जब मनुष्य झुर्रियाँ, पके बाल और पोते देखे, तब आयु के तीसरे चौथाई के लिए वन जाए। वहाँ वह उन्हीं अग्नियों की रक्षा करे, थोड़ा खाए, वन का अन्न अर्पित करे, और एक दिन, एक मास, एक वर्ष या बारह वर्ष का संचय रखे। वनवासी वर्षा में खुले आकाश के नीचे सोते, जाड़े में जल में खड़े रहते, गर्मी में पञ्चाग्नि तपते। अगस्त्य, सप्तर्षि, मधुच्छन्दा, अघमर्षण आदि इसी मार्ग से स्वर्ग गए। अन्तिम चौथाई में बुढ़ापे या रोग में वह अन्तिम यज्ञ में सब दान कर देता है, अग्नियों को अपने भीतर स्थापित करता है, केश और नख मुँडवाता है, सब प्राणियों को अभय देकर संन्यास लेता है। कुछ श्लोक हमारे पाठ में खण्डित हैं।
भीष्म उवाच
250.1 प्रोक्ता गृहस्थवृत्तिस्ते विहिता या मनीषिभिः । तदनन्तरमुक्तं यत्तन्निबोध युधिष्ठिर ॥ व्यासेन कथितं पूर्वं पुत्राय सुमहात्मने ।
proktā gṛhasthavṛttiste vihitā yā manīṣibhiḥ | tadanantaramuktaṃ yattannibodha yudhiṣṭhira || vyāsena kathitaṃ pūrvaṃ putrāya sumahātmane |
व्यास उवाच
250.2 क्रय----त्ववधृयैनां तृतीयां वृत्तिमुत्तमाम् । संयोगव्रत----वानप्रस्थाश्रमौकसाम्
kraya----tvavadhṛyaināṃ tṛtīyāṃ vṛttimuttamām | saṃyogavrata----vānaprasthāśramaukasām
250.3 श्रूयतां पुत्र भद्रं ते सर्वलोकाश्रमात्मनाम् । प्रेक्षापूर्वं यदा पत्त्येद्वलीपलितमात्मना
śrūyatāṃ putra bhadraṃ te sarvalokāśramātmanām | prekṣāpūrvaṃ yadā pattyedvalīpalitamātmanā
250.4 अपत्यस्यैव चापण्यं वनमेव तदाऽऽश्रयेत्
apatyasyaiva cāpaṇyaṃ vanameva tadā''śrayet
250.5 तृतीयमायुषो भागं वानप्रस्थाश्रमे वसेत् । तानेवाग्नीन्पस्त्विरेद्यजमानो दि--कसः
tṛtīyamāyuṣo bhāgaṃ vānaprasthāśrame vaset | tānevāgnīnpastviredyajamāno di--kasaḥ
250.6 निय------नियताराहः षष्ठभक्तो ---त्तवान । तदाग्रहात्रं तो --- यज्ञाङ्गां व सर्वशः
niya------niyatārāhaḥ ṣaṣṭhabhakto ---ttavāna | tadāgrahātraṃ to --- yajñāṅgāṃ va sarvaśaḥ
250.7 अवैकृष्टं व्रीहियव नीवारे विघसानि च । हवींषि संप्रयच्छेत मखेष्वत्रापि पञ्चसु
avaikṛṣṭaṃ vrīhiyava nīvāre vighasāni ca | havīṃṣi saṃprayaccheta makheṣvatrāpi pañcasu
250.8 वानप्रस्खाश्रमेऽप्येताश्चतस्रो वृत्तयः स्मृताः । सद्यः प्रक्षालकाः केचित्केचिन्मासिकसंचयाः
vānapraskhāśrame'pyetāścatasro vṛttayaḥ smṛtāḥ | sadyaḥ prakṣālakāḥ kecitkecinmāsikasaṃcayāḥ
250.9 वार्षिकं संचयं केचित्केतिद्द्वादशवार्षिकम् । कुर्वन्त्यतिथिपूजार्थं यज्ञतन्त्रार्थमेव वा
vārṣikaṃ saṃcayaṃ kecitketiddvādaśavārṣikam | kurvantyatithipūjārthaṃ yajñatantrārthameva vā
250.10 अभ्रावकाशा वर्षासु हेमन्ते जलसंश्रयाः । ग्रीष्मे च पञ्चतपसः शश्वच्च मितभोजनाः
abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ | grīṣme ca pañcatapasaḥ śaśvacca mitabhojanāḥ
250.11 भूमौ विपरिवर्तन्ते तिष्ठन्ति प्रपदैरपि । स्थानासनैर्वर्तयन्ति स वनेष्वभिषिञ्चते
bhūmau viparivartante tiṣṭhanti prapadairapi | sthānāsanairvartayanti sa vaneṣvabhiṣiñcate
250.12 दन्तोलूखलिकाः केचिदश्मकुट्टास्तथा परे । शुक्लपक्षे पिबन्त्येके यवागूं क्वथितां सकृत्
dantolūkhalikāḥ kecidaśmakuṭṭāstathā pare | śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt
250.13 कृष्णपक्षे पिबन्त्यन्ये भुञ्जते वा यथागतम् । मूलैरेके फलैरेके पुष्पैरेके दृढव्रताः
kṛṣṇapakṣe pibantyanye bhuñjate vā yathāgatam | mūlaireke phalaireke puṣpaireke dṛḍhavratāḥ
250.14 वर्तयन्ति यथान्यायं वैखानसमतं श्रिताः । एताश्चान्याश्च विविधा दीक्षास्तेषां मनीषिणाम्
vartayanti yathānyāyaṃ vaikhānasamataṃ śritāḥ | etāścānyāśca vividhā dīkṣāsteṣāṃ manīṣiṇām
250.15 चतुर्थश्चौपनिषदो धर्मः साधारणः स्मृतः । वानप्रस्थाद्गृहस्थाच्च ततोऽन्यः संप्रवर्तते । अस्मिन्नेव युगे तात वितैस्तत्वार्थदर्शिभिः
caturthaścaupaniṣado dharmaḥ sādhāraṇaḥ smṛtaḥ | vānaprasthādgṛhasthācca tato'nyaḥ saṃpravartate | asminneva yuge tāta vitaistatvārthadarśibhiḥ
250.16 अगस्त्यः सप्तऋषयो मधुच्छन्दोऽधमर्षणः । सांकृतिः सुदिवातण्डिर्यथावासो कृतश्रमः
agastyaḥ saptaṛṣayo madhucchando'dhamarṣaṇaḥ | sāṃkṛtiḥ sudivātaṇḍiryathāvāso kṛtaśramaḥ
250.17 अहोवीर्यस्तथा काव्यस्ताण्ड्यो मेधातिथिदुऽ । बलवान्कर्णनिर्वाकः शून्यपालः कृतश्रम----- । एते धर्मे सुविद्वांसस्ततः स्वर्गमुसागमन
ahovīryastathā kāvyastāṇḍyo medhātithidu' | balavānkarṇanirvākaḥ śūnyapālaḥ kṛtaśrama----- | ete dharme suvidvāṃsastataḥ svargamusāgamana
250.18 तात प्रत्यक्षधर्माणस्तथा काथवारा गणाः । ऋषीणामुग्रतपसां धर्मनैपुणेदर्शिनाम्
tāta pratyakṣadharmāṇastathā kāthavārā gaṇāḥ | ṛṣīṇāmugratapasāṃ dharmanaipuṇedarśinām
250.19 अन्ये चापरिमेयाश्च ब्राह्मणा वनमश्रितताः । वैखातसा वालखिल्याः सैकताच्च तथा परे
anye cāparimeyāśca brāhmaṇā vanamaśritatāḥ | vaikhātasā vālakhilyāḥ saikatācca tathā pare
250.20 कर्मभिस्ते निरानन्दा धर्मनित्या जितेन्द्रियाः । गताः प्रत्यक्षधर्माणस्ते सर्वे वनमाश्रिताः
karmabhiste nirānandā dharmanityā jitendriyāḥ | gatāḥ pratyakṣadharmāṇaste sarve vanamāśritāḥ
250.21 अनक्षत्रास्त्वनाधृष्या दृश्यते ज्योतिषां गणाः । जरया च परिद्यूना व्याधिना च प्रपीडिताः
anakṣatrāstvanādhṛṣyā dṛśyate jyotiṣāṃ gaṇāḥ | jarayā ca paridyūnā vyādhinā ca prapīḍitāḥ
250.22 चतुर्थे चायुषः शेषे वानप्रस्थाश्रमं त्यजेत् । साद्यस्कां संनिरुप्येष्टिं सर्ववेदसदक्षिणाम्
caturthe cāyuṣaḥ śeṣe vānaprasthāśramaṃ tyajet | sādyaskāṃ saṃnirupyeṣṭiṃ sarvavedasadakṣiṇām
250.23 आत्मयाजी सोऽत्मरतिरात्मक्रीडात्मसंश्रयः । आत्मन्यग्नीन्समारोप्य त्यक्त्वा सर्वपरिग्रहान्
ātmayājī so'tmaratirātmakrīḍātmasaṃśrayaḥ | ātmanyagnīnsamāropya tyaktvā sarvaparigrahān
250.24 साद्यस्कांश्च यजेद्यज्ञानिष्टीश्चैवेह सर्वदा । यदैव याजिनां यज्ञादात्मनीज्या प्रवर्तते
sādyaskāṃśca yajedyajñāniṣṭīścaiveha sarvadā | yadaiva yājināṃ yajñādātmanījyā pravartate
250.25 त्रींश्चैवाग्नींस्त्यजेत्सम्यगात्मन्येवात्ममोक्षणात् । प्राणेभ्यो यजुषां पञ्च षट् प्राश्नीयादकुत्सयन्
trīṃścaivāgnīṃstyajetsamyagātmanyevātmamokṣaṇāt | prāṇebhyo yajuṣāṃ pañca ṣaṭ prāśnīyādakutsayan
250.26 केशलोमनखान्वाप्य वानप्रस्थो मुनिस्ततः । आश्रमादाश्रमं पुण्यं पूतो गच्छति कर्मभिः
keśalomanakhānvāpya vānaprastho munistataḥ | āśramādāśramaṃ puṇyaṃ pūto gacchati karmabhiḥ
250.27 अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्द्विजः । लोकास्तेजोमयास्तस्य प्रेत्य चानन्त्यमश्नुते
abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajeddvijaḥ | lokāstejomayāstasya pretya cānantyamaśnute
250.28 सुशीलवृत्तो व्यपनीतकल्मषो नचेह नामुत्र च कर्तुमीहते । अरोपमोहो गतसन्धिविग्रहो भवेदुदासीनवदात्मविन्नरः
suśīlavṛtto vyapanītakalmaṣo naceha nāmutra ca kartumīhate | aropamoho gatasandhivigraho bhavedudāsīnavadātmavinnaraḥ
250.29 यमेषु चैवानुगतेषु न व्यथे त्स्वशास्त्रमूत्राहुतिमन्त्रविक्रमः । भवेद्यथेष्टा गतिरात्मयाजिनो न संशयो धर्मपरे जितेन्द्रिये
yameṣu caivānugateṣu na vyathe tsvaśāstramūtrāhutimantravikramaḥ | bhavedyatheṣṭā gatirātmayājino na saṃśayo dharmapare jitendriye
250.30 ततः परं श्रेष्ठमतीव सद्गुणै रधिष्ठितं त्रीनधिवृत्तिमुत्तमम् । चतुर्थमुक्तं परमाश्रमं शृणु प्रकीर्त्यमानं परमं परायणम्
tataḥ paraṃ śreṣṭhamatīva sadguṇai radhiṣṭhitaṃ trīnadhivṛttimuttamam | caturthamuktaṃ paramāśramaṃ śṛṇu prakīrtyamānaṃ paramaṃ parāyaṇam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)
← शान्ति पर्व · अध्याय 249 गृहस्थ के व्रत और उनका फल शान्ति पर्व · अध्याय 251 → वह संन्यासी जिसे देवता ब्राह्मण कहते हैं