शान्ति पर्व

अध्याय 19: युधिष्ठिर: तप और त्याग धन से श्रेष्ठ

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनविंशोऽध्यायः ॥

30 श्लोक · 19 में से 372

इस अध्याय में क्या होता है

युधिष्ठिर: तप और त्याग धन से श्रेष्ठ

युधिष्ठिर अर्जुन से कहते हैं कि मैं वेद के दोनों वचन जानता हूँ, 'कर्म करो' और 'कर्म छोड़ो'। तुम केवल युद्धशास्त्र जानते हो और वृद्धों की सेवा में नहीं बैठे, इसलिए धर्म की सूक्ष्मता तक नहीं पहुँच सकते। वे अर्जुन की प्रशंसा भी करते हैं कि तीनों लोकों में शस्त्रविद्या में कोई तुम्हारे समान नहीं। पर धन के विषय में तुम भूल में हो। ऋषियों ने तप और स्वाध्याय से सनातन लोक पाए; अरुण और केतु स्वाध्याय से स्वर्ग गए। उत्तर मार्ग इन्द्रियनिग्रह करने वालों का है, दक्षिण मार्ग कर्मकाण्डियों का। मोक्षार्थी जिस गति को देखते हैं वह अवर्णनीय है, और त्याग सबसे श्रेष्ठ है यद्यपि कठिन है। तप से महान पद मिलता है, बुद्धि से महान ज्ञान, और त्याग से सुख।

युधिष्ठिर उवाच

19.1

वेदाहं तात शास्त्राणि अपराणि पराणि च ।
उभयं वेदवचनं कुरु कर्म त्यजेति च

vedāhaṃ tāta śāstrāṇi aparāṇi parāṇi ca |
ubhayaṃ vedavacanaṃ kuru karma tyajeti ca

19.2

आकुलानि च शास्त्राणि हेतुभिश्चिन्तितानि च ।
निश्चयश्चैव यो मन्त्रे वेदाहं तं यथाविधि

ākulāni ca śāstrāṇi hetubhiścintitāni ca |
niścayaścaiva yo mantre vedāhaṃ taṃ yathāvidhi

19.3

त्वं तु केवलशास्त्रज्ञो वीरव्रतसमन्वितः ।
शास्त्रार्थं तत्त्वतो गन्तुं न समर्थः कथंचन

tvaṃ tu kevalaśāstrajño vīravratasamanvitaḥ |
śāstrārthaṃ tattvato gantuṃ na samarthaḥ kathaṃcana

19.4

शास्त्रार्थतत्त्वदर्शी यो धर्मनिश्चयकोविदः ।
तेनाप्येवं न वाच्योऽयं यदि धर्मं प्रपश्यसि

śāstrārthatattvadarśī yo dharmaniścayakovidaḥ |
tenāpyevaṃ na vācyo'yaṃ yadi dharmaṃ prapaśyasi

19.5

भ्रातृसौहृदमास्थाय यदुक्तं वचनं त्वया ।
न्याय्यं युक्तं च कौन्तेय प्रीतोऽहं तेन तेऽर्जुन

bhrātṛsauhṛdamāsthāya yaduktaṃ vacanaṃ tvayā |
nyāyyaṃ yuktaṃ ca kaunteya prīto'haṃ tena te'rjuna

19.6

महेश्वरसमं सत्वं ब्रह्मणा चैव यत्समम् ।
वासुदेवसमं चैव न भूतं न भविष्यति

maheśvarasamaṃ satvaṃ brahmaṇā caiva yatsamam |
vāsudevasamaṃ caiva na bhūtaṃ na bhaviṣyati

19.7

तथा त्वं योधमुख्येषु सत्वं परममिष्यते

tathā tvaṃ yodhamukhyeṣu satvaṃ paramamiṣyate

19.8

बलमिन्द्रे च वायौ च बलं यच्च जनार्दने ।
तद्वलं भीमसेने च त्वयि चार्जुना विद्यते

balamindre ca vāyau ca balaṃ yacca janārdane |
tadvalaṃ bhīmasene ca tvayi cārjunā vidyate

19.9

त्वत्समश्चित्रयोधी च दूरपाती च पाण्डव ।
दिव्यास्त्रबलसंपन्नः को वाऽन्यस्त्वत्समो नरः

tvatsamaścitrayodhī ca dūrapātī ca pāṇḍava |
divyāstrabalasaṃpannaḥ ko vā'nyastvatsamo naraḥ

19.10

युद्धधर्मेषु सर्वेषु क्रियाणां नैपुणेषु च ।
न त्वया सदृशः कश्चिन्त्रिषु लोकेषु विद्यते

yuddhadharmeṣu sarveṣu kriyāṇāṃ naipuṇeṣu ca |
na tvayā sadṛśaḥ kaścintriṣu lokeṣu vidyate

19.11

धार्मिकं धर्मयुक्तं च निःशेषं ज्ञायते मया ।
धर्मसूक्ष्मं तु यद्वाच्यं तत्र दुष्प्रतरं त्वया ।
धनञ्जय न मे बुद्धिमतिशङ्कितुमर्हसि

dhārmikaṃ dharmayuktaṃ ca niḥśeṣaṃ jñāyate mayā |
dharmasūkṣmaṃ tu yadvācyaṃ tatra duṣprataraṃ tvayā |
dhanañjaya na me buddhimatiśaṅkitumarhasi

19.12

युद्धशास्त्रविदेव त्वं न वृद्धाः सेवितास्त्वया ।
समासविस्तरविदां न तेषां वेत्सि निश्चयम्

yuddhaśāstravideva tvaṃ na vṛddhāḥ sevitāstvayā |
samāsavistaravidāṃ na teṣāṃ vetsi niścayam

19.13

तपस्त्यागो विधिरिति निश्चयस्तात धीमताम् ।
परस्परं ज्याय एषामिति नः श्रेयसी मतिः

tapastyāgo vidhiriti niścayastāta dhīmatām |
parasparaṃ jyāya eṣāmiti naḥ śreyasī matiḥ

19.14

यत्त्वेतन्मन्यसे पार्थ न ज्यायोऽस्ति धनादिति ।
तत्र ते वर्तयिष्यामि यथा नैतत्प्रधानतः

yattvetanmanyase pārtha na jyāyo'sti dhanāditi |
tatra te vartayiṣyāmi yathā naitatpradhānataḥ

19.15

तपः स्वाध्यायशीला हि दृश्यन्ते धार्मिका जनाः ।
ऋषयस्तपसा युक्ता येषां लोकाः सनातनाः

tapaḥ svādhyāyaśīlā hi dṛśyante dhārmikā janāḥ |
ṛṣayastapasā yuktā yeṣāṃ lokāḥ sanātanāḥ

19.16

अजातश्मश्रवो धीरास्तथाऽन्ये वनवासिनः ।
अरुणाः केतवश्चैव स्वाध्यायेन दिवं गताः

ajātaśmaśravo dhīrāstathā'nye vanavāsinaḥ |
aruṇāḥ ketavaścaiva svādhyāyena divaṃ gatāḥ

19.17

उत्तरेण तु पन्थानमार्या विषयनिग्रहात् ।
अबुद्धिजं तमस्त्यक्त्वा लोकांस्त्यागवतां गताः

uttareṇa tu panthānamāryā viṣayanigrahāt |
abuddhijaṃ tamastyaktvā lokāṃstyāgavatāṃ gatāḥ

19.18

दक्षिणेन तु पन्थानं यं भास्वन्तं प्रचक्षते ।
एते क्रियावतां लोका ये श्मशानानि भेजिरे

dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ pracakṣate |
ete kriyāvatāṃ lokā ye śmaśānāni bhejire

19.19

अनिर्देश्या गतिः सा तु यां प्रपश्यन्ति मोक्षिणः ।
तस्मात्त्यागः प्रधानेष्टः स तु दुःखं प्रवेदितुम्

anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ |
tasmāttyāgaḥ pradhāneṣṭaḥ sa tu duḥkhaṃ praveditum

19.20

अनुस्मृत्य तु शास्त्राणि कवयः समवस्थिताः ।
अपीह स्यादपीह स्यात्सारासारदिदृक्षया

anusmṛtya tu śāstrāṇi kavayaḥ samavasthitāḥ |
apīha syādapīha syātsārāsāradidṛkṣayā

19.21

वेदवादानतिक्रम्य शास्त्राण्यारण्यकानि च ।
विपाट्य कदलीस्तम्भं सारं ददृशिरे न ते

vedavādānatikramya śāstrāṇyāraṇyakāni ca |
vipāṭya kadalīstambhaṃ sāraṃ dadṛśire na te

19.22

अथैकान्तव्युदासेन शरीरे पाञ्चभौतिके ।
इच्छाद्वेषसमायुक्तमात्मानं प्राहुरिङ्गितैः

athaikāntavyudāsena śarīre pāñcabhautike |
icchādveṣasamāyuktamātmānaṃ prāhuriṅgitaiḥ

19.23

अग्राह्यं चक्षुषा सत्वमनिर्देश्यं च तद्गिरा ।
कर्महेतुपुरस्कारं भूतेषु पस्विर्तते

agrāhyaṃ cakṣuṣā satvamanirdeśyaṃ ca tadgirā |
karmahetupuraskāraṃ bhūteṣu pasvirtate

19.24

कल्याणगोचरं कृत्वा मानं तृष्णां निगृह्य च ।
कर्मसंततिमुत्सृज्य स्यान्निरालम्बनः सुखी

kalyāṇagocaraṃ kṛtvā mānaṃ tṛṣṇāṃ nigṛhya ca |
karmasaṃtatimutsṛjya syānnirālambanaḥ sukhī

19.25

अस्मिन्नेवं सूक्ष्मगम्ये मार्गे सद्भिर्निषेविते ।
कथमर्थमनर्थाढ्यमर्जुन त्वं प्रशंससि

asminnevaṃ sūkṣmagamye mārge sadbhirniṣevite |
kathamarthamanarthāḍhyamarjuna tvaṃ praśaṃsasi

19.26

पूर्वशास्त्रविदोऽप्येवं जनाः पश्यन्ति भारत ।
क्रियासु निरता नित्यं दाने यज्ञे च कर्मणि

pūrvaśāstravido'pyevaṃ janāḥ paśyanti bhārata |
kriyāsu niratā nityaṃ dāne yajñe ca karmaṇi

19.27

भवन्ति सुदुरावर्ता हेतुमन्तोऽपि पण्डिताः ।
दृढपूर्वे स्मृता मूढा नैतदस्तीति वादिनः

bhavanti sudurāvartā hetumanto'pi paṇḍitāḥ |
dṛḍhapūrve smṛtā mūḍhā naitadastīti vādinaḥ

19.28

अनृतस्यावमन्तारो वक्तारो जनसंसदि ।
चरन्ति वसुधां कृत्स्नां वावदूका बहुश्रुताः

anṛtasyāvamantāro vaktāro janasaṃsadi |
caranti vasudhāṃ kṛtsnāṃ vāvadūkā bahuśrutāḥ

19.29

पार्थ यन्न विजानीमः कस्ताञ्ज्ञातुमिहार्हति ।
एवं प्राज्ञाः श्रुताश्चापि महान्तः शास्त्रवित्तमाः

pārtha yanna vijānīmaḥ kastāñjñātumihārhati |
evaṃ prājñāḥ śrutāścāpi mahāntaḥ śāstravittamāḥ

19.30

तपसा महदाप्नोति बुद्ध्या वै विन्दते महत् ।
त्यागेन सुखमाप्नोति सदा कौन्तेय धर्मवित्

tapasā mahadāpnoti buddhyā vai vindate mahat |
tyāgena sukhamāpnoti sadā kaunteya dharmavit

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)