ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर
brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama |
vaiśyaḥ śūdraśca viprarṣe tadbrūhi vadatāṃ vara
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः ॥
18 श्लोक · 187 में से 372
भरद्वाज भृगु से पूछते हैं कि मनुष्य ब्राह्मण, क्षत्रिय, वैश्य या शूद्र किससे होता है। भृगु आचरण से उत्तर देते हैं। जातकर्म आदि संस्कारों से शुद्ध, वेद पढ़ने वाला, छह कर्मों में स्थित, सबको खिलाकर बचा अन्न खाने वाला और सत्यपरायण ब्राह्मण है; जहाँ सत्य, दान, क्षमा, दया और तप दिखें, वहीं ब्राह्मण है। क्षत्रिय क्षात्र कर्म से, वैश्य खेती, गोपालन और व्यापार से जीता है। यदि शूद्र में ये लक्षण हों और द्विज में न हों, तो वह शूद्र शूद्र नहीं और वह ब्राह्मण ब्राह्मण नहीं। लोभ और क्रोध को रोको, धन को क्रोध से और तप को डाह से बचाओ, फल की आशा छोड़कर त्याग करो, मन को प्राण में और प्राण को ब्रह्म में धारण करो।
भरद्वाज उवाच
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर
brāhmaṇaḥ kena bhavati kṣatriyo vā dvijottama |
vaiśyaḥ śūdraśca viprarṣe tadbrūhi vadatāṃ vara
भृगुरुवाच
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।
वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः
jātakarmādibhiryastu saṃskāraiḥ saṃskṛtaḥ śuciḥ |
vedādhyayanasaṃpannaḥ ṣaṭsu karmasvavasthitaḥ
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः ।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते
śaucācārasthitaḥ samyagvighasāśī gurupriyaḥ |
nityavratī satyaparaḥ sa vai brāhmaṇa ucyate
सत्यं दानमथाद्रोह आनृशंस्यं क्षमा धृणा ।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः
satyaṃ dānamathādroha ānṛśaṃsyaṃ kṣamā dhṛṇā |
tapaśca dṛśyate yatra sa brāhmaṇa iti smṛtaḥ
क्षत्रजं सेवते कर्म देवाध्ययनसंगतः ।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते
kṣatrajaṃ sevate karma devādhyayanasaṃgataḥ |
dānādānaratiryastu sa vai kṣatriya ucyate
कृपिगोरक्षवाणिज्यं यो विशत्यनिशं शुचिः ।
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः
kṛpigorakṣavāṇijyaṃ yo viśatyaniśaṃ śuciḥ |
vedādhyayanasaṃpannaḥ sa vaiśya iti saṃjñitaḥ
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः
sarvabhakṣaratirnityaṃ sarvakarmakaro'śuciḥ |
tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते ।
न वै शूद्रो भवेच्छ्रद्रो ब्राह्मणो न च ब्राह्मणः
śūdre caitadbhavellakṣyaṃ dvije tacca na vidyate |
na vai śūdro bhavecchradro brāhmaṇo na ca brāhmaṇaḥ
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः
sarvopāyaistu lobhasya krodhasya ca vinigrahaḥ |
etatpavitraṃ jñātavyaṃ tathā caivātmasaṃyamaḥ
वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ
vāryau sarvātmanā tau hi śreyoghātārthamucchritau
नित्यं क्रोधाच्छ्रियं रक्षेत्तपो रक्षेच्च मत्सरात् ।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः
nityaṃ krodhācchriyaṃ rakṣettapo rakṣecca matsarāt |
vidyāṃ mānāpamānābhyāmātmānaṃ tu pramādataḥ
यस्य सर्वे समारम्भा निराशाबन्धना द्विज ।
त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान्
yasya sarve samārambhā nirāśābandhanā dvija |
tyāge yasya hutaṃ sarvaṃ sa tyāgī ca sa buddhimān
अहिंस्रः सर्वभूतानां मैत्रायणगतिश्चरेत् ।
परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः ।
अचलं स्थानमातिष्ठेदिह चामुत्र चोभयोः
ahiṃsraḥ sarvabhūtānāṃ maitrāyaṇagatiścaret |
parigrahānparityajya bhavedbuddhyā jitendriyaḥ |
acalaṃ sthānamātiṣṭhediha cāmutra cobhayoḥ
तपोनित्येन दान्तेन मुनिना संयतात्मना ।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना
taponityena dāntena muninā saṃyatātmanā |
ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्
indriyairgṛhyate yadyattattadvyaktamiti sthitiḥ |
avyaktamiti vijñeyaṃ liṅgagrāhyamatīndriyam
अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः ।
मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत्
avisrambhe na gantavyaṃ visrambhe dhārayenmanaḥ |
manaḥ prāṇe nigṛhṇīyātprāṇaṃ brahmaṇi dhārayet
निर्वेदादेव निर्वायान्न च किंचिद्विचिन्तयेत् ।
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति
nirvedādeva nirvāyānna ca kiṃcidvicintayet |
sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati
शौचेन सततं युक्तः सदाचारसमन्वितः ।
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्
śaucena satataṃ yuktaḥ sadācārasamanvitaḥ |
sānukrośaśca bhūteṣu taddvijātiṣu lakṣaṇam
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)