आचारस्य विधिं तात प्रोच्यमानं त्वयाऽनघ ।
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः
ācārasya vidhiṃ tāta procyamānaṃ tvayā'nagha |
śrotumicchāmi dharmajña sarvajño hyasi me mataḥ
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकनवत्यधिकशततमोऽध्यायः ॥
33 श्लोक · 189 में से 372
युधिष्ठिर आचार की विधि पूछते हैं। भीष्म कहते हैं कि सज्जन अपने आचार से पहचाने जाते हैं। राजमार्ग, गायों के बीच, अन्न में, शिवालय, अग्निशाला और नदी तट पर मल मूत्र न त्यागें। सूर्य की उपासना करें, सूर्योदय के समय न सोएँ, प्रातः खड़े होकर और सायं बैठकर सन्ध्या जपें। हाथ, पैर और मुख गीले रखकर पूर्व की ओर मुख कर मौन भोजन करें और अन्न की निन्दा न करें। अग्नि, बैल, देवस्थान, चौराहे और धर्मात्मा ब्राह्मण की प्रदक्षिणा करें। अतिथियों और सेवकों को साथ खिलाएँ। बड़ों का आदर करें, उनका नाम लेकर या तू कहकर न बुलाएँ। छिपाया हुआ पाप मनुष्य न देखें तो भी देवता देखते हैं। मृत्यु के बाद केवल धर्म साथ जाता है, उसमें कोई सहायक नहीं।
युधिष्ठिर उवाच
आचारस्य विधिं तात प्रोच्यमानं त्वयाऽनघ ।
श्रोतुमिच्छामि धर्मज्ञ सर्वज्ञो ह्यसि मे मतः
ācārasya vidhiṃ tāta procyamānaṃ tvayā'nagha |
śrotumicchāmi dharmajña sarvajño hyasi me mataḥ
भीष्म उवाच
दुराचारा दुर्विचेष्टा दुष्प्रज्ञाः प्रियसाहसाः ।
असन्तस्त्वभिविख्याताः सन्तश्चाचारलक्षणाः
durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ |
asantastvabhivikhyātāḥ santaścācāralakṣaṇāḥ
पुरीषं यदि वा मूत्रं ये न कुवन्ति मानवाः ।
राजमार्गे गवां मध्ये धान्यमध्ये शिवालये ।
अग्न्यगारे तथा तीरे ये न कुर्वन्ति ते शुभाः
purīṣaṃ yadi vā mūtraṃ ye na kuvanti mānavāḥ |
rājamārge gavāṃ madhye dhānyamadhye śivālaye |
agnyagāre tathā tīre ye na kurvanti te śubhāḥ
शौचमावश्यकं कृत्वा देवतानां च तर्पणम् ।
धर्ममाहुर्मनुष्याणामुपस्पृश्य नदीं तरेत्
śaucamāvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam |
dharmamāhurmanuṣyāṇāmupaspṛśya nadīṃ taret
सूर्यं सदोपतिष्ठेन न स्वपेद्भास्करोदये ।
सायंप्रातर्जपेत्सन्ध्यां तिष्ठन्पूर्वां तथेतराम्
sūryaṃ sadopatiṣṭhena na svapedbhāskarodaye |
sāyaṃprātarjapetsandhyāṃ tiṣṭhanpūrvāṃ tathetarām
पञ्चार्द्रो भोजनं भुञ्ज्यात्प्राद्भुखो मौनमास्थितः ।
न निन्द्यादन्नभक्ष्यांश्च स्वादुस्वादु च भक्षयेत्
pañcārdro bhojanaṃ bhuñjyātprādbhukho maunamāsthitaḥ |
na nindyādannabhakṣyāṃśca svādusvādu ca bhakṣayet
नार्द्रपाणिः समुत्तिष्ठेन्नार्द्रपादः स्वपेन्निशि ।
देवर्षिर्नारदः प्राह एतदाचारलक्षणम्
nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi |
devarṣirnāradaḥ prāha etadācāralakṣaṇam
शोचिष्केशमनड्वाहं देवगोष्ठं चतुष्पथम् ।
ब्राह्मणं धार्मिकं चैव नित्यं कुर्यात्प्रदक्षिणम्
śociṣkeśamanaḍvāhaṃ devagoṣṭhaṃ catuṣpatham |
brāhmaṇaṃ dhārmikaṃ caiva nityaṃ kuryātpradakṣiṇam
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च ।
सामात्यं भोजनं भृत्यैः पुरुषस्य प्रशस्यते
atithīnāṃ ca sarveṣāṃ preṣyāṇāṃ svajanasya ca |
sāmātyaṃ bhojanaṃ bhṛtyaiḥ puruṣasya praśasyate
सायंप्रातर्मनुष्याणामशनं वेदनिर्मितम् ।
नान्तरा भोजनं दृष्टमुपवासी तथा भवेत्
sāyaṃprātarmanuṣyāṇāmaśanaṃ vedanirmitam |
nāntarā bhojanaṃ dṛṣṭamupavāsī tathā bhavet
होमकाले तथ्ना जुह्वन्नृतुकाले तथा व्रजन् ।
अनन्यस्त्रीजनः प्राज्ञो ब्रह्मचारी तथा भवेत्
homakāle tathnā juhvannṛtukāle tathā vrajan |
ananyastrījanaḥ prājño brahmacārī tathā bhavet
अमृतं ब्राह्मणोच्छिष्टं जनन्या हृदयं कृतम् ।
तज्जनाः पर्युपासन्ते सत्यं सन्तः समासते
amṛtaṃ brāhmaṇocchiṣṭaṃ jananyā hṛdayaṃ kṛtam |
tajjanāḥ paryupāsante satyaṃ santaḥ samāsate
लोष्टमदीं तृणच्छेदी नखखादी तु यो नरः ।
नित्योच्छिष्टः संकसुको नेहायुर्विन्दते महत्
loṣṭamadīṃ tṛṇacchedī nakhakhādī tu yo naraḥ |
nityocchiṣṭaḥ saṃkasuko nehāyurvindate mahat
यजुषा संस्कृतं मांसं निवृत्तो मांसभक्षणात् ।
भक्षयेन्न वृथामांसं पृष्ठमांसं च वर्जयेत्
yajuṣā saṃskṛtaṃ māṃsaṃ nivṛtto māṃsabhakṣaṇāt |
bhakṣayenna vṛthāmāṃsaṃ pṛṣṭhamāṃsaṃ ca varjayet
स्वदेशे परदेशे वा अतिर्थि नोपवासयेत् ।
काम्यकर्मफलं लब्ध्वा गुरूणामुपपादयेत्
svadeśe paradeśe vā atirthi nopavāsayet |
kāmyakarmaphalaṃ labdhvā gurūṇāmupapādayet
गुरूणामासनं देयं कर्तव्यं चाभिवादनम् ।
गुरूनभ्यर्च्य युज्येत आयुषा यशसा श्रिया
gurūṇāmāsanaṃ deyaṃ kartavyaṃ cābhivādanam |
gurūnabhyarcya yujyeta āyuṣā yaśasā śriyā
नेक्षेतादित्यमुद्यन्तं न च नग्नां परस्त्रियम् ।
मैथुनं सततं धर्म्यं गुह्ये चैव समाचरेत्
nekṣetādityamudyantaṃ na ca nagnāṃ parastriyam |
maithunaṃ satataṃ dharmyaṃ guhye caiva samācaret
तीर्थानां हृदयं तीर्थं शुचीनां हृदयं शुचिः ।
सर्वमार्यकृतं धर्म्यं वालसंस्पर्शनानि च
tīrthānāṃ hṛdayaṃ tīrthaṃ śucīnāṃ hṛdayaṃ śuciḥ |
sarvamāryakṛtaṃ dharmyaṃ vālasaṃsparśanāni ca
दर्शनेदर्शने नित्यं सुखप्रश्नमुदाहरेत् ।
सायं प्रातश्च विप्राणां प्रदिष्टमभिवादनम्
darśanedarśane nityaṃ sukhapraśnamudāharet |
sāyaṃ prātaśca viprāṇāṃ pradiṣṭamabhivādanam
देवगोष्ठे गवां मध्ये ब्राह्मणानां क्रियापथे ।
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्
devagoṣṭhe gavāṃ madhye brāhmaṇānāṃ kriyāpathe |
svādhyāye bhojane caiva dakṣiṇaṃ pāṇimuddharet
सायं प्रातश्च विप्राणां पूजनं च यथाविधि ।
पण्यानां शोभते पण्यं कृषीणामृद्ध्यतां कृषिः ।
बहुकारं च सस्यानां वाह्ये वाहो गवां तथा
sāyaṃ prātaśca viprāṇāṃ pūjanaṃ ca yathāvidhi |
paṇyānāṃ śobhate paṇyaṃ kṛṣīṇāmṛddhyatāṃ kṛṣiḥ |
bahukāraṃ ca sasyānāṃ vāhye vāho gavāṃ tathā
संपन्नं भोजने नित्यं पानीये तर्पणं तथा ।
सुशृतं पायसे ब्रूयाद्यवाग्वां कृसरे तथा
saṃpannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā |
suśṛtaṃ pāyase brūyādyavāgvāṃ kṛsare tathā
श्मश्रुकर्मणि संप्राप्ते क्षुते स्नानेऽथ भोजने ।
व्याधितानां च सर्वेषामायुष्ममभिनन्दनम्
śmaśrukarmaṇi saṃprāpte kṣute snāne'tha bhojane |
vyādhitānāṃ ca sarveṣāmāyuṣmamabhinandanam
प्रत्यादित्यं न मेहेत न पश्येदात्मनः शकृत् ।
सुतैः स्त्रिया च शयनं सह भोज्यं च वर्जयेत्
pratyādityaṃ na meheta na paśyedātmanaḥ śakṛt |
sutaiḥ striyā ca śayanaṃ saha bhojyaṃ ca varjayet
त्वंकारं नामधेयं च ज्येष्ठानां परिवर्जयेत् ।
अवराणां समानानामुभयं नैव दुष्यति
tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet |
avarāṇāṃ samānānāmubhayaṃ naiva duṣyati
हृदयं पापवृत्तानां पापमाख्याति वैकृतम् ।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने
hṛdayaṃ pāpavṛttānāṃ pāpamākhyāti vaikṛtam |
jñānapūrvaṃ vinaśyanti gūhamānā mahājane
ज्ञानपूर्वकृतं पापं छादयन्त्यबहुश्रुताः ।
नैनं मनुष्याः पश्यन्ति पश्यन्त्येव दिवौकसः
jñānapūrvakṛtaṃ pāpaṃ chādayantyabahuśrutāḥ |
nainaṃ manuṣyāḥ paśyanti paśyantyeva divaukasaḥ
पापेनापिहितं पापं पापमेवानुवर्तते ।
धर्मेणापिहितो धर्मो धर्ममेवानुवर्तते ।
धार्मिकेण कृतो धर्मो धर्ममेवानुवर्तते
pāpenāpihitaṃ pāpaṃ pāpamevānuvartate |
dharmeṇāpihito dharmo dharmamevānuvartate |
dhārmikeṇa kṛto dharmo dharmamevānuvartate
पापं कृतं न स्मरतीह मूढो
विवर्तमानस्य तदेति कर्तुः ।
राहुर्यथा चन्द्रमुपैति चापि
तथाऽबुधं पापमुपैति कर्म
pāpaṃ kṛtaṃ na smaratīha mūḍho
vivartamānasya tadeti kartuḥ |
rāhuryathā candramupaiti cāpi
tathā'budhaṃ pāpamupaiti karma
आशया संचितं द्रव्यं दुःखेनैवोपभुज्यते ।
तद्बुधा न प्रशंसन्ति मरणं न प्रतीक्षते
āśayā saṃcitaṃ dravyaṃ duḥkhenaivopabhujyate |
tadbudhā na praśaṃsanti maraṇaṃ na pratīkṣate
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः ।
तस्मात्सर्वेषु भूतेषु मनसा शिवमाचरेत्
mānasaṃ sarvabhūtānāṃ dharmamāhurmanīṣiṇaḥ |
tasmātsarveṣu bhūteṣu manasā śivamācaret
एक एव चरेद्धर्मं नास्ति धर्मे सहायता ।
केवलं विधिमासाद्य सहायः किं करिष्यति
eka eva careddharmaṃ nāsti dharme sahāyatā |
kevalaṃ vidhimāsādya sahāyaḥ kiṃ kariṣyati
धर्मो योनिर्मनुष्याणां देवानाममृतं दिवि ।
प्रेत्यभावे सुखं धर्माच्न्छश्वत्तैरुपभुज्यते
dharmo yonirmanuṣyāṇāṃ devānāmamṛtaṃ divi |
pretyabhāve sukhaṃ dharmācnchaśvattairupabhujyate
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)