शान्ति पर्व

अध्याय 186: चार वर्णों के उद्भव पर भृगु

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि षडशीत्यधिकशततमोऽध्यायः ॥

20 श्लोक · 186 में से 372

इस अध्याय में क्या होता है

चार वर्णों के उद्भव पर भृगु

भृगु कहते हैं कि ब्रह्मा ने पहले केवल ब्राह्मणों को, अग्नि जैसे तेजस्वी प्रजापतियों को रचा, और साथ में सत्य, धर्म, तप, वेद और शौच को; फिर देवता, दानव, मनुष्य और चारों वर्ण बने। भरद्वाज आपत्ति करते हैं: यदि वर्ण रंग से पहचाना जाता है, तो रंग सबमें मिला-जुला है, और काम, भय, भूख और शरीर के मल सबमें समान हैं, फिर वर्ण का विभाग कैसे? भृगु उत्तर देते हैं कि वर्णों में कोई भेद नहीं; सारा जगत ब्राह्मण था, और कर्मों से लोग विभिन्न वर्णों में आए। भोग और साहस के प्रेमी क्षत्रिय हुए; गोपालन और खेती से जीने वाले वैश्य हुए; हिंसा, असत्य और लोभ में पड़े लोग शूद्र हुए। धर्म और यज्ञ किसी के लिए वर्जित नहीं। जिनका ज्ञान नष्ट हुआ, वे पिशाच, राक्षस और म्लेच्छ बने।

भृगुरुवाच

186.1

असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतीन् ।
आत्मतेजोभिनिर्वृत्तान्भास्कराग्निसमप्रभान्

asṛjadbrāhmaṇāneva pūrvaṃ brahmā prajāpatīn |
ātmatejobhinirvṛttānbhāskarāgnisamaprabhān

186.2

ततः सत्यं च धर्मं च तपो ब्रह्म च शाश्वतम् ।
आचारं चैव शौचं च सर्गादौ विदधे प्रभुः

tataḥ satyaṃ ca dharmaṃ ca tapo brahma ca śāśvatam |
ācāraṃ caiva śaucaṃ ca sargādau vidadhe prabhuḥ

186.3

देवदानवगन्वर्गा दैत्यासुरमहोरगाः ।
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा

devadānavaganvargā daityāsuramahoragāḥ |
yakṣarākṣasanāgāśca piśācā manujāstathā

186.4

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च द्विजसत्तम ।
ये चान्ये भूतसङ्घानां संघातास्तांश्च निर्ममे

brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśca dvijasattama |
ye cānye bhūtasaṅghānāṃ saṃghātāstāṃśca nirmame

186.5

ब्राह्मणानां सितो वर्णः क्षत्रियाणां तु लोहितः ।
वैश्यानां पीतको वर्णः शूद्राणामसितस्तथा

brāhmaṇānāṃ sito varṇaḥ kṣatriyāṇāṃ tu lohitaḥ |
vaiśyānāṃ pītako varṇaḥ śūdrāṇāmasitastathā

भरद्वाज उवाच

186.6

चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभज्यते ।
सर्वेषां खलु वर्णानां दृश्यते वर्णसंकरः

cāturvarṇyasya varṇena yadi varṇo vibhajyate |
sarveṣāṃ khalu varṇānāṃ dṛśyate varṇasaṃkaraḥ

186.7

कामः क्रोधो भयं लोभः शोकश्चिन्ता क्षुधा श्रमः ।
सर्वेषां नः प्रभवति कस्माद्वर्णो विभज्यते

kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ |
sarveṣāṃ naḥ prabhavati kasmādvarṇo vibhajyate

186.8

स्वेदमूत्रपुरीषाणि श्लेष्मा पित्तं सशोणितम् ।
तनुः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते

svedamūtrapurīṣāṇi śleṣmā pittaṃ saśoṇitam |
tanuḥ kṣarati sarveṣāṃ kasmādvarṇo vibhajyate

186.9

जङ्गमानामसङ्ख्येयाः स्थावराणां च जातयः ।
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः

jaṅgamānāmasaṅkhyeyāḥ sthāvarāṇāṃ ca jātayaḥ |
teṣāṃ vividhavarṇānāṃ kuto varṇaviniścayaḥ

भृगुरुवाच

186.10

न विशेषोऽस्ति वर्णानां सर्वं ब्राह्ममिदं जगत् ।
ब्राह्मणाः पूर्वसृष्टा हि कर्मभिर्वर्णतां गताः

na viśeṣo'sti varṇānāṃ sarvaṃ brāhmamidaṃ jagat |
brāhmaṇāḥ pūrvasṛṣṭā hi karmabhirvarṇatāṃ gatāḥ

186.11

कामभोगप्रियास्तीक्ष्णाः क्रोधनाः प्रियसाहसाः ।
त्यक्तस्वधर्मा रक्ताङ्गास्ते द्विजाः क्षत्रतां गताः

kāmabhogapriyāstīkṣṇāḥ krodhanāḥ priyasāhasāḥ |
tyaktasvadharmā raktāṅgāste dvijāḥ kṣatratāṃ gatāḥ

186.12

गोषु वृत्तिं समाधाय पीताः कृष्युपजीविनः ।
स्वधर्मान्नानुतिष्ठन्ति ते द्विजा वैश्यतां गताः

goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ |
svadharmānnānutiṣṭhanti te dvijā vaiśyatāṃ gatāḥ

186.13

हिंसानृतप्रिया लुब्धाः सर्वकर्मोपजीविनः ।
कृष्णाः शौचपरिभ्रष्टास्ते द्विजाः शूद्रता गताः

hiṃsānṛtapriyā lubdhāḥ sarvakarmopajīvinaḥ |
kṛṣṇāḥ śaucaparibhraṣṭāste dvijāḥ śūdratā gatāḥ

186.14

इत्येतैः कर्मभिर्व्यस्ता द्विजा वर्णान्तरं गताः ।
धर्मो यज्ञक्रिया चैषां नित्यं न प्रतिषिध्यते

ityetaiḥ karmabhirvyastā dvijā varṇāntaraṃ gatāḥ |
dharmo yajñakriyā caiṣāṃ nityaṃ na pratiṣidhyate

186.15

इत्येते चतुरो वर्णा येषां ब्राह्मी सरस्वती ।
विहिता ब्रह्मणा पूर्वं लोभात्त्वज्ञानतां गताः

ityete caturo varṇā yeṣāṃ brāhmī sarasvatī |
vihitā brahmaṇā pūrvaṃ lobhāttvajñānatāṃ gatāḥ

186.16

ब्राह्मणा ब्रह्मतन्त्रस्थास्तपस्तेषां न नश्यति ।
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा

brāhmaṇā brahmatantrasthāstapasteṣāṃ na naśyati |
brahma dhārayatāṃ nityaṃ vratāni niyamāṃstathā

186.17

ब्रह्म वैव परं सृष्टं ये तु जानन्ति ते द्विजाः ।
तेषां बहुविधास्त्वन्ये तत्रतत्र द्विजातयः

brahma vaiva paraṃ sṛṣṭaṃ ye tu jānanti te dvijāḥ |
teṣāṃ bahuvidhāstvanye tatratatra dvijātayaḥ

186.18

पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः ।
प्रनष्टज्ञानविज्ञानाः स्वच्छन्दाचारचेष्टिताः

piśācā rākṣasāḥ pretā vividhā mlecchajātayaḥ |
pranaṣṭajñānavijñānāḥ svacchandācāraceṣṭitāḥ

186.19

प्रजा ब्राह्मणसंस्काराः स्वकर्मकृतनिश्चयाः ।
ऋषिभिः स्वेन तपसा सृज्यन्ते चापरे परैः

prajā brāhmaṇasaṃskārāḥ svakarmakṛtaniścayāḥ |
ṛṣibhiḥ svena tapasā sṛjyante cāpare paraiḥ

186.20

आदिदेवसमुद्भूता ब्रह्ममूलाक्षयाव्यया ।
सा सृष्टिर्मानसी नाम धर्मतन्त्रपरायणा

ādidevasamudbhūtā brahmamūlākṣayāvyayā |
sā sṛṣṭirmānasī nāma dharmatantraparāyaṇā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)