शान्ति पर्व

अध्याय 167: दस्युओं के बीच गौतम का पतन

इति श्रीमन्महाभारते शान्तिपर्वनि आपद्धर्मपर्वणि सप्तषष्ट्यधिकशततमोऽध्यायः ॥

24 श्लोक · 167 में से 372

इस अध्याय में क्या होता है

दस्युओं के बीच गौतम का पतन

कृतघ्न मित्रद्रोही के विषय में पूछे जाने पर भीष्म उत्तर के म्लेच्छ देश का एक प्राचीन इतिहास आरम्भ करते हैं। मध्यदेश का गौतम नामक ब्राह्मण, धन की खोज में दस्युओं के गाँव में जाता है। एक धनी, दानी दस्यु उसे आश्रय, वर्ष भर का अन्न, नया वस्त्र और एक पतिहीन स्त्री देता है। गौतम उसके साथ रहता है, दस्यु के घर की सेवा करता है और प्रतिदिन धनुष से वन के पक्षी मारते-मारते दस्युओं जैसा निर्दय हो जाता है। उसका एक विद्वान ब्राह्मण मित्र आता है, उसे रक्त से सना और मरे पक्षियों का भार उठाए द्वार पर देखता है, और प्रसिद्ध कुल को कलंकित करने पर धिक्कारता है। गौतम निर्धनता की बात कहकर अगले दिन साथ चलने का वचन देता है। अतिथि वहाँ कुछ नहीं खाता।

युधिष्ठिर उवाच

167.1

विस्तरेणार्थसंबन्धं श्रोतुमिच्छामि तत्त्वतः ।
मित्रद्रोही कृतघ्नश्च यः प्रोक्तस्तं च मे वद

vistareṇārthasaṃbandhaṃ śrotumicchāmi tattvataḥ |
mitradrohī kṛtaghnaśca yaḥ proktastaṃ ca me vada

भीष्म उवाच

167.2

हन्त ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
उदीच्यां दिशि यद्वृत्तं म्लेच्छेषु मनुजाधिप

hanta te vartayiṣye'hamitihāsaṃ purātanam |
udīcyāṃ diśi yadvṛttaṃ mleccheṣu manujādhipa

167.3

ब्राह्मणो मध्यदेशीयः कृष्णाङ्गो ब्रह्मवर्जितः ।
ग्रामं दस्युगणाकीर्णं प्राविशद्धनतृष्णया

brāhmaṇo madhyadeśīyaḥ kṛṣṇāṅgo brahmavarjitaḥ |
grāmaṃ dasyugaṇākīrṇaṃ prāviśaddhanatṛṣṇayā

167.4

तत्र दस्युर्धनयुतः सर्ववर्णविशेषवित् ।
ब्रह्मण्यः सत्यसन्धश्च दाने च निरतोऽभवत्

tatra dasyurdhanayutaḥ sarvavarṇaviśeṣavit |
brahmaṇyaḥ satyasandhaśca dāne ca nirato'bhavat

167.5

तस्य क्षयमुपागम्य ततो भिक्षामयाचत ।
प्रतिश्रयं च वासार्थं भिक्षां चैवाथ वार्षिकीम्

tasya kṣayamupāgamya tato bhikṣāmayācata |
pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm

167.6

प्रादात्तस्मै स विप्राय वस्त्रं च सदशं नवम् ।
नारीं चापि वयोपेतां भर्त्रा विरहितां तथा

prādāttasmai sa viprāya vastraṃ ca sadaśaṃ navam |
nārīṃ cāpi vayopetāṃ bhartrā virahitāṃ tathā

167.7

एतत्संप्राप्य हृष्टात्मा गौतमोऽथ द्विजस्तथा ।
तस्मिन्गृहवरे राजंस्तया रेमे स गौतमः

etatsaṃprāpya hṛṣṭātmā gautamo'tha dvijastathā |
tasmingṛhavare rājaṃstayā reme sa gautamaḥ

167.8

कुटुस्बार्थं च दस्योश्च साहाय्यं चाप्यथाकरोत् ।
सोऽवसद्वर्षमेकं वै समृद्धे शबरालये

kuṭusbārthaṃ ca dasyośca sāhāyyaṃ cāpyathākarot |
so'vasadvarṣamekaṃ vai samṛddhe śabarālaye

167.9

बाणवेधे परं यत्नमकरोच्चैव गौतमः ।
चक्राङ्गान्स च नित्यं वै सर्वतो वनगोचरान् ।
जघान गौतमो राजन्यथा दस्युगणास्तथा

bāṇavedhe paraṃ yatnamakaroccaiva gautamaḥ |
cakrāṅgānsa ca nityaṃ vai sarvato vanagocarān |
jaghāna gautamo rājanyathā dasyugaṇāstathā

167.10

हिंसापटुर्घृणाहीनः सदा प्राणिवधे रतः ।
गौतमः सन्निकर्षेण दस्युभिः समतामियात्

hiṃsāpaṭurghṛṇāhīnaḥ sadā prāṇivadhe rataḥ |
gautamaḥ sannikarṣeṇa dasyubhiḥ samatāmiyāt

167.11

तथा तु वसतस्तस्य दस्युग्रामे सुखं तदा ।
अगमन्बहवो मासा निघ्नतः पक्षिणो बहून्

tathā tu vasatastasya dasyugrāme sukhaṃ tadā |
agamanbahavo māsā nighnataḥ pakṣiṇo bahūn

167.12

ततः कदाचिदपरो द्विजस्तं देशमागतः ।
जटाचीराजिनधरः स्वाध्यायनिरतः शुचिः

tataḥ kadācidaparo dvijastaṃ deśamāgataḥ |
jaṭācīrājinadharaḥ svādhyāyanirataḥ śuciḥ

167.13

विनीतो वेदशास्त्रेषु वेदान्तानां च पारगः ।
अदृश्यत ततस्तत्र सखा तस्यैव तु द्विजः ।
तं दस्युग्राममगमद्यत्रासौ गौतमोऽभवत्

vinīto vedaśāstreṣu vedāntānāṃ ca pāragaḥ |
adṛśyata tatastatra sakhā tasyaiva tu dvijaḥ |
taṃ dasyugrāmamagamadyatrāsau gautamo'bhavat

167.14

स तु विप्रगृहान्वेपी शूद्रान्नपरिवर्जकः ।
ग्रामे दस्युसमाकीर्णे व्यचरत्सर्वतो द्विजः

sa tu vipragṛhānvepī śūdrānnaparivarjakaḥ |
grāme dasyusamākīrṇe vyacaratsarvato dvijaḥ

167.15

ततः स गौतमगृहं प्रविवेश द्विजोत्तमः ।
गौतमश्चापि संप्राप्तस्तावन्योन्येन संगतौ

tataḥ sa gautamagṛhaṃ praviveśa dvijottamaḥ |
gautamaścāpi saṃprāptastāvanyonyena saṃgatau

167.16

चक्राङ्गभारस्कन्धं तं धनुष्पाणिं धृतायुधम् ।
रुधिरेणावसिक्ताङ्गं गृहद्वारमुपागतम्

cakrāṅgabhāraskandhaṃ taṃ dhanuṣpāṇiṃ dhṛtāyudham |
rudhireṇāvasiktāṅgaṃ gṛhadvāramupāgatam

167.17

तं दृष्ट्वा पुरुषादाभमपध्वस्तं क्षमागतम् ।
अभिज्ञाय द्विजो व्रीडन्निदं वाक्यमथाब्रवीत्

taṃ dṛṣṭvā puruṣādābhamapadhvastaṃ kṣamāgatam |
abhijñāya dvijo vrīḍannidaṃ vākyamathābravīt

167.18

किमिदं कुरुपे मोहाद्विप्रस्त्वं हि कुलोद्भवः ।
मध्यदेशपरिज्ञातो दस्युभावं गतः कथम्

kimidaṃ kurupe mohādviprastvaṃ hi kulodbhavaḥ |
madhyadeśaparijñāto dasyubhāvaṃ gataḥ katham

167.19

पूर्वान्स्मर द्विज ज्ञातीन्प्रख्यातान्वेदपारगान् ।
येषां वंशेऽभिजातस्त्वमीदृशः कुलपांसनः

pūrvānsmara dvija jñātīnprakhyātānvedapāragān |
yeṣāṃ vaṃśe'bhijātastvamīdṛśaḥ kulapāṃsanaḥ

167.20

अवबुध्यात्मनाऽऽत्मानं सत्वं शीलं श्रुतं दमम् ।
अनुक्रोशं च संस्मृत्य त्यज वासमिमं द्विज

avabudhyātmanā''tmānaṃ satvaṃ śīlaṃ śrutaṃ damam |
anukrośaṃ ca saṃsmṛtya tyaja vāsamimaṃ dvija

167.21

स एवमुक्तः सुहृदा तेन तत्र हितैपिणा ।
प्रत्युवाच ततो राजन्विनिश्वस्य तदाऽऽर्तबत्

sa evamuktaḥ suhṛdā tena tatra hitaipiṇā |
pratyuvāca tato rājanviniśvasya tadā''rtabat

167.22

निर्धनोऽस्मि द्विजश्रेष्ठ नापि वेदविदप्यहम् ।
वित्तार्थमिह संप्राप्तं विद्धि मां द्विजसत्तम

nirdhano'smi dvijaśreṣṭha nāpi vedavidapyaham |
vittārthamiha saṃprāptaṃ viddhi māṃ dvijasattama

167.23

त्वद्दर्शनात्तु विप्रेन्द्र कृतार्थोऽस्म्यद्य वै द्विज ।
अध्वानं सह यास्यावः श्वो वसस्वाद्य शर्वरीम्

tvaddarśanāttu viprendra kṛtārtho'smyadya vai dvija |
adhvānaṃ saha yāsyāvaḥ śvo vasasvādya śarvarīm

167.24

स तत्र न्यवसद्विप्रो घृणी किंचिदसंस्पृशन् ।
क्षुधितश्छन्द्यमानोऽपि भोजनं नाभ्यनन्दत

sa tatra nyavasadvipro ghṛṇī kiṃcidasaṃspṛśan |
kṣudhitaśchandyamāno'pi bhojanaṃ nābhyanandata

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)