बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः ।
कस्मात्त्वां रक्षते नित्यं भीमः सर्वत्रगोऽनिलः
bandhutvādathavā sakhyācchālmale nātra saṃśayaḥ |
kasmāttvāṃ rakṣate nityaṃ bhīmaḥ sarvatrago'nilaḥ
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुःपञ्चाशदधिकशततमोऽध्यायः ॥
18 श्लोक · 154 में से 372
नारद पूछते हैं कि क्या बन्धुत्व या मित्रता से भयंकर वायु शाल्मलि को छोड़ देता है, क्योंकि पृथ्वी पर ऐसा कुछ नहीं जिसे वायु ने न तोड़ा हो। वृक्ष उत्तर देता है कि वायु न मेरा मित्र है न बन्धु। मेरा बल कहीं अधिक है; वायु उसके अठारहवें भाग तक भी नहीं पहुँचता। जब वायु वृक्षों और पर्वतों को तोड़ता आता है, मैं उसे रोक देता हूँ अतः मुझे भय नहीं। नारद कहते हैं कि तुम्हारी दृष्टि उलटी है। वायु के समान कोई नहीं; न इन्द्र, न यम, न कुबेर, न वरुण, और हर प्राणी प्राण रूप वायु से ही चलता है। चन्दन, शाल और देवदारु जैसे बलवान वृक्ष भी उसका अपमान नहीं करते। वृक्ष को बड़बोला कहकर नारद कहते हैं कि मैं स्वयं वायु से जाकर कहूँगा।
नारद उवाच
बन्धुत्वादथवा सख्याच्छाल्मले नात्र संशयः ।
कस्मात्त्वां रक्षते नित्यं भीमः सर्वत्रगोऽनिलः
bandhutvādathavā sakhyācchālmale nātra saṃśayaḥ |
kasmāttvāṃ rakṣate nityaṃ bhīmaḥ sarvatrago'nilaḥ
तद्भावं परमं वायोः शाल्मके त्वमुपागतः ।
तवाहमस्मीति सदा येन रक्षति मारुतः
tadbhāvaṃ paramaṃ vāyoḥ śālmake tvamupāgataḥ |
tavāhamasmīti sadā yena rakṣati mārutaḥ
न तं पश्याम्यहं वृक्षं पर्वतं वेश्म चेदृशम् ।
यं न वायुबलाद्भग्नं पृथिव्यामिति मे मतिः
na taṃ paśyāmyahaṃ vṛkṣaṃ parvataṃ veśma cedṛśam |
yaṃ na vāyubalādbhagnaṃ pṛthivyāmiti me matiḥ
त्वं पुनः कारणैर्नूनं रक्ष्यसे शाल्मले यथा ।
वायुना सपरीवारस्तेन तिष्ठस्यसंशयम्
tvaṃ punaḥ kāraṇairnūnaṃ rakṣyase śālmale yathā |
vāyunā saparīvārastena tiṣṭhasyasaṃśayam
शाल्मलिरुवाच
न मे वायुः सखा ब्रह्मन्न बन्धुर्मम नारद ।
चिरं मे प्रीयते नैव येन मां रक्षतेऽनिलः
na me vāyuḥ sakhā brahmanna bandhurmama nārada |
ciraṃ me prīyate naiva yena māṃ rakṣate'nilaḥ
मम तेजोबलं भीमं वायोरपि हि नारद ।
कलामष्टादशीं प्राणैर्न मे प्राप्नोति मारुतः
mama tejobalaṃ bhīmaṃ vāyorapi hi nārada |
kalāmaṣṭādaśīṃ prāṇairna me prāpnoti mārutaḥ
आगच्छन्परुषो वायुर्मया विष्टम्भितो बलात् ।
भञ्जन्द्रुमान्पर्वतांश्च यच्चान्यत्स्थाणुजङ्गमम्
āgacchanparuṣo vāyurmayā viṣṭambhito balāt |
bhañjandrumānparvatāṃśca yaccānyatsthāṇujaṅgamam
स मया बहुशो भग्नः प्रभञ्जन्वै प्रभञ्जनः ।
तस्मान्न विभ्ये देवर्षे क्रुद्धादपि समीरणात्
sa mayā bahuśo bhagnaḥ prabhañjanvai prabhañjanaḥ |
tasmānna vibhye devarṣe kruddhādapi samīraṇāt
नारद उवाच
शाल्मले विपरीतं ते दर्शनं नात्र संशयः ।
न हि वायोर्बले नास्ति भूतं तुल्यबलं क्वचित्
śālmale viparītaṃ te darśanaṃ nātra saṃśayaḥ |
na hi vāyorbale nāsti bhūtaṃ tulyabalaṃ kvacit
इन्द्रो यमो वैश्रवणो वरुणश्च जलेश्वरः ।
नैतेऽपि तुल्या मरुतः किं पुनस्त्वं वनस्पते
indro yamo vaiśravaṇo varuṇaśca jaleśvaraḥ |
naite'pi tulyā marutaḥ kiṃ punastvaṃ vanaspate
यश्च कश्चिदपि प्राणी चेष्टते शाल्मले भुवि ।
सर्वत्र भगवान्वायुश्चेष्टाप्राणकरः प्रभुः
yaśca kaścidapi prāṇī ceṣṭate śālmale bhuvi |
sarvatra bhagavānvāyuśceṣṭāprāṇakaraḥ prabhuḥ
एष चेष्टयते सम्यक्प्राणिनः सम्यगायतः ।
असम्यगायतो भूयश्चेष्टते विकृतं नृषु
eṣa ceṣṭayate samyakprāṇinaḥ samyagāyataḥ |
asamyagāyato bhūyaśceṣṭate vikṛtaṃ nṛṣu
स त्वमेवंविधं वायुं सर्वसत्वभृतां वरम् ।
न पूजयसि पूज्यन्तं किमन्यद्वुद्धिलाघवात्
sa tvamevaṃvidhaṃ vāyuṃ sarvasatvabhṛtāṃ varam |
na pūjayasi pūjyantaṃ kimanyadvuddhilāghavāt
असारश्चापि दुर्मेधाः केवलं बहु भाषसे ।
क्रोधादिभिरवच्छन्नो मिथ्या वदसि शाल्मले
asāraścāpi durmedhāḥ kevalaṃ bahu bhāṣase |
krodhādibhiravacchanno mithyā vadasi śālmale
मम रोषः समुत्पन्नस्त्वय्येवं संप्रभाषति ।
ब्रवीम्येष स्वयं वायोस्तव दुर्भाषितं बहु
mama roṣaḥ samutpannastvayyevaṃ saṃprabhāṣati |
bravīmyeṣa svayaṃ vāyostava durbhāṣitaṃ bahu
चन्दनैः स्यन्दनैः शालैः सरलैर्देवदारुभिः ।
वेतसैर्धन्वनैश्चापि ये चान्ये बलवत्तराः ।
तैश्चापि नैवं दुर्बुद्धे क्षिप्तो वायुः कृतात्मभिः
candanaiḥ syandanaiḥ śālaiḥ saralairdevadārubhiḥ |
vetasairdhanvanaiścāpi ye cānye balavattarāḥ |
taiścāpi naivaṃ durbuddhe kṣipto vāyuḥ kṛtātmabhiḥ
तेऽपि जानन्ति वायोश्च बलमात्मन एव च ।
तस्मात्ते नावमन्यन्ते श्वसनं तरुसत्तमाः
te'pi jānanti vāyośca balamātmana eva ca |
tasmātte nāvamanyante śvasanaṃ tarusattamāḥ
त्वं तु मोहान्न जानीपे वायोर्बलमनन्तकम् ।
एवं तस्माद्गमिष्यामि सकाशं मातरिश्वनः
tvaṃ tu mohānna jānīpe vāyorbalamanantakam |
evaṃ tasmādgamiṣyāmi sakāśaṃ mātariśvanaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)