क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु ।
परिशङ्कितमुख्यस्य दुष्टमन्त्रस्य भारत
kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu |
pariśaṅkitamukhyasya duṣṭamantrasya bhārata
इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि एकत्रिंशदधिकशततमोऽध्यायः ॥
14 श्लोक · 131 में से 372
युधिष्ठिर पूछते हैं कि जो राजा दुर्बल, दीर्घसूत्री, कुमन्त्रणा वाला हो, जिसके पुरवासी विरक्त, कोष खाली और मन्त्री फूटे हों, और बलवान शत्रु चढ़ आए, उसके लिए क्या शेष है। भीष्म कहते हैं: आक्रमणकारी धर्मात्मा हो तो शीघ्र सन्धि करो और अपना अधिकार क्रम से छोड़ते जाओ। बलवान और पापी हो तो भी सन्धि चाहो, या राजधानी छोड़कर दूसरे उपाय से आपत्ति पार करो; जीवित रहोगे तो धन फिर कमा लोगे। जहाँ कोष और सेना देकर बचा जा सके, वहाँ बुद्धिमान अपने को नहीं देता। राज्य में विद्रोह पर फिर पूछने पर भीष्म कहते हैं: शीघ्र सन्धि करो या शीघ्र तीव्र पराक्रम। थोड़ी अनुरक्त सेना से भी पृथ्वी जीती जाती है, और युद्ध में मृत्यु इन्द्रलोक देती है।
युधिष्ठिर उवाच
क्षीणस्य दीर्घसूत्रस्य सानुक्रोशस्य बन्धुषु ।
परिशङ्कितमुख्यस्य दुष्टमन्त्रस्य भारत
kṣīṇasya dīrghasūtrasya sānukrośasya bandhuṣu |
pariśaṅkitamukhyasya duṣṭamantrasya bhārata
विरक्तराज्यपौरस्य निर्द्रव्यनिचयस्य च ।
असंभावितमित्रस्य भिन्नामात्यस्य सर्वतः
viraktarājyapaurasya nirdravyanicayasya ca |
asaṃbhāvitamitrasya bhinnāmātyasya sarvataḥ
परचक्राभियातस्य दुर्बलस्य बलीयसा ।
आपन्नचेतसो ब्रूहि किं कार्यमवशिष्यते
paracakrābhiyātasya durbalasya balīyasā |
āpannacetaso brūhi kiṃ kāryamavaśiṣyate
भीष्म उवाच
बाह्यश्चेद्विजिगीषुः स्याद्धर्मार्थकुशलः शुचिः ।
जवेन सन्धिं कुर्वीत पूर्वं पूर्वं विमोक्षयेत्
bāhyaścedvijigīṣuḥ syāddharmārthakuśalaḥ śuciḥ |
javena sandhiṃ kurvīta pūrvaṃ pūrvaṃ vimokṣayet
[योऽधर्मविजिगीषुः स्याद्बलवान्पापनिश्चयः ।]
आत्मनः सन्निरोधेन सन्धिं तेनापि रोचयेत्
[yo'dharmavijigīṣuḥ syādbalavānpāpaniścayaḥ |]
ātmanaḥ sannirodhena sandhiṃ tenāpi rocayet
अपास्य राजधानीं वा तरेदन्येन वाऽऽपदम् ।
तद्भावभावो द्रव्याणि जीवन्पुनरुपार्जयेत्
apāsya rājadhānīṃ vā taredanyena vā''padam |
tadbhāvabhāvo dravyāṇi jīvanpunarupārjayet
यास्तु कोशबलत्यागाच्छक्यास्तरितुमापदः ।
कस्तत्राधिकमात्मानं संत्यजेदर्थधर्मवित्
yāstu kośabalatyāgācchakyāstaritumāpadaḥ |
kastatrādhikamātmānaṃ saṃtyajedarthadharmavit
अपराधाज्जुगुप्सेत का सपत्नधने दया ।
न त्वेवात्मा प्रदातव्यः शक्ये सति कथंचन
aparādhājjugupseta kā sapatnadhane dayā |
na tvevātmā pradātavyaḥ śakye sati kathaṃcana
युधिष्ठिर उवाच
आभ्यन्तरे च कुपिते बाह्ये चोपनिपीडिते ।
क्षीणे कोशे श्रुते मन्त्रे किं कार्यमवशिष्यते
ābhyantare ca kupite bāhye copanipīḍite |
kṣīṇe kośe śrute mantre kiṃ kāryamavaśiṣyate
भीष्म उवाच
क्षिप्रं वा सन्धिकामः स्यात्क्षिप्रं वा तीक्ष्णविक्रम ।
यदाऽपनयनं क्षिप्रमेतद्वै सांपरायिकम्
kṣipraṃ vā sandhikāmaḥ syātkṣipraṃ vā tīkṣṇavikrama |
yadā'panayanaṃ kṣiprametadvai sāṃparāyikam
अनुरक्तेन पुष्टेन हृष्टेन जगतीपतिः ।
अल्पेनापि स्वसैन्येन भूमिं जयति भूमिपः
anuraktena puṣṭena hṛṣṭena jagatīpatiḥ |
alpenāpi svasainyena bhūmiṃ jayati bhūmipaḥ
हतो वा दिवमारोहेद्धत्वा च सुखमावहेत् ।
युद्धे हि संत्यजन्प्राणाञ्शक्रस्यैति सलोकताम्
hato vā divamāroheddhatvā ca sukhamāvahet |
yuddhe hi saṃtyajanprāṇāñśakrasyaiti salokatām
सर्वलोकागसं कृत्वा मृदुत्वं गन्तुमेव च ।
विश्वासाद्विनयं कुर्यात्संजह्याद्वाऽप्युपानहौ
sarvalokāgasaṃ kṛtvā mṛdutvaṃ gantumeva ca |
viśvāsādvinayaṃ kuryātsaṃjahyādvā'pyupānahau
अपचिक्रमिषुः क्षिप्रं सेनां स्वां परिसान्त्वयन् ।
विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत्
apacikramiṣuḥ kṣipraṃ senāṃ svāṃ parisāntvayan |
vilaṅghayitvā satreṇa tataḥ svayamupakramet
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)