शान्ति पर्व

अध्याय 115: राजा अकेले शासन नहीं कर सकता

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चदशाधिकशततमोऽध्यायः ॥

23 श्लोक · 115 में से 372

इस अध्याय में क्या होता है

राजा अकेले शासन नहीं कर सकता

युधिष्ठिर पूछते हैं कि राज्य और कुल का स्थायी कल्याण किससे होता है, और राजा के निकट कैसे लोग रहें, क्योंकि आसक्ति और कुसंग में पड़े राजा से कुलीन सेवक विमुख हो जाते हैं। वे कहते हैं कि ऐसी सलाह हमें केवल आप और विदुर देते हैं। भीष्म उत्तर देते हैं कि अकेला कोई शासन नहीं कर सकता; सहायकों के बिना धन न मिलता है न टिकता है। वही राजा राज्य का फल भोगता है जिसके सेवक विद्वान, हितैषी और कुलीन हों, जिसके मन्त्री लोभ से न टूटें, आगे की सोचें और सुख-दुःख में साथ दें। विश्वस्त, सन्तुष्ट लोग उसका कोष और ईमानदार लोग अन्नभण्डार सँभालें, और नगर का न्याय शंख और लिखित जैसा शुद्ध हो। छठा भाग ही कर लेने वाला राजा धर्म का फल पाता है।

युधिष्ठिर उवाच

115.1

पितामह महाप्राज्ञ संशयो मे महानयम् ।
संछेत्तव्यस्त्वया राजन्भवान्कुलकरो हि नः

pitāmaha mahāprājña saṃśayo me mahānayam |
saṃchettavyastvayā rājanbhavānkulakaro hi naḥ

115.2

पुरुषाणामयं तात दुर्वृत्तानां दुरात्मनाम् ।
कथितो वाक्यसंचारस्ततो विज्ञापयामि ते

puruṣāṇāmayaṃ tāta durvṛttānāṃ durātmanām |
kathito vākyasaṃcārastato vijñāpayāmi te

115.3

यद्धितं राज्यतन्त्रस्य कुलस्य च सुखोदयम् ।
अयत्यां च तदात्वे च क्षेमवृद्धिकरं च तत्

yaddhitaṃ rājyatantrasya kulasya ca sukhodayam |
ayatyāṃ ca tadātve ca kṣemavṛddhikaraṃ ca tat

115.4

पुत्रपौत्राभिरामं च राष्ट्रवृद्धिकरं च यत् ।
अन्नपाने शरीरे च हितं यत्तद्ब्रवीहि मे

putrapautrābhirāmaṃ ca rāṣṭravṛddhikaraṃ ca yat |
annapāne śarīre ca hitaṃ yattadbravīhi me

115.5

अभिषिक्तो हि यो राजा राज्यस्थो मित्रसंवृत ।
समुहृत्समुपेतो वा स कथं रञ्जयेत्प्रजाः

abhiṣikto hi yo rājā rājyastho mitrasaṃvṛta |
samuhṛtsamupeto vā sa kathaṃ rañjayetprajāḥ

115.6

यो ह्यसत्प्रग्रहरतिः स्नेहरागबलात्कृतः ।
इन्द्रियाणामनीशत्वादसज्जनबुभूषकः

yo hyasatpragraharatiḥ sneharāgabalātkṛtaḥ |
indriyāṇāmanīśatvādasajjanabubhūṣakaḥ

115.7

तस्य भृत्या विमुखतां यान्ति सर्वे कुलोद्गताः ।
न च भृत्यबलैरर्थैः स राजा संप्रयुज्यते

tasya bhṛtyā vimukhatāṃ yānti sarve kulodgatāḥ |
na ca bhṛtyabalairarthaiḥ sa rājā saṃprayujyate

115.8

एतन्मे चिन्तयानस्य राजधर्मान्दिवानिशम् ।
बृहस्पतिसमो बुद्ध्या भवाञ्शंसितुमर्हति

etanme cintayānasya rājadharmāndivāniśam |
bṛhaspatisamo buddhyā bhavāñśaṃsitumarhati

115.9

शासता पुरुषव्याघ्र त्वं नः कुलहिते रतः ।
क्षत्ता चैको महाप्राज्ञो यो नः शंसति सर्वदा

śāsatā puruṣavyāghra tvaṃ naḥ kulahite rataḥ |
kṣattā caiko mahāprājño yo naḥ śaṃsati sarvadā

115.10

त्वत्तः कुलहितं वाक्यं श्रुत्वा राज्यहितोदयम् ।
अमृतस्याव्ययस्येव तृप्तः स्वप्स्याम्यहं सुखम्

tvattaḥ kulahitaṃ vākyaṃ śrutvā rājyahitodayam |
amṛtasyāvyayasyeva tṛptaḥ svapsyāmyahaṃ sukham

115.11

कीदृशाः सन्निकर्षस्था भृत्याः सर्वगुणान्विताः ।
कीदृशैः किं कुलीनैर्वा सह यात्रा विधीयते

kīdṛśāḥ sannikarṣasthā bhṛtyāḥ sarvaguṇānvitāḥ |
kīdṛśaiḥ kiṃ kulīnairvā saha yātrā vidhīyate

115.12

न ह्येको भृत्यरहितो राजा भवति रक्षिता ।
राज्यं चेदं जनः सर्वस्तत्कुलीनः प्रशासति

na hyeko bhṛtyarahito rājā bhavati rakṣitā |
rājyaṃ cedaṃ janaḥ sarvastatkulīnaḥ praśāsati

भीष्म उवाच

115.13

न च प्रशास्तुं राज्यं हि शक्यमेकेन भारत

na ca praśāstuṃ rājyaṃ hi śakyamekena bhārata

115.14

असहायवता तात नैवार्थाः केचिदप्युत ।
लब्धुं लब्धा ह्यपि सदा रक्षितुं भरतर्षभ

asahāyavatā tāta naivārthāḥ kecidapyuta |
labdhuṃ labdhā hyapi sadā rakṣituṃ bharatarṣabha

115.15

यस्य भृत्यजनः सर्वो ज्ञानविज्ञानकोविदः ।
हितैषी कुलजः स्निग्धः स राज्यफलमश्नुते

yasya bhṛtyajanaḥ sarvo jñānavijñānakovidaḥ |
hitaiṣī kulajaḥ snigdhaḥ sa rājyaphalamaśnute

115.16

मन्त्रिणो यस्य कुलजा असंहार्याः सहोषिताः ।
नृपतेर्मतिमाप्सन्ते सत्पथज्ञानकोविदाः

mantriṇo yasya kulajā asaṃhāryāḥ sahoṣitāḥ |
nṛpatermatimāpsante satpathajñānakovidāḥ

115.17

अनागतविधातारः कालज्ञानविशारदाः ।
अतिक्रान्तमशोचन्तः स राज्यफलमश्नुते

anāgatavidhātāraḥ kālajñānaviśāradāḥ |
atikrāntamaśocantaḥ sa rājyaphalamaśnute

115.18

समदुःखसुखा यस्य सहायाः प्रियकारिणः ।
अर्थचिन्तापराः सभ्याः स राज्यफलमश्नुते

samaduḥkhasukhā yasya sahāyāḥ priyakāriṇaḥ |
arthacintāparāḥ sabhyāḥ sa rājyaphalamaśnute

115.19

यस्य नार्तो जनपदः सन्निकर्षगतः सदा ।
अक्षुद्रः सत्पथालम्बी स राजा राज्यभाग्भवेत्

yasya nārto janapadaḥ sannikarṣagataḥ sadā |
akṣudraḥ satpathālambī sa rājā rājyabhāgbhavet

115.20

कोशोऽक्षपटलं यस्य कोशवृद्धिकरैर्नरैः ।
आप्तैस्तुष्टैश्च पृष्टैश्च धार्यते स नृपोत्तमः

kośo'kṣapaṭalaṃ yasya kośavṛddhikarairnaraiḥ |
āptaistuṣṭaiśca pṛṣṭaiśca dhāryate sa nṛpottamaḥ

115.21

कोष्ठागारमसंहार्यैराप्तैः संचयतत्परैः ।
पात्रभूतैरलुब्धैश्च पाल्यमानं गुणी भवेत्

koṣṭhāgāramasaṃhāryairāptaiḥ saṃcayatatparaiḥ |
pātrabhūtairalubdhaiśca pālyamānaṃ guṇī bhavet

115.22

व्यवहारश्च नगरे यस्य धर्मफलोदयः ।
दृश्यते शङ्खलिखितः स धर्मफलभाङ् नृपः

vyavahāraśca nagare yasya dharmaphalodayaḥ |
dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāṅ nṛpaḥ

115.23

संगृहीतमनुष्यश्च यो राजा राजधर्मवित् ।
षङ्‌भागं परिगृह्णाति स धर्मफलमश्नुते

saṃgṛhītamanuṣyaśca yo rājā rājadharmavit |
ṣaṅ‌bhāgaṃ parigṛhṇāti sa dharmaphalamaśnute

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)