शान्ति पर्व

अध्याय 108: माता, पिता और गुरु सर्वोपरि

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाधिकशततमोऽध्यायः ॥

33 श्लोक · 108 में से 372

इस अध्याय में क्या होता है

माता, पिता और गुरु सर्वोपरि

युधिष्ठिर पूछते हैं कि धर्म की कौन सी शाखा सबसे अधिक पालनीय है। भीष्म माता, पिता और गुरु की पूजा बताते हैं। वे जिसकी अनुमति दें वही करे, और उनकी आज्ञा के बिना कोई दूसरा धर्म न करे। वे ही तीन लोक, तीन वेद और तीन अग्नि हैं: पिता गार्हपत्य, माता दक्षिणाग्नि, गुरु आहवनीय। पिता की सेवा से यह लोक, माता की सेवा से परलोक और गुरु की सेवा से ब्रह्मलोक मिलता है। माता दस पिताओं से, बल्कि पूरी पृथ्वी से बढ़कर है, फिर भी विद्या द्वारा अजर-अमर दूसरा जन्म देने वाला गुरु उससे भी ऊँचा है। मन या कर्म से इनका द्रोह भ्रूणहत्या से बड़ा पाप है; कृतघ्न और मित्रद्रोही का कोई प्रायश्चित्त नहीं सुना गया।

युधिष्ठिर उवाच

108.1

महानयं धर्मपथो बहुशाखश्च भारत ।
किंस्विदेवेह धर्माणामनुष्ठेयतमं मतम्

mahānayaṃ dharmapatho bahuśākhaśca bhārata |
kiṃsvideveha dharmāṇāmanuṣṭheyatamaṃ matam

108.2

किं कार्यं सर्वभूतानां गरीयो भवतो मतम् ।
यथाऽहं परमं धर्ममिह च प्रेत्य चाप्नुयाम्

kiṃ kāryaṃ sarvabhūtānāṃ garīyo bhavato matam |
yathā'haṃ paramaṃ dharmamiha ca pretya cāpnuyām

भीष्म उवाच

108.3

मातापित्रोर्गुरूणां च पूजा बहुमता मम ।
अत्र वर्तन्नरो लोकान्यशश्च महदश्नुते

mātāpitrorgurūṇāṃ ca pūjā bahumatā mama |
atra vartannaro lokānyaśaśca mahadaśnute

108.4

यदेते ह्यनुजानीयुः कर्म तात सुपूजिताः ।
धर्मं धर्मविरुद्धं वा तत्कर्तव्यं युधिष्ठिर

yadete hyanujānīyuḥ karma tāta supūjitāḥ |
dharmaṃ dharmaviruddhaṃ vā tatkartavyaṃ yudhiṣṭhira

108.5

न तैरभ्यननुज्ञातो धर्ममन्यं समाचरेत् ।
यं मे तेऽभ्यनुजानीयुः स धर्म इति निश्चयः

na tairabhyananujñāto dharmamanyaṃ samācaret |
yaṃ me te'bhyanujānīyuḥ sa dharma iti niścayaḥ

108.6

एत एव त्रयो लोका एत एवाश्रमास्त्रयः ।
एत एव त्रयो वेदा एत एव त्रयोऽग्नयः

eta eva trayo lokā eta evāśramāstrayaḥ |
eta eva trayo vedā eta eva trayo'gnayaḥ

108.7

पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः ।
गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी

pitā vai gārhapatyo'gnirmātā'gnirdakṣiṇaḥ smṛtaḥ |
gururāhavanīyastu sā'gnitretā garīyasī

108.8

त्रिष्वप्रमाद्यन्नेतेषु त्रील्लोँकानपि जेष्यसि ।
पितृवृत्त्या त्विमं लोकं मातृवृत्त्या तथा परम्

triṣvapramādyanneteṣu trīllom̐kānapi jeṣyasi |
pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathā param

108.9

ब्रह्मलोकं गुरोर्वृत्त्या नियमेन तरिष्यसि ।
सम्यगेतेषु वर्तस्व त्रिषु लोकेषु भारत

brahmalokaṃ gurorvṛttyā niyamena tariṣyasi |
samyageteṣu vartasva triṣu lokeṣu bhārata

108.10

यशः प्राप्स्यसि भद्रं ते धर्मं च सुमहाफलम् ।
नैतानतिशयीथास्त्वं नात्यश्नीथा न दूषयेः

yaśaḥ prāpsyasi bhadraṃ te dharmaṃ ca sumahāphalam |
naitānatiśayīthāstvaṃ nātyaśnīthā na dūṣayeḥ

108.11

नित्यं परिचरेश्चैव तद्वै सुकृतमुत्तमम् ।
कीर्ति पुण्यं यशो लोकान्प्राप्स्यसे त्वं जनाधिप

nityaṃ paricareścaiva tadvai sukṛtamuttamam |
kīrti puṇyaṃ yaśo lokānprāpsyase tvaṃ janādhipa

108.12

सर्वे तस्यादृता लोका यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः

sarve tasyādṛtā lokā yasyaite traya ādṛtāḥ |
anādṛtāstu yasyaite sarvāstasyāphalāḥ kriyāḥ

108.13

न चायं न परो लोको न यशस्तस्य भारत ।
अमानिता नित्यमेव यस्यैते गुरवस्त्रयः

na cāyaṃ na paro loko na yaśastasya bhārata |
amānitā nityameva yasyaite guravastrayaḥ

108.14

न चास्मिन्न परे लोके यशस्तस्य प्रकाशते ।
यच्चान्यदपि कल्याणं पारत्रं समुदाहृतम्

na cāsminna pare loke yaśastasya prakāśate |
yaccānyadapi kalyāṇaṃ pāratraṃ samudāhṛtam

108.15

तेभ्य एव हि यत्सर्वं कृत्यं यन्निसृजाम्यहम् ।
तदासीन्मे शतगुणं सहस्रगुणमेव च ।
तस्मान्मे संप्रकाशन्ते त्रयो लोका युधिष्ठिर

tebhya eva hi yatsarvaṃ kṛtyaṃ yannisṛjāmyaham |
tadāsīnme śataguṇaṃ sahasraguṇameva ca |
tasmānme saṃprakāśante trayo lokā yudhiṣṭhira

108.16

दशैव तु सदाऽऽचार्यः श्रोत्रियानधितिष्ठति ।
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश

daśaiva tu sadā''cāryaḥ śrotriyānadhitiṣṭhati |
daśācāryānupādhyāya upādhyāyānpitā daśa

108.17

पितॄन्दश तु मातैका सर्वां वा पृथिवीमपि ।
गुरुत्वेनाभिभवति नास्ति मातृसमो गुरुः

pitṝndaśa tu mātaikā sarvāṃ vā pṛthivīmapi |
gurutvenābhibhavati nāsti mātṛsamo guruḥ

108.18

गुरुर्गरीयान्पितृतो मातृतश्चेति मे मतिः ।
उभौ हि मातापितरौ जन्मन्येवोपयुज्यतः

gururgarīyānpitṛto mātṛtaśceti me matiḥ |
ubhau hi mātāpitarau janmanyevopayujyataḥ

108.19

शरीरमेतौ सृजतः पिता माता च भारत ।
आचार्यशिष्टा या जातिः सासम्यगजरामरा

śarīrametau sṛjataḥ pitā mātā ca bhārata |
ācāryaśiṣṭā yā jātiḥ sāsamyagajarāmarā

108.20

अवध्या हि सदा माता पिता चाप्युपचारिणौ

avadhyā hi sadā mātā pitā cāpyupacāriṇau

108.21

न स दुष्यति तत्कृत्वा न च ते दूषयन्ति तम् ।
धर्माय यतमानानां विदुर्देवाः सहर्षिभिः

na sa duṣyati tatkṛtvā na ca te dūṣayanti tam |
dharmāya yatamānānāṃ vidurdevāḥ saharṣibhiḥ

108.22

य आवृणोत्यवितथेन कर्मणा
ऋतं ब्रुवन्नमृतं संप्रयच्छन् ।
तं मन्येथाः पितरं मातरं च
तस्मै न द्रुह्येत्कृतमस्य जानन्

ya āvṛṇotyavitathena karmaṇā
ṛtaṃ bruvannamṛtaṃ saṃprayacchan |
taṃ manyethāḥ pitaraṃ mātaraṃ ca
tasmai na druhyetkṛtamasya jānan

108.23

स्तथैव तेषां गुरवोऽभ्यर्चनीयाः

stathaiva teṣāṃ guravo'bhyarcanīyāḥ

108.24

तस्मात्पूजयितव्याश्च संविभज्याश्च यत्नतः ।
गुरवोऽर्चयितव्याश्च पुराणं धर्ममिच्छता

tasmātpūjayitavyāśca saṃvibhajyāśca yatnataḥ |
guravo'rcayitavyāśca purāṇaṃ dharmamicchatā

108.25

येन प्रीणन्ति पितरस्तेन प्रीतः प्रजापतिः ।
प्रीणाति जननीयेन पृथिवी तेन पूजिता

yena prīṇanti pitarastena prītaḥ prajāpatiḥ |
prīṇāti jananīyena pṛthivī tena pūjitā

108.26

येन प्रीणात्युपाध्यायस्तेन स्याद्ब्रह्म पूजितम् ।
मातृतः पितृतश्चैव तस्मात्पूज्यतमो गुरुः

yena prīṇātyupādhyāyastena syādbrahma pūjitam |
mātṛtaḥ pitṛtaścaiva tasmātpūjyatamo guruḥ

108.27

ऋषयश्च हि देवाश्च प्रीयन्ते पितृभिः सह ।
पूज्यमानेषु गुरुषु तस्मात्पूज्यतमो गुरुः

ṛṣayaśca hi devāśca prīyante pitṛbhiḥ saha |
pūjyamāneṣu guruṣu tasmātpūjyatamo guruḥ

108.28

केनचिन्न च वृत्तेन ह्यवज्ञेयो गुरुर्भवेत् ।
न च माता न च पितो तादृशो यादृशो गुरुः

kenacinna ca vṛttena hyavajñeyo gururbhavet |
na ca mātā na ca pito tādṛśo yādṛśo guruḥ

108.29

न तेऽवमानमर्हन्ति न तेषां दूषयेत्कृतम् ।
गुरूणामेव सत्कारं विदुर्देवाः सहर्षिभिः

na te'vamānamarhanti na teṣāṃ dūṣayetkṛtam |
gurūṇāmeva satkāraṃ vidurdevāḥ saharṣibhiḥ

108.30

उपाध्यायं पितरं मातरं च
ये विद्रुह्यन्ते मनसा कर्मणा वा ।
तेषां पापं भ्रूणहत्याविशिष्टं
तस्मान्नान्यः पापकृदस्ति लोके

upādhyāyaṃ pitaraṃ mātaraṃ ca
ye vidruhyante manasā karmaṇā vā |
teṣāṃ pāpaṃ bhrūṇahatyāviśiṣṭaṃ
tasmānnānyaḥ pāpakṛdasti loke

108.31

भृतो भर्तारं यो न विभिर्ति पुत्रः
स्वयोनिजः पितरं मातरं च ।
तस्य पापं भ्रूणहत्याविषिष्टं
तस्मान्नान्यः पापकृदस्ति लोके

bhṛto bhartāraṃ yo na vibhirti putraḥ
svayonijaḥ pitaraṃ mātaraṃ ca |
tasya pāpaṃ bhrūṇahatyāviṣiṣṭaṃ
tasmānnānyaḥ pāpakṛdasti loke

108.32

मित्रद्रुहः कृतघ्नस्य स्त्रीघ्नस्य पिशुनस्य च ।
चतुर्णामपि चैतेषां निष्कृतिं नानुशुश्रुम्

mitradruhaḥ kṛtaghnasya strīghnasya piśunasya ca |
caturṇāmapi caiteṣāṃ niṣkṛtiṃ nānuśuśrum

108.33

एतत्सर्वं मनुनिर्देशदृष्टं
यत्कर्तव्यं पुरुषेणेह किंचित् ।
एतच्छ्रेयो नान्यदस्माद्विशिष्टं
सर्वान्धर्माननुसृत्यैतदुक्तम्

etatsarvaṃ manunirdeśadṛṣṭaṃ
yatkartavyaṃ puruṣeṇeha kiṃcit |
etacchreyo nānyadasmādviśiṣṭaṃ
sarvāndharmānanusṛtyaitaduktam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)