शान्ति पर्व

अध्याय 107: गणराज्यों की वृद्धि और विनाश के कारण

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्ताधिकसततमोऽध्यायः ॥

32 श्लोक · 107 में से 372

इस अध्याय में क्या होता है

गणराज्यों की वृद्धि और विनाश के कारण

युधिष्ठिर गणों के विषय में पूछते हैं: वे बिना टूटे कैसे बढ़ते, शत्रुओं को जीतते और मित्र पाते हैं, जबकि भेद ही उनका विनाश है और बहुतों के लिए मन्त्रणा गुप्त रखना कठिन है? भीष्म कहते हैं कि गणों, कुलों और राज्यों में लोभ और अमर्ष ही वैर भड़काते हैं। प्रतिद्वन्द्वी गुप्तचरों, धन और भेद से एक-दूसरे को क्षीण करते हैं; धन के लोभ से टूटे गण सहज जीत लिए जाते हैं, इसलिए उन्हें सदा संगठित रहना चाहिए। शास्त्र के अनुसार धर्ममय व्यवहार, पुत्रों और भाइयों का अनुशासन, मन्त्र और कोष की रक्षा, कुशल चरों और शूरों का सम्मान, इनसे गण बढ़ते हैं। मुख्यों का आदर हो, और हर रहस्य पूरे गण को न बताया जाए। भीतर का भय तुरन्त जड़ काटता है; संघ ही गण का बड़ा आश्रय है।

युधिष्ठिर उवाच

107.1

ब्राह्मणक्षत्रियविशां शूद्राणां च परंतप ।
धर्मवृत्तं च वित्तं च वृत्त्युपायाः फलानि च

brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca paraṃtapa |
dharmavṛttaṃ ca vittaṃ ca vṛttyupāyāḥ phalāni ca

107.2

राज्ञां वृत्तं च कोशं च कोशसंचयनं जयः ।
अमात्यगुणवृत्तिश्च प्रकृतीनां च वर्धनम्

rājñāṃ vṛttaṃ ca kośaṃ ca kośasaṃcayanaṃ jayaḥ |
amātyaguṇavṛttiśca prakṛtīnāṃ ca vardhanam

107.3

षाङ्गुण्यगुणकल्पश्च सेनानीतिस्तथैव च ।
दुष्टस्य च परिज्ञानमदुष्टस्य च लक्षणम्

ṣāṅguṇyaguṇakalpaśca senānītistathaiva ca |
duṣṭasya ca parijñānamaduṣṭasya ca lakṣaṇam

107.4

समहीनाधिकानां च यथावल्लक्षणं च यत् ।
मध्यमस्य च तुष्ट्यर्थं यथा स्थेयं विवर्धता

samahīnādhikānāṃ ca yathāvallakṣaṇaṃ ca yat |
madhyamasya ca tuṣṭyarthaṃ yathā stheyaṃ vivardhatā

107.5

क्षीणग्रहणवृत्तिश्च यथा धर्मं प्रकीर्तितम् ।
लघुनाऽदेशरूपेण ग्रन्थयोगेन भारत

kṣīṇagrahaṇavṛttiśca yathā dharmaṃ prakīrtitam |
laghunā'deśarūpeṇa granthayogena bhārata

107.6

विजिगीषोस्तथा वृत्तमुक्तं चैव तथैव ते ।
गणानां वृत्तिमिच्छामि श्रोतुं मतिमतां वर

vijigīṣostathā vṛttamuktaṃ caiva tathaiva te |
gaṇānāṃ vṛttimicchāmi śrotuṃ matimatāṃ vara

107.7

यथा गणाः प्रवर्धन्ते न भिद्यन्ते च भारत ।
अरींश्च विजिगीषन्ते सुहृदः प्राप्नुवन्ति च

yathā gaṇāḥ pravardhante na bhidyante ca bhārata |
arīṃśca vijigīṣante suhṛdaḥ prāpnuvanti ca

107.8

भेदमूलो विनाशो हि गणानामुपलक्षये ।
मन्त्रसंवरणं दुःखं बहूनामिति मे मतिः

bhedamūlo vināśo hi gaṇānāmupalakṣaye |
mantrasaṃvaraṇaṃ duḥkhaṃ bahūnāmiti me matiḥ

107.9

एतदिच्छाम्यहं श्रोतुं निखिलेन परंतप ।
यथा च ते न भिद्येरंस्तच्च मे वद भारत

etadicchāmyahaṃ śrotuṃ nikhilena paraṃtapa |
yathā ca te na bhidyeraṃstacca me vada bhārata

भीष्म उवाच

107.10

गणानां च कुलानां च राज्ञां भरतसत्तम ।
वैरसंदीपनावेतौ लोभामर्षौ नराधिप

gaṇānāṃ ca kulānāṃ ca rājñāṃ bharatasattama |
vairasaṃdīpanāvetau lobhāmarṣau narādhipa

107.11

लोभमेको हि वृणुते ततोऽमर्षमनन्तरम् ।
ततो ह्यमर्षसंयुक्तावन्योन्यजनिताशयौ

lobhameko hi vṛṇute tato'marṣamanantaram |
tato hyamarṣasaṃyuktāvanyonyajanitāśayau

107.12

चारमन्त्रबलादानैः सामदानविभेदनैः ।
क्षयव्ययभयोपायैः प्रकर्षन्तीतरेतरम्

cāramantrabalādānaiḥ sāmadānavibhedanaiḥ |
kṣayavyayabhayopāyaiḥ prakarṣantītaretaram

107.13

तत्रादानेन भिद्यन्ते गणाः संघातवृत्तयः ।
भिन्ना विमनसः सर्वे गच्छन्त्यरिवशं भयात्

tatrādānena bhidyante gaṇāḥ saṃghātavṛttayaḥ |
bhinnā vimanasaḥ sarve gacchantyarivaśaṃ bhayāt

107.14

भेदे गणा विनश्युर्हि भिन्नास्तु सुजयाः परैः ।
तस्मात्संघातयोगेन प्रयतेरन्गणाः सदा

bhede gaṇā vinaśyurhi bhinnāstu sujayāḥ paraiḥ |
tasmātsaṃghātayogena prayaterangaṇāḥ sadā

107.15

अर्थाश्चैवाधिगम्यन्ते संघातबलपौरुषैः ।
ब्राह्माश्च मैत्रीं कुर्वन्ति तेषु संघातवृत्तिषु

arthāścaivādhigamyante saṃghātabalapauruṣaiḥ |
brāhmāśca maitrīṃ kurvanti teṣu saṃghātavṛttiṣu

107.16

ज्ञानवृद्धाः प्रशंसन्ति शुश्रूषन्तः परस्परम् ।
विनिवृत्ताभिसंधानाः सुखमेधन्ति सर्वशः

jñānavṛddhāḥ praśaṃsanti śuśrūṣantaḥ parasparam |
vinivṛttābhisaṃdhānāḥ sukhamedhanti sarvaśaḥ

107.17

धर्मिष्ठान्व्यवहारांश्च स्थापयन्तश्च शास्त्रतः ।
यथावत्प्रतिपश्यन्तो विवर्धन्ते गणोत्तमाः

dharmiṣṭhānvyavahārāṃśca sthāpayantaśca śāstrataḥ |
yathāvatpratipaśyanto vivardhante gaṇottamāḥ

107.18

पुत्रान्भ्रातृन्निगृह्णन्तो विनयन्तश्च तान्सदा ।
विनीतांश्च प्रगृह्णन्तो विवर्धन्ते गणोत्तमाः

putrānbhrātṛnnigṛhṇanto vinayantaśca tānsadā |
vinītāṃśca pragṛhṇanto vivardhante gaṇottamāḥ

107.19

चारमन्त्रविधानेषु कोशसंनिचयेषु च ।
नित्ययुक्ता महाबाहो वर्धन्ते सर्वतो गणाः

cāramantravidhāneṣu kośasaṃnicayeṣu ca |
nityayuktā mahābāho vardhante sarvato gaṇāḥ

107.20

प्राज्ञांश्चारान्महोत्साहान्कर्मसु स्थिरपौरुषान् ।
मानयन्तः सदा युक्ता विवर्धन्ते गणा नृप

prājñāṃścārānmahotsāhānkarmasu sthirapauruṣān |
mānayantaḥ sadā yuktā vivardhante gaṇā nṛpa

107.21

द्रव्यवन्तश्च शूराश्च शस्त्रज्ञाः शास्त्रपारगाः ।
कृच्छ्रास्वापत्सु संमूढान्गणाः संतारयन्ति ते

dravyavantaśca śūrāśca śastrajñāḥ śāstrapāragāḥ |
kṛcchrāsvāpatsu saṃmūḍhāngaṇāḥ saṃtārayanti te

107.22

क्रोधो भेदो भयं दण्डः कर्षणं निग्रहो वधः ।
नयत्यरिवशं सद्यो गणान्भरतसत्तम

krodho bhedo bhayaṃ daṇḍaḥ karṣaṇaṃ nigraho vadhaḥ |
nayatyarivaśaṃ sadyo gaṇānbharatasattama

107.23

तस्मान्मानयितव्यास्ते गणमुख्याः प्रधानतः ।
लोकयात्रा समायत्ता भूयसी तेषु पार्थिव

tasmānmānayitavyāste gaṇamukhyāḥ pradhānataḥ |
lokayātrā samāyattā bhūyasī teṣu pārthiva

107.24

मन्त्रगुप्तिः प्रधानेषु चारश्चामित्रकर्शण ।
न गणाः कृत्स्नशो मन्त्रं श्रोतुमर्हन्ति भारत

mantraguptiḥ pradhāneṣu cāraścāmitrakarśaṇa |
na gaṇāḥ kṛtsnaśo mantraṃ śrotumarhanti bhārata

107.25

गणमुख्यैस्तु संभूय कार्यं गणहितं मिथः

gaṇamukhyaistu saṃbhūya kāryaṃ gaṇahitaṃ mithaḥ

107.26

पृथग्गणस्य भिन्नस्य विततस्य ततोऽन्यथा ।
अर्थाः प्रत्यवसीदन्ति तथाऽनर्था भवन्ति व

pṛthaggaṇasya bhinnasya vitatasya tato'nyathā |
arthāḥ pratyavasīdanti tathā'narthā bhavanti va

107.27

तेषामन्योन्यभिन्नानां स्वशक्तिमनुतिष्ठताम् ।
निग्रहः पण्डितैः कार्यः क्षिप्रमेव प्रधानतः

teṣāmanyonyabhinnānāṃ svaśaktimanutiṣṭhatām |
nigrahaḥ paṇḍitaiḥ kāryaḥ kṣiprameva pradhānataḥ

107.28

कुलेषु कलहा जाताः कुलवृद्धैरुपेक्षिताः ।
गोत्रस्य नाशं कुर्वन्ति गणभेदस्य कारकम्

kuleṣu kalahā jātāḥ kulavṛddhairupekṣitāḥ |
gotrasya nāśaṃ kurvanti gaṇabhedasya kārakam

107.29

आभ्यन्तरं भयं रक्ष्यमसारं बाह्यतो भयम् ।
आभ्यन्तरं भयं राजन्सद्यो मूलानि कृन्तति

ābhyantaraṃ bhayaṃ rakṣyamasāraṃ bāhyato bhayam |
ābhyantaraṃ bhayaṃ rājansadyo mūlāni kṛntati

107.30

अकस्मात्क्रोधमोहाभ्यां लोभाद्वाऽपि स्वभावजात् ।
अन्योन्यं नाभिभाषन्ते तत्पराभवलक्षणम्

akasmātkrodhamohābhyāṃ lobhādvā'pi svabhāvajāt |
anyonyaṃ nābhibhāṣante tatparābhavalakṣaṇam

107.31

जात्या च सदृशाः सर्वे कुलेन सदृशास्तथ ।
न चोद्योगेन बुद्ध्या वा रूपद्रव्येण वा पुनः

jātyā ca sadṛśāḥ sarve kulena sadṛśāstatha |
na codyogena buddhyā vā rūpadravyeṇa vā punaḥ

107.32

भेदाच्चैव प्रदानाच्च नाम्यन्ते रिपुभिर्गणाः ।
तस्मात्संघातमेवाहुर्गणानां शरणं महत्

bhedāccaiva pradānācca nāmyante ripubhirgaṇāḥ |
tasmātsaṃghātamevāhurgaṇānāṃ śaraṇaṃ mahat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)