शान्ति पर्व

अध्याय 106: कौसल्य का छल अस्वीकार और राज्यलाभ

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि ष़डधिकशततमोऽध्यायः ॥

28 श्लोक · 106 में से 372

इस अध्याय में क्या होता है

कौसल्य का छल अस्वीकार और राज्यलाभ

क्षेमदर्शी उत्तर देते हैं कि मैं न छल से जीना चाहता हूँ न दम्भ से, और अधर्म से बड़ा धन भी नहीं चाहता; मैं दया के धर्म से जीना चाहता हूँ। मुनि उनकी प्रशंसा करते हैं और विदेहराज से स्थायी मैत्री कराने का वचन देते हैं। वे सत्यप्रतिज्ञ विदेहराज को बुलाकर कहते हैं कि दर्पण और शरद के चन्द्रमा जैसे शुद्ध इस राजकुमार को अपना मन्त्री बनाओ, क्योंकि बिना मन्त्री के राज्य नहीं चलता। जय और पराजय बारी-बारी से आते हैं और दोनों सहने पड़ते हैं। विदेहराज मान जाते हैं, राजकुमार से कहते हैं कि तुम्हारे गुणों ने मुझे जीत लिया, उन्हें अर्घ्य और मधुपर्क से पूजते हैं और अपनी पुत्री तथा अनेक रत्न देते हैं। भीष्म कहते हैं, जय और पराजय को समान मानना राजाओं का परम धर्म है।

राजोवाच

106.1

न निकृत्या न दम्भेन ब्रह्मन्निच्छामि जीवितुम् ।
नाधर्मयुक्तानिच्छेयमर्थान्सुमहतोऽप्यहम्

na nikṛtyā na dambhena brahmannicchāmi jīvitum |
nādharmayuktāniccheyamarthānsumahato'pyaham

106.2

पुरस्तादेव भगवन्मयैतदपवर्जितम् ।
येन पापं न शङ्केत यद्वा कृत्स्नं हितं भवेत्

purastādeva bhagavanmayaitadapavarjitam |
yena pāpaṃ na śaṅketa yadvā kṛtsnaṃ hitaṃ bhavet

106.3

आनृशंस्येन धर्मेण लोके ह्यस्मिञ्जिजीविषुः ।
नाहमेतदलं कर्तुं नैतन्मय्युपपद्यते

ānṛśaṃsyena dharmeṇa loke hyasmiñjijīviṣuḥ |
nāhametadalaṃ kartuṃ naitanmayyupapadyate

मुनिरुवाच

106.4

उपपन्नस्त्वमेतेन यथा क्षत्रिय भाषसे ।
प्रकृत्या ह्युपपन्नोऽसि बुद्ध्या चाद्भुतदर्शनः

upapannastvametena yathā kṣatriya bhāṣase |
prakṛtyā hyupapanno'si buddhyā cādbhutadarśanaḥ

106.5

उभयोरेव साह्यार्थे यतिष्ये तव तस्य च ।
संश्लेषं वा करिष्यामि शाश्वतं ह्यनपायिनम्

ubhayoreva sāhyārthe yatiṣye tava tasya ca |
saṃśleṣaṃ vā kariṣyāmi śāśvataṃ hyanapāyinam

106.6

त्वादृशं हि कुले जातभनृशंसं बहुश्रुतम् ।
अमात्यं को न कुर्वीत राज्यप्रणयकोविदम्

tvādṛśaṃ hi kule jātabhanṛśaṃsaṃ bahuśrutam |
amātyaṃ ko na kurvīta rājyapraṇayakovidam

106.7

यस्त्वं प्रव्राजितो राज्याद्व्यसनं चोत्तमं गतः ।
आनृशंस्येन वृत्तेन क्षत्रियेच्छसि जीवितुम्

yastvaṃ pravrājito rājyādvyasanaṃ cottamaṃ gataḥ |
ānṛśaṃsyena vṛttena kṣatriyecchasi jīvitum

106.8

आगन्ता मद्गृहं तात वैदेहः सत्यसंगरः ।
अथाहं तं नियोक्ष्यामि तत्करिष्यत्यसंशयम्

āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ |
athāhaṃ taṃ niyokṣyāmi tatkariṣyatyasaṃśayam

भीष्म उवाच

106.9

तत आहूय वैदेहं मुनिर्वचनमब्रवीत् ।
अयं राजकुले जातो विदिताभ्यन्तरो मम

tata āhūya vaidehaṃ munirvacanamabravīt |
ayaṃ rājakule jāto viditābhyantaro mama

106.10

आदर्श इव शुद्धात्मा शारदश्चन्द्रमा यथा ।
नास्मिन्पश्यामि वृजिनं सर्वतो मे परीक्षितः

ādarśa iva śuddhātmā śāradaścandramā yathā |
nāsminpaśyāmi vṛjinaṃ sarvato me parīkṣitaḥ

106.11

तेन ते संधिरेवास्तु विश्वसास्मिन्यथा मयि ।
न राज्यमनमात्येन शक्यं शास्तुममित्रहन्

tena te saṃdhirevāstu viśvasāsminyathā mayi |
na rājyamanamātyena śakyaṃ śāstumamitrahan

106.12

अमात्य शुद्ध एव स्याद्बुद्धिसंपन्न एव वा ।
तस्माच्चैव भयं राज्ञः पश्य राज्यस्य योजनम्

amātya śuddha eva syādbuddhisaṃpanna eva vā |
tasmāccaiva bhayaṃ rājñaḥ paśya rājyasya yojanam

106.13

धर्मात्मनां क्वचिल्लोके नान्यास्ति गतिरीदृशी ।
तदा राजपुत्रोऽयं सतां मार्गमनुष्ठितः ।
असंगृहीतस्त्वेवैष त्वया धर्मपुरोगमः

dharmātmanāṃ kvacilloke nānyāsti gatirīdṛśī |
tadā rājaputro'yaṃ satāṃ mārgamanuṣṭhitaḥ |
asaṃgṛhītastvevaiṣa tvayā dharmapurogamaḥ

106.14

संसेव्यमानः शत्रूंस्ते गृह्णीयान्महतो गणान्

saṃsevyamānaḥ śatrūṃste gṛhṇīyānmahato gaṇān

106.15

यद्ययं प्रतियुद्ध्येत स्वकर्म क्षत्रियस्य तत् ।
जिगीषमाणस्त्वां युद्धे पितृपैतामहे पदे

yadyayaṃ pratiyuddhyeta svakarma kṣatriyasya tat |
jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade

106.16

त्वं अपि प्रतियुद्ध्येथा विजिगीषुर्व्रते स्थितः ।
अयुद्ध्वैव नियोगान्मे वशे कुरु हिते स्थितः

tvaṃ api pratiyuddhyethā vijigīṣurvrate sthitaḥ |
ayuddhvaiva niyogānme vaśe kuru hite sthitaḥ

106.17

स त्वं धर्ममवेक्षस्व हित्वा लोभमसांप्रतम् ।
न च कामान्न च द्रोहात्स्वधर्मं हातुमर्हसि

sa tvaṃ dharmamavekṣasva hitvā lobhamasāṃpratam |
na ca kāmānna ca drohātsvadharmaṃ hātumarhasi

106.18

नैव नित्यं जयस्तात नैव नित्यं पराजयः ।
तस्माज्जयश्च भोक्तव्यो भोक्तव्यश्च पराजयः

naiva nityaṃ jayastāta naiva nityaṃ parājayaḥ |
tasmājjayaśca bhoktavyo bhoktavyaśca parājayaḥ

106.19

आत्मन्यपि च संदृश्यावृभौ जयपराजयौ ।
निःशेषकारिणां तात निःशेषकरणाद्भयम्

ātmanyapi ca saṃdṛśyāvṛbhau jayaparājayau |
niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇādbhayam

106.20

इत्युक्तः प्रत्युवाचेदं वचनं ब्राह्मणर्षभम् ।
प्रतिपूज्याभिसत्कृत्य पूजार्हमनुमान्य च

ityuktaḥ pratyuvācedaṃ vacanaṃ brāhmaṇarṣabham |
pratipūjyābhisatkṛtya pūjārhamanumānya ca

106.21

यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महाश्रुतः ।
श्रेयस्कामो यथा ब्रूयादुभयोरेव तत्क्षमम्

yathā brūyānmahāprājño yathā brūyānmahāśrutaḥ |
śreyaskāmo yathā brūyādubhayoreva tatkṣamam

106.22

यद्यद्वचनमुक्तोऽस्मि करिष्यामि च तत्तथा ।
एतद्धि परमं श्रेयो न मेऽत्रास्ति विचारणा

yadyadvacanamukto'smi kariṣyāmi ca tattathā |
etaddhi paramaṃ śreyo na me'trāsti vicāraṇā

106.23

ततः कौसल्यमाहूय मैथिलो वाक्यमब्रवीत् ।
धर्मतो बुद्धितश्चैव बलेन च जितं मया

tataḥ kausalyamāhūya maithilo vākyamabravīt |
dharmato buddhitaścaiva balena ca jitaṃ mayā

106.24

अहं त्वया चात्मगुणैर्जितः पार्थिवसत्तम ।
आत्मानमनवज्ञाय जितवद्वर्ततां भवान्

ahaṃ tvayā cātmaguṇairjitaḥ pārthivasattama |
ātmānamanavajñāya jitavadvartatāṃ bhavān

106.25

नावमन्यामि ते बुद्धिं नावमन्ये च पौरुषम् ।
नावमन्ये जयामीति जितवद्वर्ततां भवान्

nāvamanyāmi te buddhiṃ nāvamanye ca pauruṣam |
nāvamanye jayāmīti jitavadvartatāṃ bhavān

106.26

यथावत्पूजितो राजन्गृहं गन्तासि मे गृहात् ।
ततः संपूज्य तौ विप्रं विश्वस्तौ जग्मतुर्गृहान्

yathāvatpūjito rājangṛhaṃ gantāsi me gṛhāt |
tataḥ saṃpūjya tau vipraṃ viśvastau jagmaturgṛhān

106.27

वैदेहस्त्वथ कौसल्यं प्रवेश्य गृहमञ्जसा ।
प्राद्यार्ध्यमधुपर्कैस्तं पूजार्हं प्रत्यपूजयत्

vaidehastvatha kausalyaṃ praveśya gṛhamañjasā |
prādyārdhyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat

106.28

ददौ दुहितरं चास्मै रत्नानि विविधानि च ।
एष राज्ञां परो धर्मः समौ जयपराजयौ

dadau duhitaraṃ cāsmai ratnāni vividhāni ca |
eṣa rājñāṃ paro dharmaḥ samau jayaparājayau

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)