शल्य पर्व

अध्याय 50: इन्द्रतीर्थ, रामतीर्थ, यमुनातीर्थ और आदित्यतीर्थ

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि पञ्चाशोऽध्यायः ॥

23 श्लोक · 50 में से 67

इस अध्याय में क्या होता है

इन्द्रतीर्थ, रामतीर्थ, यमुनातीर्थ और आदित्यतीर्थ

बलराम इन्द्रतीर्थ में स्नान कर ब्राह्मणों को धन और रत्न देते हैं। वहाँ देवराज ने बृहस्पति को प्रचुर दक्षिणा देकर सौ यज्ञ किए थे और इसी से शतक्रतु कहलाए। फिर वे रामतीर्थ पहुँचते हैं, जहाँ भार्गव परशुराम ने पृथ्वी को बार बार क्षत्रियहीन करके कश्यप को उपाध्याय बनाया और वाजपेय तथा सौ अश्वमेध करके समुद्रपर्यन्त पृथ्वी दक्षिणा में दे दी। यमुनातीर्थ में वरुण ने मनुष्यों, दानवों, गन्धर्वों और राक्षसों को जीतकर राजसूय किया था, जिसके बाद देवों और दानवों का भयंकर युद्ध हुआ; कहा गया है कि राजसूय के बाद क्षत्रियों का महासंहार होता ही है। आदित्यतीर्थ में सूर्य ने ज्योतियों का आधिपत्य पाया, मधु और कैटभ को मारकर विष्णु ने स्नान किया, और द्वैपायन तथा असित देवल ने परम योग पाया।

वैशम्पायन उवाच

50.1

इन्द्रतीर्थं ततो गत्वा यदूनां प्रवरो बली ।
विप्रेभ्यो धनरत्नानि ददौ स्नात्वा यथाविधि

indratīrthaṃ tato gatvā yadūnāṃ pravaro balī |
viprebhyo dhanaratnāni dadau snātvā yathāvidhi

50.2

तत्र ह्यमरराजो वै ईजे क्रतुशतेन ह ।
बृहस्पतेश्च देवेशः प्रददौ विपुलं धनम्

tatra hyamararājo vai īje kratuśatena ha |
bṛhaspateśca deveśaḥ pradadau vipulaṃ dhanam

50.3

अनर्गलान्सजारूथ्यान्सर्वान्विविधदक्षिणान् ।
आजहर क्रतूंस्तत्र यथोक्तं वेदपारगैः

anargalānsajārūthyānsarvānvividhadakṣiṇān |
ājahara kratūṃstatra yathoktaṃ vedapāragaiḥ

50.4

तान्क्रतून्भरतश्रेष्ठ शतकृत्वो महाद्युतिः ।
पूरयामास विधिवत्ततः ख्यातः शतक्रतुः

tānkratūnbharataśreṣṭha śatakṛtvo mahādyutiḥ |
pūrayāmāsa vidhivattataḥ khyātaḥ śatakratuḥ

50.5

तस्य नाम्ना तु तत्तीर्थं शिवं पुण्यं सनातनम् ।
इन्द्रतीर्थमिति ख्यातं सर्वपापप्रमोचनम्

tasya nāmnā tu tattīrthaṃ śivaṃ puṇyaṃ sanātanam |
indratīrthamiti khyātaṃ sarvapāpapramocanam

50.6

उपस्पृश्य च तत्रापि विधिवन्मुसलायुधः ।
ब्राह्मणान्पूजयित्वा च पानाच्छादुनभोजनैः

upaspṛśya ca tatrāpi vidhivanmusalāyudhaḥ |
brāhmaṇānpūjayitvā ca pānācchādunabhojanaiḥ

50.7

शुभं तीर्थवरं तस्माद्रामतीर्थं जगाम ह ।
यत्र रामो महाभागो भार्गवः सुमहातपाः

śubhaṃ tīrthavaraṃ tasmādrāmatīrthaṃ jagāma ha |
yatra rāmo mahābhāgo bhārgavaḥ sumahātapāḥ

50.8

असकृत्पृथिवीं कृत्वा हतक्षत्रियपुङ्गवाम् ।
उपाध्यायं पुरस्कृत्य काश्यपं मुनिसत्तमम्

asakṛtpṛthivīṃ kṛtvā hatakṣatriyapuṅgavām |
upādhyāyaṃ puraskṛtya kāśyapaṃ munisattamam

50.9

अयजद्वाजपेयेन सोऽश्वमेधशतेन च ।
प्रददौ दक्षिणार्थं च पृथिवीं सागराम्बराम्

ayajadvājapeyena so'śvamedhaśatena ca |
pradadau dakṣiṇārthaṃ ca pṛthivīṃ sāgarāmbarām

50.10

रामो दत्त्वा धनं तत्र द्विजेभ्यो जनमेजय ।
उपस्पृश्य यथान्यायं पूजयित्वा तथा द्विजान्

rāmo dattvā dhanaṃ tatra dvijebhyo janamejaya |
upaspṛśya yathānyāyaṃ pūjayitvā tathā dvijān

50.11

पुण्यतीर्थे शुभे देशे वसु दत्त्वा हलायुधः ।
मुनींश्चैवाभिवाद्याथ यमुनातीर्थमागमत् ।
यत्रानयामास तदा राजसूयमपाम्पतिः

puṇyatīrthe śubhe deśe vasu dattvā halāyudhaḥ |
munīṃścaivābhivādyātha yamunātīrthamāgamat |
yatrānayāmāsa tadā rājasūyamapāmpatiḥ

50.12

दितेः सुतान्महाभागो वरुणो वै सितप्रभः ।
यत्र निर्जित्य सङ्ग्रामे मानुषान्दानवांस्तथा ।
गन्धर्वान्राक्षसांश्चैव वरुणः परवीरहा

diteḥ sutānmahābhāgo varuṇo vai sitaprabhaḥ |
yatra nirjitya saṅgrāme mānuṣāndānavāṃstathā |
gandharvānrākṣasāṃścaiva varuṇaḥ paravīrahā

50.13

तस्मिन्क्रतुवरे वृत्ते सङ्ग्रामः समजायत ।
देवानां दानवानां च त्रैलोक्यस्य भयावहः

tasminkratuvare vṛtte saṅgrāmaḥ samajāyata |
devānāṃ dānavānāṃ ca trailokyasya bhayāvahaḥ

50.14

राजसूये क्रतुश्रेष्ठे निवृत्ते जनमेजय ।
जायते सुमहाघोरः संक्षयः क्षत्रियान्प्रति

rājasūye kratuśreṣṭhe nivṛtte janamejaya |
jāyate sumahāghoraḥ saṃkṣayaḥ kṣatriyānprati

50.15

हलायुधस्तदा रामस्तस्मिंस्तीर्थवरे शुभे ।
तत्रस्नात्वा च दत्त्वा च द्विजेभ्यो वसु माधवः

halāyudhastadā rāmastasmiṃstīrthavare śubhe |
tatrasnātvā ca dattvā ca dvijebhyo vasu mādhavaḥ

50.16

वनमाली ततो हृष्टः स्तूयमानो द्विजातिभिः ।
तस्मादादित्यतीर्थं च जगाम कमलेक्षणः

vanamālī tato hṛṣṭaḥ stūyamāno dvijātibhiḥ |
tasmādādityatīrthaṃ ca jagāma kamalekṣaṇaḥ

50.17

यत्रेष्ट्वा भगवाञ्ज्योतिर्भास्करो राजसत्तम ।
ज्योतिषामाधिपत्यं च प्रभावं चाभ्यपद्यत

yatreṣṭvā bhagavāñjyotirbhāskaro rājasattama |
jyotiṣāmādhipatyaṃ ca prabhāvaṃ cābhyapadyata

50.18

तस्या नद्यास्तु तीरे वै सर्वे देवाः सवासवाः ।
विश्वेदेवाः समरुतो गन्धर्वाप्सरसश्च ह

tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ |
viśvedevāḥ samaruto gandharvāpsarasaśca ha

50.19

द्वैपायनः शुकश्चैव कृष्णश्च मधुसूदनः ।
यक्षाश्च राक्षसाश्चैव पिशाचाश्च विशाम्पते

dvaipāyanaḥ śukaścaiva kṛṣṇaśca madhusūdanaḥ |
yakṣāśca rākṣasāścaiva piśācāśca viśāmpate

50.20

एते चान्ये च बहवो योगसिद्धाः सहस्रशः ।
तस्मिंस्तीर्थे सरस्वत्याः शिवे पुण्ये परन्तप

ete cānye ca bahavo yogasiddhāḥ sahasraśaḥ |
tasmiṃstīrthe sarasvatyāḥ śive puṇye parantapa

50.21

तत्र हत्वा पुरा विष्णुरसुरौ मधुकैटभौ ।
आप्लुत्य भरतश्रेष्ठ तीर्थप्रवर उत्तमे

tatra hatvā purā viṣṇurasurau madhukaiṭabhau |
āplutya bharataśreṣṭha tīrthapravara uttame

50.22

द्वैपायनश्च धर्मात्मा तत्रैवाप्लुत्य भारत ।
सम्प्राप्तः परमं योगं सिद्धिं च परमां गतः

dvaipāyanaśca dharmātmā tatraivāplutya bhārata |
samprāptaḥ paramaṃ yogaṃ siddhiṃ ca paramāṃ gataḥ

50.23

असितो देवलश्चैव तस्मिन्नेव महातपाः ।
परमं योगमास्थाय ऋषिर्योगमवाप्तवान्

asito devalaścaiva tasminneva mahātapāḥ |
paramaṃ yogamāsthāya ṛṣiryogamavāptavān

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)