शल्य पर्व

अध्याय 34: बलराम अपने दो शिष्यों का युद्ध देखने आते हैं

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवशपर्वणि अष्टादशदिवसयुद्धे चतुस्त्रिंशोऽध्यायः ॥

20 श्लोक · 34 में से 67

इस अध्याय में क्या होता है

बलराम अपने दो शिष्यों का युद्ध देखने आते हैं

गदायुद्ध आरम्भ होने को है कि तालध्वज हलधर बलराम समाचार सुनकर अपने दो शिष्यों का युद्ध देखने आ पहुँचते हैं। केशव सहित पाण्डव आगे बढ़कर विधिपूर्वक उनका सत्कार करते हैं। बलराम कहते हैं कि उन्हें निकले बयालीस दिन हुए, वे पुष्य नक्षत्र में गए थे और श्रवण में लौटे हैं। युधिष्ठिर उन्हें गले लगाकर कुशल पूछते हैं। अर्जुन और श्रीकृष्ण प्रणाम कर उनसे मिलते हैं, नकुल सहदेव और द्रौपदी के पाँचों पुत्र प्रणाम करते हैं। गदा उठाए भीम और दुर्योधन भी उनका सम्मान करते हैं। वे श्रीकृष्ण और सात्यकि को प्रेम से गले लगाकर उनका सिर सूँघते हैं। नीले वस्त्र पहने, तारों के बीच चन्द्रमा जैसे उज्ज्वल, वे राजाओं के बीच बैठते हैं, और भयंकर युद्ध छिड़ जाता है।

सञ्जय उवाच

34.1

xxxxxxxxxxxसुसंवृत्ते सुदारुणे ।
xxxxxxxxxxx पाण्डवेषु महात्मसु

xxxxxxxxxxxsusaṃvṛtte sudāruṇe |
xxxxxxxxxxx pāṇḍaveṣu mahātmasu

34.2

ततस्तालध्वजके रामस्तयोर्युद्ध उपस्थिते ।
श्रुत्वा तच्छिष्ययो राजन्नाजगाम हलायुधः

tatastāladhvajake rāmastayoryuddha upasthite |
śrutvā tacchiṣyayo rājannājagāma halāyudhaḥ

34.3

तं दृष्ट्वा परमप्रीताः पाण्डवाः सहकेशवाः ।
उपगम्योपसङ्गृह्य विधिवत्प्रत्यपूजयन्

taṃ dṛṣṭvā paramaprītāḥ pāṇḍavāḥ sahakeśavāḥ |
upagamyopasaṅgṛhya vidhivatpratyapūjayan

34.4

पूजयित्वा ततः पश्चादिदं वचनमब्रुवन् ।
शिष्ययोः कौशलं युद्धे पश्य रामेति पार्थिव

pūjayitvā tataḥ paścādidaṃ vacanamabruvan |
śiṣyayoḥ kauśalaṃ yuddhe paśya rāmeti pārthiva

34.5

अब्रवीच्च तदा रामो दृष्ट्वा कृष्णं सपाण्डवम् ।
दुर्योधनं च कौरव्यं गदापाणिमवस्थितम्

abravīcca tadā rāmo dṛṣṭvā kṛṣṇaṃ sapāṇḍavam |
duryodhanaṃ ca kauravyaṃ gadāpāṇimavasthitam

राम उवाच

34.6

चत्वारिंशदहान्यद्य द्वे च मे निःसृतस्य वै ।
पुष्येण सम्प्रयातोऽस्मि श्रवणे पुनरागतः ।
शिष्ययोर्वै गदायुद्धं द्रुष्टुकामोऽस्मि माधव

catvāriṃśadahānyadya dve ca me niḥsṛtasya vai |
puṣyeṇa samprayāto'smi śravaṇe punarāgataḥ |
śiṣyayorvai gadāyuddhaṃ druṣṭukāmo'smi mādhava

34.7

ततो युधिष्ठिरो राजा परिष्वज्य हलायुधम् ।
स्वागतं कुशलं चास्मै पर्यपृच्छद्यथातथम्

tato yudhiṣṭhiro rājā pariṣvajya halāyudham |
svāgataṃ kuśalaṃ cāsmai paryapṛcchadyathātatham

34.8

कृष्णौ चापि महेष्वासावभिवाद्य हलायुधम् ।
सस्वजाते परिप्रीतौ प्रीयमाणौ यशस्विनौ

kṛṣṇau cāpi maheṣvāsāvabhivādya halāyudham |
sasvajāte pariprītau prīyamāṇau yaśasvinau

34.9

माद्रीपुत्रौ तथा शूरौ द्रौपद्याः पञ्च चात्मजाः ।
अभिवाद्य स्थिता राजन्रौहिणेयं महाबलम्

mādrīputrau tathā śūrau draupadyāḥ pañca cātmajāḥ |
abhivādya sthitā rājanrauhiṇeyaṃ mahābalam

34.10

भीमसेनोऽथ बलवान्पुत्रस्तव जनाधिप ।
तथैव चोद्यतगदौ पूजयामासतुर्बलम्

bhīmaseno'tha balavānputrastava janādhipa |
tathaiva codyatagadau pūjayāmāsaturbalam

34.11

स्वागतेन च ते तत्र प्रतिपूज्य पुनःपुनः ।
पश्य युद्धं महाबाहो इति ते राममब्रुवन्

svāgatena ca te tatra pratipūjya punaḥpunaḥ |
paśya yuddhaṃ mahābāho iti te rāmamabruvan

34.12

एवमुचुर्महात्मानं रौहिणेयं नराधिपाः

evamucurmahātmānaṃ rauhiṇeyaṃ narādhipāḥ

34.13

परिष्वज्य तदा रामः पाण्डवान्सह सृञ्जयान् ।
अपृच्छत्कुशलं सर्वान्पार्थिवांश्चामितौजसः ।
तथैव ते समासाद्य पप्रच्छुस्तमनामयम्

pariṣvajya tadā rāmaḥ pāṇḍavānsaha sṛñjayān |
apṛcchatkuśalaṃ sarvānpārthivāṃścāmitaujasaḥ |
tathaiva te samāsādya papracchustamanāmayam

34.14

प्रत्यभ्यर्च्य हली सर्वान्क्षत्रियांश्च महात्मनः ।
कृत्वा कुशलसम्प्रश्नं संविदं च यथावयः

pratyabhyarcya halī sarvānkṣatriyāṃśca mahātmanaḥ |
kṛtvā kuśalasampraśnaṃ saṃvidaṃ ca yathāvayaḥ

34.15

जनार्दनं सात्यकिं च प्रेम्णा सम्परिषस्वजे ।
मूर्ध्नि चैतावुपाघ्राय कुशलं पर्यपृच्छत

janārdanaṃ sātyakiṃ ca premṇā sampariṣasvaje |
mūrdhni caitāvupāghrāya kuśalaṃ paryapṛcchata

34.16

तौ च तं विधिवद्राजन्पूजयामासतुर्गुरुम् ।
ब्रह्माणामिव देवेशमिन्द्रोपेन्द्रौ मुदान्वितौ

tau ca taṃ vidhivadrājanpūjayāmāsaturgurum |
brahmāṇāmiva deveśamindropendrau mudānvitau

34.17

ततोऽब्रवीद्धर्मसुतो रौहिणेयमरिन्दमम् ।
इदं भ्रात्रोर्महायुद्धं पश्य रामेति भारत

tato'bravīddharmasuto rauhiṇeyamarindamam |
idaṃ bhrātrormahāyuddhaṃ paśya rāmeti bhārata

34.18

तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।
न्यविशत्परमप्रीतः पूज्यमानो महारथैः

teṣāṃ madhye mahābāhuḥ śrīmānkeśavapūrvajaḥ |
nyaviśatparamaprītaḥ pūjyamāno mahārathaiḥ

34.19

स बभौ राजमध्यस्थो नीलवासाः सितप्रभः ।
दिवीव नक्षत्रगणैः परिवीतो निशाकरः

sa babhau rājamadhyastho nīlavāsāḥ sitaprabhaḥ |
divīva nakṣatragaṇaiḥ parivīto niśākaraḥ

34.20

ततस्तयोः सन्निपातस्तुमुलो रोमहर्षणः ।
आसीदन्तकरो राजन्वैरस्यान्तं विधित्सतोः

tatastayoḥ sannipātastumulo romaharṣaṇaḥ |
āsīdantakaro rājanvairasyāntaṃ vidhitsatoḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)