या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः ।
तासामेतादृशं कर्म न कस्याश्चन शुश्रुम
yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ |
tāsāmetādṛśaṃ karma na kasyāścana śuśruma
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि चतुर्नवतितमोऽध्यायः ॥
17 श्लोक · 94 में से 103
कर्ण कहता है कि रूप के लिए प्रसिद्ध स्त्रियों में किसी ने ऐसा काम नहीं किया: जब पाण्डव बिना नाव के जल में डूब रहे थे, द्रौपदी उनकी नाव बनकर उन्हें पार ले गईं। आहत भीम कहते हैं कि एक स्त्री पाण्डवों की गति बनी है। देवल ने कहा है कि पुरुष की तीन ज्योतियाँ हैं, सन्तान, कर्म और विद्या; पत्नी के अपमान से वह ज्योति आहत हुई। अर्जुन कहते हैं कि उत्तम पुरुष नीचों के कठोर वचनों का उत्तर नहीं देते, वे उपकार याद रखते हैं, वैर नहीं। भीम वहीं सब शत्रुओं को मारना चाहते हैं और हिरणों के बीच सिंह की तरह देखते हैं। युधिष्ठिर बाँह से उन्हें रोककर शान्त रहने को कहते हैं और हाथ जोड़कर धृतराष्ट्र के पास जाते हैं।
कर्ण उवाच
या नः श्रुता मनुष्येषु स्त्रियो रूपेण संमताः ।
तासामेतादृशं कर्म न कस्याश्चन शुश्रुम
yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ |
tāsāmetādṛśaṃ karma na kasyāścana śuśruma
क्रोधाविष्टेषु पार्थेषु धार्तराष्ट्रेषु चाप्यति ।
द्रौपदी पाण्डुपुत्राणां कृष्णा शान्तिरिहाभवत्
krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpyati |
draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntirihābhavat
अप्लवेऽम्भसि मग्नानामप्रतिष्ठे निमज्जताम् ।
पाञ्चाली पाण्डुपुत्राणां नौरेषां पारगाऽभवत्
aplave'mbhasi magnānāmapratiṣṭhe nimajjatām |
pāñcālī pāṇḍuputrāṇāṃ naureṣāṃ pāragā'bhavat
वैशम्पायन उवाच
तद्वै श्रुत्वा भीमसेनः कुरुमध्येऽत्यमर्षणः ।
स्त्री गतिः पाण्डुपुत्राणामित्युवाच सुदुर्मनाः
tadvai śrutvā bhīmasenaḥ kurumadhye'tyamarṣaṇaḥ |
strī gatiḥ pāṇḍuputrāṇāmityuvāca sudurmanāḥ
भीम उवाच
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ।
अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः
trīṇi jyotīṃṣi puruṣa iti vai devalo'bravīt |
apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajāstataḥ
अमेध्ये वै गतप्रामे शून्ये ज्ञातिभिरुज्झिते ।
देहे त्रितयमेवैतत्पुरुषस्योपयुज्यते
amedhye vai gataprāme śūnye jñātibhirujjhite |
dehe tritayamevaitatpuruṣasyopayujyate
तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात् ।
धनञ्जय कथं स्वित्स्यादपत्यमभिमृष्टजम्
tanno jyotirabhihataṃ dārāṇāmabhimarśanāt |
dhanañjaya kathaṃ svitsyādapatyamabhimṛṣṭajam
अर्जुन उवाच
न चैवोक्ता न चानुक्ता हीनतः परुषा गिरः ।
भारत प्रतिजल्पन्ति सदा तूत्तमपूरुषाः
na caivoktā na cānuktā hīnataḥ paruṣā giraḥ |
bhārata pratijalpanti sadā tūttamapūruṣāḥ
स्मरन्ति सुकृतान्येव न वैराणि कृतान्यपि ।
सन्तः प्रतिविजानन्तो लब्धसम्भावनाः स्वयम्
smaranti sukṛtānyeva na vairāṇi kṛtānyapi |
santaḥ prativijānanto labdhasambhāvanāḥ svayam
भीम उवाच
इहैवैतानहं सर्वान्हन्मि शत्रून्समागतान् ।
अथ निष्क्रम्य राजेन्द्र समूलान्हन्मि भारत
ihaivaitānahaṃ sarvānhanmi śatrūnsamāgatān |
atha niṣkramya rājendra samūlānhanmi bhārata
किं नो विवदितेनेह किमुक्तेन च भारत ।
अद्यैवैतान्निहन्मीह प्रशाधि पृथिवीमिमाम्
kiṃ no vivaditeneha kimuktena ca bhārata |
adyaivaitānnihanmīha praśādhi pṛthivīmimām
इत्युक्त्वा भीमसेनस्तु कनिष्ठैर्भ्रातृभिः सह ।
मृगमध्ये यथा सिंहो मुहुर्मुहुरुदैक्षत
ityuktvā bhīmasenastu kaniṣṭhairbhrātṛbhiḥ saha |
mṛgamadhye yathā siṃho muhurmuhurudaikṣata
सान्त्व्यमानो वीक्षमाणः पार्थेनाक्लिष्टकर्मणा ।
खिद्यत्येव महाबाहुरन्तर्दाहेन वीर्यवान्
sāntvyamāno vīkṣamāṇaḥ pārthenākliṣṭakarmaṇā |
khidyatyeva mahābāhurantardāhena vīryavān
क्रुद्धस्य तस्य स्रोतोभ्यः कर्णादिभ्यो नराधिप ।
सधूमः सस्फुलिङ्गार्चिः पावकः समजायत
kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa |
sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata
भ्रुकुटीकृतदुष्प्रेक्ष्यमभवत्तस्य तन्मुखम् ।
युगान्तकाले सम्प्राप्ते कृतान्तस्येव रूपिणः
bhrukuṭīkṛtaduṣprekṣyamabhavattasya tanmukham |
yugāntakāle samprāpte kṛtāntasyeva rūpiṇaḥ
युधिष्ठिरस्तमावार्य बाहुना बाहुशालिनम् ।
मैवमित्यब्रवीच्चैनं जोषमास्वेति भारत
yudhiṣṭhirastamāvārya bāhunā bāhuśālinam |
maivamityabravīccainaṃ joṣamāsveti bhārata
निवार्य च महाबाहुं कोपसंरक्तलोचनम् ।
पितरं समुपातिष्ठद्धृतराष्ट्रं कृताञ्जलिः
nivārya ca mahābāhuṃ kopasaṃraktalocanam |
pitaraṃ samupātiṣṭhaddhṛtarāṣṭraṃ kṛtāñjaliḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)