पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् ।
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात्
purastātkaraṇīyaṃ me na kṛtaṃ kāryamuttaram |
vihvalā'smi kṛtā'nena karṣatā balinā balāt
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि एकनवतितमोऽध्यायः ॥
21 श्लोक · 91 में से 103
द्रौपदी पहले कुरुवृद्धों को प्रणाम करती हैं। वे विलाप करती हैं कि जिन्हें राजाओं ने केवल स्वयंवर में देखा, जिन्हें घर में वायु और सूर्य ने भी नहीं देखा, वे आज भरी सभा में खड़ी हैं; जो पाण्डव उन्हें वायु का स्पर्श भी नहीं सहते थे, वे आज एक दुष्ट का स्पर्श सह रहे हैं। पूर्वज धर्मपरायण स्त्री को सभा में नहीं लाते थे; वह सनातन धर्म कौरवों में नष्ट हो गया। वे पूछती हैं कि वे दासी हैं या नहीं, वे वही मानेंगी। भीष्म कहते हैं कि धर्म की गति ज्ञानी भी नहीं जान पाते। वे इस प्रश्न का निर्णय नहीं कर सकते, और कहते हैं कि युधिष्ठिर स्वयं बताएँ कि वे जीती गईं या नहीं।
द्रौपद्युवाच
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम् ।
विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात्
purastātkaraṇīyaṃ me na kṛtaṃ kāryamuttaram |
vihvalā'smi kṛtā'nena karṣatā balinā balāt
अभिवादं करोम्येषां कुरूणां कुरुसंसदि ।
न मे स्यादपराधोऽयं तदिदं न कृतं मया ॥
वैशम्पायन उवाच
abhivādaṃ karomyeṣāṃ kurūṇāṃ kurusaṃsadi |
na me syādaparādho'yaṃ tadidaṃ na kṛtaṃ mayā ||
vaiśampāyana uvāca
सा तेन च समाधूता दुःखेन च तपस्विनी ।
पतिता विललापेदं सभायामतथोचिता
sā tena ca samādhūtā duḥkhena ca tapasvinī |
patitā vilalāpedaṃ sabhāyāmatathocitā
स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः ।
न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता
svayaṃvare yāsmi nṛpaidṛṣṭā raṅge samāgataiḥ |
na dṛṣṭapūrvā cānyatra sā'hamadya sabhāṃ gatā
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे ।
साऽहमद्य सभामध्ये दृष्टास्मि जनसंसदि
yāṃ na vāyurna cādityo dṛṣṭavantau purā gṛhe |
sā'hamadya sabhāmadhye dṛṣṭāsmi janasaṃsadi
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा ।
स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दूरात्मना
yāṃ na mṛṣyanti vātena spṛśyamānāṃ gṛhe purā |
spṛśyamānāṃ sahante'dya pāṇḍavāstāṃ dūrātmanā
मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम् ।
स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम्
mṛṣyanti kuravaśceme manye kālasya paryayam |
snuṣāṃ duhitaraṃ caiva kliśyamānāmanarhatīm
किंन्वतः कृपणं भूयो यदहं स्त्री सती शुभा ।
सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम्
kiṃnvataḥ kṛpaṇaṃ bhūyo yadahaṃ strī satī śubhā |
sabhāmadhyaṃ vigāhe'dya kva nu dharmo mahīkṣitām
धर्म्यं स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम् ।
स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः
dharmyaṃ striyaṃ sabhāṃ pūrve na nayantīti naḥ śrutam |
sa naṣṭaḥ kauraveyeṣu pūrvo dharmaḥ sanātanaḥ
कथं हि भार्या पाण्डुनां पार्षतस्य स्वसा सती ।
वासुदेवस्य च सखी पार्थिवानां सभामियाम्
kathaṃ hi bhāryā pāṇḍunāṃ pārṣatasya svasā satī |
vāsudevasya ca sakhī pārthivānāṃ sabhāmiyām
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम् ।
ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः ।
tāmimāṃ dharmarājasya bhāryāṃ sadṛśavarṇajām |
brūta dāsīmadāsīṃ vā tatkariṣyāmi kauravāḥ |
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः.
क्लिश्नाति नाहं तत्सोढुं क्षुद्रः कौरवाणां यशोहरः ।
ayaṃ māṃ sudṛḍhaṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ.
kliśnāti nāhaṃ tatsoḍhuṃ kṣudraḥ kauravāṇāṃ yaśoharaḥ |
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः ।
तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः
jitāṃ vā'pyajitāṃ vāpi manyadhvaṃ māṃ yathā nṛpāḥ |
tathā pratyuktamicchāmi tatkariṣyāmi kauravāḥ
भीष्म उवाच
उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः ।
लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः
uktavānasmi kalyāṇi dharmasya paramā gatiḥ |
loke na śakyate jñātumapi vijñairmahātmabhiḥ
बलवांश्च यथा धर्मं लोके पश्यति पुरुषः ॥
स धर्मो धर्मवेलायां भवत्यभिहतः परः
balavāṃśca yathā dharmaṃ loke paśyati puruṣaḥ ||
sa dharmo dharmavelāyāṃ bhavatyabhihataḥ paraḥ
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात् ।
सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात्
na vivektuṃ ca te praśnamimaṃ śaknomi niścayāt |
sūkṣmatvādgahanatvācca kāryasyāsya ca gauravāt
नूनमन्तः कुलस्यास्य भविता न चिरादिव ।
तथा हि कुरवः सर्वे लोभमोहपरायणाः
nūnamantaḥ kulasyāsya bhavitā na cirādiva |
tathā hi kuravaḥ sarve lobhamohaparāyaṇāḥ
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम् ।
धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं बधूः स्थिता
kuleṣu jātāḥ kalyāṇi vyasanairāhatā bhṛśam |
dharmyānmārgānna cyavante yeṣāṃ nastvaṃ badhūḥ sthitā
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम् ।
यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे
upapannaṃ ca pāñcāli tavedaṃ vṛttamīdṛśam |
yatkṛcchramapi samprāptā dharmamevānvavekṣase
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः ।
शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः
ete droṇādayaścaiva vṛddhā dharmavido janāḥ |
śūnyaiḥ śarīraistiṣṭhanti gatāsava ivānatāḥ
युधिष्ठिरस्तु प्रश्नोऽस्मिन्प्रमाणमिति मे मतिः ।
अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति
yudhiṣṭhirastu praśno'sminpramāṇamiti me matiḥ |
ajitāṃ vā jitāṃ veti svayaṃ vyākhyātumarhati
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)