त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः ।
द्वेषा ह्यसुखमादत्ते यथैव निघनं तथा
tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavāndviṣaḥ |
dveṣā hyasukhamādatte yathaiva nighanaṃ tathā
इति श्रीमन्महाभारते सभापर्वणि द्यूतपर्वणि अशीतितमोऽध्यायः ॥
14 श्लोक · 80 में से 103
धृतराष्ट्र अपने ज्येष्ठ पुत्र को उत्तर देते हैं। पाण्डवों से द्वेष मत करो, द्वेष मृत्यु के समान दुख देता है। युधिष्ठिर किसी से वैर नहीं रखते और कुल तथा पराक्रम में वे तुम्हारे बराबर हैं। भाई की लक्ष्मी की कामना क्यों? यदि बड़े यज्ञ का वैभव चाहिए तो तुम्हारे ऋत्विज भी यज्ञ करें, राजा तुम्हें भी रत्न और आभूषण भेंट करेंगे। पराए धन की लालसा अनार्य का आचरण है। जो अपने धर्म में सन्तुष्ट है वही सुखी होता है। दूसरों के काम में न पड़ना, अपने कर्म में लगे रहना और प्राप्त की रक्षा करना, यही वैभव के लक्षण हैं। पाण्डव तुम्हारी भुजाओं के समान हैं, उन्हें मत काटो, धन के लिए बन्धुद्रोह मत करो।
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः ।
द्वेषा ह्यसुखमादत्ते यथैव निघनं तथा
tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavāndviṣaḥ |
dveṣā hyasukhamādatte yathaiva nighanaṃ tathā
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम् ।
अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ
avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram |
adviṣantaṃ kathaṃ dviṣyāttvādṛśo bharatarṣabha
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप ।
पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः
tulyābhijanavīryaśca kathaṃ bhrātuḥ śriyaṃ nṛpa |
putra kāmayase mohānmaivaṃ bhūḥ śāmya mā śucaḥ
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ ।
ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्
atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha |
ṛtvijastava tanvantu saptatantuṃ mahādhvaram
आहरिष्यन्ति राजानस्तवापि विपुलं धनम् ।
प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च
āhariṣyanti rājānastavāpi vipulaṃ dhanam |
prītyā ca bahumānācca ratnānyābharaṇāni ca
अनार्याचरितं तात परस्वस्पृहणं भृशम् ।
स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते
anāryācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam |
svasantuṣṭaḥ svadharmastho yaḥ sa vai sukhamedhate
मही कामदुघा सा हि वीरपत्नीति चोच्यते ।
तथा वीरस्य भार्या श्रीस्ते इमे हि कलत्रवत्
mahī kāmadughā sā hi vīrapatnīti cocyate |
tathā vīrasya bhāryā śrīste ime hi kalatravat
तवाप्यस्ति हे चेद्वीर्यं भोक्ष्यसे हि महीमिमाम्
tavāpyasti he cedvīryaṃ bhokṣyase hi mahīmimām
अयुक्तमिदमेतत्तु परस्वहरणं भृशम् ।
उभयोर्लोकयोर्दुःखं सुहृदां काङ्क्षतोऽनयम्
ayuktamidametattu parasvaharaṇaṃ bhṛśam |
ubhayorlokayorduḥkhaṃ suhṛdāṃ kāṅkṣato'nayam
अव्यापारः परार्तेषु नित्योद्योगः स्वकर्मसु ।
रक्षणं समुपात्तानामेतद्वैभवलक्षणम्
avyāpāraḥ parārteṣu nityodyogaḥ svakarmasu |
rakṣaṇaṃ samupāttānāmetadvaibhavalakṣaṇam
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः ।
अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति
vipattiṣvavyatho dakṣo nityamutthānavānnaraḥ |
apramatto vinītātmā nityaṃ bhadrāṇi paśyati
बाहूनिवैतान्मा च्छेत्सीः पाण्डुपुत्रास्तथैव ते ।
भ्रातृणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु
bāhūnivaitānmā cchetsīḥ pāṇḍuputrāstathaiva te |
bhrātṛṇāṃ taddhanārthaṃ vai mitradrohaṃ ca mā kuru
पाण्डोः पुत्रान्मा द्विषस्वेह राजं-
स्तथैव ते भ्रातृधनं समग्रम् ।
मित्रद्रोहे तात महानघर्मः
पितामहा ये तव तेऽपि तेषाम्
pāṇḍoḥ putrānmā dviṣasveha rājaṃ-
stathaiva te bhrātṛdhanaṃ samagram |
mitradrohe tāta mahānagharmaḥ
pitāmahā ye tava te'pi teṣām
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान् ।
क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ
antarvedyāṃ dadadvittaṃ kāmānanubhavanpriyān |
krīḍanstrībhirnirātaṅkaḥ praśāmya bharatarṣabha
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)