सभा पर्व

अध्याय 59: देवकी, एकानंशा और रानियों द्वारा स्वागत

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकोनषष्टितमोऽध्यायः ॥

18 श्लोक · 59 में से 103

इस अध्याय में क्या होता है

देवकी, एकानंशा और रानियों द्वारा स्वागत

दाशार्हों की स्त्रियाँ श्रीकृष्ण का वैभव देखने सभा में आईं: नन्दगोप की पत्नी यशोदा, रेवती, पतिव्रता रुक्मिणी, सत्या, जाम्बवती, गान्धारी, लक्ष्मणा और अन्य रानियाँ, देवकी और रोहिणी सबसे आगे। बलराम और श्रीकृष्ण ने पहले रोहिणी को, फिर देवकी को प्रणाम किया, जो दोनों पुत्रों के बीच मित्र और वरुण के बीच अदिति जैसी शोभित हुईं। फिर यशोदा की तेजस्विनी पुत्री आई, इच्छा से रूप धरने वाली कन्या एकानंशा, जिसके कारण श्रीकृष्ण ने कंस को मारा था। बलराम ने उसका बायाँ हाथ पकड़ा और श्रीकृष्ण ने दायाँ, और सभा ने दोनों भाइयों के बीच उनकी बहन को देखा। वृष्णियों ने उन पर अक्षत, फूल और घी बरसाए। श्रीकृष्ण घर जाकर रुक्मिणी, सत्या, जाम्बवती और सब रानियों के साथ आनन्द से रहे।

भीष्म उवाच

59.1

ततः सर्वदशार्हाणामाहुकस्य च याः स्त्रियः ।
नन्दगोपस्य महिषी यशोदा लोकविश्रुता

tataḥ sarvadaśārhāṇāmāhukasya ca yāḥ striyaḥ |
nandagopasya mahiṣī yaśodā lokaviśrutā

59.2

रेवती च महाभागा रुक्मिणी च पत्रिव्रता ।
सत्या जाम्बवती चोभे गान्धारी शिंशुमापि च

revatī ca mahābhāgā rukmiṇī ca patrivratā |
satyā jāmbavatī cobhe gāndhārī śiṃśumāpi ca

59.3

विशोका लक्षणा चापि सुमित्रा केतुमा तथा ।
वासुदेवमहिष्योऽन्याः श्रिया सार्धं ययुस्तदा

viśokā lakṣaṇā cāpi sumitrā ketumā tathā |
vāsudevamahiṣyo'nyāḥ śriyā sārdhaṃ yayustadā

59.4

विभूतिं द्रष्टुमनसः केशवस्य महात्मनः ।
प्रीयमाणाः सभां जग्मुरालोकयितुमच्युतम्

vibhūtiṃ draṣṭumanasaḥ keśavasya mahātmanaḥ |
prīyamāṇāḥ sabhāṃ jagmurālokayitumacyutam

59.5

देवकी सर्वदेवीनां रोहिणी च पुरस्कृता ।
ददृशुर्देवमासीनं कृष्णं हलभृता सह

devakī sarvadevīnāṃ rohiṇī ca puraskṛtā |
dadṛśurdevamāsīnaṃ kṛṣṇaṃ halabhṛtā saha

59.6

तौ तु पूर्वमतिक्रम्य रोहिणीमभिवाद्य च ।
अभ्यवादयतां देवौ देवकीं रामकेशवौ

tau tu pūrvamatikramya rohiṇīmabhivādya ca |
abhyavādayatāṃ devau devakīṃ rāmakeśavau

59.7

सा ताभ्यामृषभाक्षाभ्यां पुत्राभ्यां शुशुभेऽधिकम् ।
देवकी देवमातेव मित्रेण वरुणेन च

sā tābhyāmṛṣabhākṣābhyāṃ putrābhyāṃ śuśubhe'dhikam |
devakī devamāteva mitreṇa varuṇena ca

59.8

ततः प्राप्ता यशोदाया दुहिता वै क्षणेन हि ।
जाज्वल्यमाना वपुषा प्रभयाऽतीव भारत

tataḥ prāptā yaśodāyā duhitā vai kṣaṇena hi |
jājvalyamānā vapuṣā prabhayā'tīva bhārata

59.9

एकानङ्गेति यामाहुः कन्यां वै कामरूपिणीम् ।
यत्कृते सगणं कंसं जघान पुरुषोत्तमः

ekānaṅgeti yāmāhuḥ kanyāṃ vai kāmarūpiṇīm |
yatkṛte sagaṇaṃ kaṃsaṃ jaghāna puruṣottamaḥ

59.10

ततः स भगवान्रामस्तामुपाक्रम्य भामिनाम् ।
मूर्ध्न्युपाघ्राय सव्येन परिजग्राह पाणिना

tataḥ sa bhagavānrāmastāmupākramya bhāminām |
mūrdhnyupāghrāya savyena parijagrāha pāṇinā

59.11

तां च तत्रोपसम्प्राप्य प्रियामिव सखीमिमाम् ।
दक्षिणेन कराग्रेण पिरजग्राह माधवः

tāṃ ca tatropasamprāpya priyāmiva sakhīmimām |
dakṣiṇena karāgreṇa pirajagrāha mādhavaḥ

59.12

ददृशुस्तां सभामध्ये भगिनीं रामकृष्णयोः ।
रुक्मपद्मशां पद्मश्रीमिवोत्तमनाभयोः

dadṛśustāṃ sabhāmadhye bhaginīṃ rāmakṛṣṇayoḥ |
rukmapadmaśāṃ padmaśrīmivottamanābhayoḥ

59.13

अथाक्षतमहावष्ट्या लाजपुष्पघृतैरपि ।
वृष्णयोऽवाकिरन्प्रीताः सङ्कर्षणजनार्दनौ

athākṣatamahāvaṣṭyā lājapuṣpaghṛtairapi |
vṛṣṇayo'vākiranprītāḥ saṅkarṣaṇajanārdanau

59.14

सबालाः सहवृद्धाश्च ये ज्ञातिकुलबान्धवाः ।
उपोपविविशुः प्रीता वृष्णयो मधुसूदनम्

sabālāḥ sahavṛddhāśca ye jñātikulabāndhavāḥ |
upopaviviśuḥ prītā vṛṣṇayo madhusūdanam

59.15

पूज्यमानो महाबाहुः पौराणां रतिवर्धनः ।
विवेश पुरुषव्याघ्रः स्ववेश्म मधुसूदनः

pūjyamāno mahābāhuḥ paurāṇāṃ rativardhanaḥ |
viveśa puruṣavyāghraḥ svaveśma madhusūdanaḥ

59.16

रुक्मिण्या सहितो देव्या प्रमुमोद सुखी सुखम् ।
अनन्तरं च सत्याया जाम्बवत्याश्च भारत

rukmiṇyā sahito devyā pramumoda sukhī sukham |
anantaraṃ ca satyāyā jāmbavatyāśca bhārata

59.17

सर्वासां च यदुश्रेष्ठो गेहे गेहे विहारवान् ।
जगाम च हृषीकेशो रुक्मिण्याः सदनं पुनः

sarvāsāṃ ca yaduśreṣṭho gehe gehe vihāravān |
jagāma ca hṛṣīkeśo rukmiṇyāḥ sadanaṃ punaḥ

59.18

एष तात महाबाहो विजयः शार्ङ्गधन्वनः ।
एतदर्थं च जन्माहुर्मानुषेषु महात्मनः

eṣa tāta mahābāho vijayaḥ śārṅgadhanvanaḥ |
etadarthaṃ ca janmāhurmānuṣeṣu mahātmanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)