सभा पर्व

अध्याय 41: भीष्म बताते हैं श्रीकृष्ण क्यों पूज्य हैं

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि एकचत्वारिंशोऽध्यायः ॥

34 श्लोक · 41 में से 103

इस अध्याय में क्या होता है

भीष्म बताते हैं श्रीकृष्ण क्यों पूज्य हैं

युधिष्ठिर शिशुपाल के पीछे गए और मधुर स्वर में बोले कि ऐसे कठोर वचन अधर्म हैं, और तुमसे बड़े अनेक राजा यह पूजा मान रहे हैं। भीष्म ने कहा कि जो लोकों में सबसे वृद्ध श्रीकृष्ण की पूजा नहीं मानता, उसे मनाना उचित नहीं। हम सम्बन्ध के कारण नहीं, उनके यश, शौर्य और विजयों के कारण पूजा करते हैं। ब्राह्मणों में ज्ञान से और क्षत्रियों में बल से बड़प्पन होता है, और श्रीकृष्ण दोनों में श्रेष्ठ हैं। वे ऋत्विज, गुरु, सम्बन्धी, स्नातक और राजा सब हैं। वे लोकों के उद्भव और प्रलय हैं, अव्यक्त प्रकृति और सनातन कर्ता; पञ्चभूत, सूर्य, चन्द्र और नक्षत्र उन्हीं में स्थित हैं; वे ही रुद्र और ब्रह्मा हैं, मनुष्य रूप में आया अक्षर। शिशुपाल बालक है, यह नहीं समझता।

वैशम्पायन उवाच

41.1

ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् ।
उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः

tato yudhiṣṭhiro rājā śiśupālamupādravat |
uvāca cainaṃ madhuraṃ sāntvapūrvamidaṃ vacaḥ

41.2

नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् ।
अधर्मश्च परो राजन्पारुष्यं च निरर्थकम्

nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvamuktavān |
adharmaśca paro rājanpāruṣyaṃ ca nirarthakam

41.3

न हि धर्मं परं जातु नावबुध्येत पार्थिवः ।
भीष्मः शान्तनवस्त्वेनं मावमंस्थास्त्वमन्यथा

na hi dharmaṃ paraṃ jātu nāvabudhyeta pārthivaḥ |
bhīṣmaḥ śāntanavastvenaṃ māvamaṃsthāstvamanyathā

41.4

पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून् ।
मृष्यन्ते चार्हणां कृष्णे तद्वत्वं क्षन्तुमर्हसि

paśya caitānmahīpālāṃstvatto vṛddhatarānbahūn |
mṛṣyante cārhaṇāṃ kṛṣṇe tadvatvaṃ kṣantumarhasi

41.5

वेद तत्त्वेन कृष्णं हि भीष्णश्चेदिपते भृशम् ।
न ह्येनं त्वं तथा यथैनं वेद कौरवः

veda tattvena kṛṣṇaṃ hi bhīṣṇaścedipate bhṛśam |
na hyenaṃ tvaṃ tathā yathainaṃ veda kauravaḥ

भीष्म उवाच

41.6

नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम् ।
लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते

nāsmai deyo hyanunayo nāyamarhati sāntvanam |
lokavṛddhatame kṛṣṇe yo'rhaṇāṃ nābhimanyate

41.7

क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः ।
यो मुञ्चति वशे कृत्वा गुरुर्भवति तस्य सः

kṣatriyaḥ kṣatriyaṃ jitvā raṇe raṇakṛtāṃ varaḥ |
yo muñcati vaśe kṛtvā gururbhavati tasya saḥ

41.8

अस्यां हि समितौ राज्ञामेकमप्यजितं युधि ।
न पश्यामि महीपालं सात्वतीपुत्रतेजसा

asyāṃ hi samitau rājñāmekamapyajitaṃ yudhi |
na paśyāmi mahīpālaṃ sātvatīputratejasā

41.9

न हि केवलमस्माकमयमर्च्यतमोऽच्युतः ।
त्रयाणामपि लोकानामर्चनीयो महाभुजः

na hi kevalamasmākamayamarcyatamo'cyutaḥ |
trayāṇāmapi lokānāmarcanīyo mahābhujaḥ

41.10

कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः ।
जगत्सर्वं च वार्ष्णेये निखिलेन प्रतिष्ठितम्

kṛṣṇena hi jitā yuddhe bahavaḥ kṣatriyarṣabhāḥ |
jagatsarvaṃ ca vārṣṇeye nikhilena pratiṣṭhitam

41.11

तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चाम नेतरान् ।
एवं वक्तुं न चार्हस्त्वं मा तेऽभूद्बुद्धिरीदृशी

tasmātsatsvapi vṛddheṣu kṛṣṇamarcāma netarān |
evaṃ vaktuṃ na cārhastvaṃ mā te'bhūdbuddhirīdṛśī

41.12

ज्ञानवृद्धा मया राजन्बहवः पर्युपासिताः ।
यस्य राजन्प्रभावज्ञाः पुरा सर्वे च रक्षिताः ।
तेषां कथयतां शौरेरहं गुणवतो गुणान्

jñānavṛddhā mayā rājanbahavaḥ paryupāsitāḥ |
yasya rājanprabhāvajñāḥ purā sarve ca rakṣitāḥ |
teṣāṃ kathayatāṃ śaurerahaṃ guṇavato guṇān

41.13

समागतानामश्रौषं बहून्बहुमतान्सताम् ।
कर्माण्यपि च यान्यस्य जन्मप्रभृति धीमतः

samāgatānāmaśrauṣaṃ bahūnbahumatānsatām |
karmāṇyapi ca yānyasya janmaprabhṛti dhīmataḥ

41.14

बहृशः कथ्यमानानि नरैर्भूयः श्रुतानि मे ।
न केवलं वयं कामाच्चेदिगज जनार्दनम्

bahṛśaḥ kathyamānāni narairbhūyaḥ śrutāni me |
na kevalaṃ vayaṃ kāmāccedigaja janārdanam

41.15

न सम्बन्धं पुरस्कृत्य कृतार्थं वा कथञ्चन ।
अर्चामहेऽर्चितं सद्भिर्भुवि भूतसुखावहम्

na sambandhaṃ puraskṛtya kṛtārthaṃ vā kathañcana |
arcāmahe'rcitaṃ sadbhirbhuvi bhūtasukhāvaham

41.16

यशः शौर्यं जयं चास्य विज्ञायार्चां प्रयुञ्ज्महे
न च कश्चिदिहास्माभिः सुवालोप्यपरीक्षितः

yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayuñjmahe
na ca kaścidihāsmābhiḥ suvālopyaparīkṣitaḥ

41.17

गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः ।
ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः

guṇairvṛddhānatikramya harirarcyatamo mataḥ |
jñānavṛddho dvijātīnāṃ kṣatriyāṇāṃ balādhikaḥ

41.18

वैश्यानां धान्यधनवाञ्शूद्राणामेव जन्मतः ।
पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ

vaiśyānāṃ dhānyadhanavāñśūdrāṇāmeva janmataḥ |
pūjyatāyāṃ ca govinde hetū dvāvapi saṃsthitau

41.19

वेदवेदाङ्गविज्ञानं बलं चाभ्यधिकं तथा ।
नृणां लोके हि कोऽन्योस्ति विशिष्टः केशवादृते

vedavedāṅgavijñānaṃ balaṃ cābhyadhikaṃ tathā |
nṛṇāṃ loke hi ko'nyosti viśiṣṭaḥ keśavādṛte

41.20

दानं दाक्ष्यं श्रुतं शौर्यं ह्रीः कीर्तिर्बुद्धिरुत्तमा ।
संनतिः श्रीर्धृतिस्तुष्टिः पुष्टिश्च नियताऽच्युते

dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtirbuddhiruttamā |
saṃnatiḥ śrīrdhṛtistuṣṭiḥ puṣṭiśca niyatā'cyute

41.21

तमिमं लोकसम्पन्नमाचार्यं पितरं गुरुम् ।
अर्घ्यमर्चितमर्चामः सर्वे सङ्क्षन्तुमर्हथ

tamimaṃ lokasampannamācāryaṃ pitaraṃ gurum |
arghyamarcitamarcāmaḥ sarve saṅkṣantumarhatha

41.22

ऋत्विग्गुरुर्विवाह्यश्च स्नातको नृपतिः प्रियः ।
सर्वमेतद्धृषीकेशस्तस्मादभ्यर्चितोऽच्युतः

ṛtviggururvivāhyaśca snātako nṛpatiḥ priyaḥ |
sarvametaddhṛṣīkeśastasmādabhyarcito'cyutaḥ

41.23

कृष्ण एव हि लोकानामुत्पत्तिरपि चाप्ययः ।
कृष्णस्य हि कृते विश्वमिदं भूतं चराचरम्

kṛṣṇa eva hi lokānāmutpattirapi cāpyayaḥ |
kṛṣṇasya hi kṛte viśvamidaṃ bhūtaṃ carācaram

41.24

एष प्रकृतिरव्यक्ता कर्ता चैव सनातनः ।
परश्च सर्वभूतेभ्यस्तस्मात्पूज्यतमोऽच्युतः

eṣa prakṛtiravyaktā kartā caiva sanātanaḥ |
paraśca sarvabhūtebhyastasmātpūjyatamo'cyutaḥ

41.25

द्धिर्मनो महद्वायुस्तेजोऽभः खं मही च या ।
चतुर्विधं च यद्भूतं सर्वं कृष्णे प्रतिष्ठितम्

ddhirmano mahadvāyustejo'bhaḥ khaṃ mahī ca yā |
caturvidhaṃ ca yadbhūtaṃ sarvaṃ kṛṣṇe pratiṣṭhitam

41.26

आदित्यश्चन्द्रमाश्चैव नक्षत्राणि ग्रहाश्च ये ।
दिशश्च विदिशश्चैव सर्वं कृष्णे प्रतिष्ठितम्

ādityaścandramāścaiva nakṣatrāṇi grahāśca ye |
diśaśca vidiśaścaiva sarvaṃ kṛṣṇe pratiṣṭhitam

41.27

एष रुद्रश्च सर्वात्मा ब्रह्मा चैव सनातनः ।
अक्षरं क्षररूपेण मानुषत्वमुपागतः

eṣa rudraśca sarvātmā brahmā caiva sanātanaḥ |
akṣaraṃ kṣararūpeṇa mānuṣatvamupāgataḥ

41.28

अग्निहोत्रमुखा वेदा गायत्री च्छन्दसां मुखम् ।
राजा मुखं मनुष्याणां नदीनां सागरो मुखम्

agnihotramukhā vedā gāyatrī cchandasāṃ mukham |
rājā mukhaṃ manuṣyāṇāṃ nadīnāṃ sāgaro mukham

41.29

नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् ।
पर्वतानां मुखं मेरुर्गरुडः पततां मुखम्

nakṣatrāṇāṃ mukhaṃ candra ādityastejasāṃ mukham |
parvatānāṃ mukhaṃ merurgaruḍaḥ patatāṃ mukham

41.30

ऊर्ध्वं तिर्यगधश्चैव यावती जगतो गतिः ।
सदेवकेषु लोकेषु भगवान्केशवो मुखम्

ūrdhvaṃ tiryagadhaścaiva yāvatī jagato gatiḥ |
sadevakeṣu lokeṣu bhagavānkeśavo mukham

41.31

अयं तु पुरुषो बालः शिशुपालो न बुध्यते ।
सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते

ayaṃ tu puruṣo bālaḥ śiśupālo na budhyate |
sarvatra sarvadā kṛṣṇaṃ tasmādevaṃ prabhāṣate

41.32

यो हि धर्मं विचिनुयादुत्कृष्टं मतिमान्नरः ।
स वै पश्येद्यथा धर्मं न तथा चेदिराडयम्

yo hi dharmaṃ vicinuyādutkṛṣṭaṃ matimānnaraḥ |
sa vai paśyedyathā dharmaṃ na tathā cedirāḍayam

41.33

सवृद्धबालेष्वथवा पार्थिवेषु महात्मसु ।
को नार्हं मन्यते कृष्णं को वाप्येनं न पूजयेत्

savṛddhabāleṣvathavā pārthiveṣu mahātmasu |
ko nārhaṃ manyate kṛṣṇaṃ ko vāpyenaṃ na pūjayet

41.34

अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति ।
दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति

athaināṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati |
duṣkṛtāyāṃ yathānyāyaṃ tathā'yaṃ kartumarhati

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)