सभा पर्व

अध्याय 38: राजसूय में कार्यों का बँटवारा

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि अष्टत्रिंशोऽध्यायः ॥

21 श्लोक · 38 में से 103

इस अध्याय में क्या होता है

राजसूय में कार्यों का बँटवारा

युधिष्ठिर ने आगे बढ़कर भीष्म और द्रोण को प्रणाम किया और भीष्म, द्रोण, कृप, अश्वत्थामा, दुर्योधन तथा विविंशति से कहा कि इस यज्ञ में मुझ पर कृपा करें और यहाँ का धन अपना समझें। फिर दीक्षित राजा ने सबको कार्य सौंपे। युयुत्सु को पंक्ति बिठाने और जूठन उठवाने का, दुःशासन को भोजन का, अश्वत्थामा को ब्राह्मणों के स्वागत का, सञ्जय को राजाओं के सत्कार का, भीष्म और द्रोण को कार्यों की देखरेख का, और कृप को सोना, रत्न और दक्षिणा का भार मिला। विदुर व्यय सँभालते, दुर्योधन भेंट लेता, कुन्ती और गान्धारी स्त्रियों का सत्कार करतीं। स्वयं श्रीकृष्ण ब्राह्मणों के चरण धोते थे। कोई हजार से कम की भेंट नहीं लाया। देवता आहुतियों से और सब वर्ण दान से तृप्त हुए।

वैशम्पायन उवाच

38.1

पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः ।
अभिवाद्य ततो राजन्निदं वचनमब्रवीत्

pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ |
abhivādya tato rājannidaṃ vacanamabravīt

38.2

भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ।
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः

bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī |
asminyajñe bhavanto māmanugṛhṇantu sarvaśaḥ

38.3

इदं वः सुमहच्चैव यदिहास्ति धनं मम ।
प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रितः

idaṃ vaḥ sumahaccaiva yadihāsti dhanaṃ mama |
praṇayantu bhavanto māṃ yatheṣṭamabhimantritaḥ

38.4

एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः ।
युयोज स यथायोगमधिकारेष्वनन्तरम्

evamuktvā sa tānsarvāndīkṣitaḥ pāṇḍavāgrajaḥ |
yuyoja sa yathāyogamadhikāreṣvanantaram

38.5

पङ्क्त्यारोपणकार्ये च उच्छिष्टापनये पुनः ।
भोजनावेक्षणे चैव युयुत्सुं समयोजयत्

paṅktyāropaṇakārye ca ucchiṣṭāpanaye punaḥ |
bhojanāvekṣaṇe caiva yuyutsuṃ samayojayat

38.6

भक्ष्यभोज्याधिकारेषु दुःशासनमयोजयत् ।
परिग्रहे ब्राह्मणानामश्वत्थामानमुक्तवान् ।

bhakṣyabhojyādhikāreṣu duḥśāsanamayojayat |
parigrahe brāhmaṇānāmaśvatthāmānamuktavān |

38.7

राज्ञां तु प्रतिपूजार्थं सञ्जयं न्ययोजयत् ।
कृताकृतपरिज्ञाने भीष्णद्रोणौ महामती

rājñāṃ tu pratipūjārthaṃ sañjayaṃ nyayojayat |
kṛtākṛtaparijñāne bhīṣṇadroṇau mahāmatī

38.8

हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे ।
दक्षिणानां च वै दाने कृपं राजा न्ययोजयत्

hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe |
dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat

38.9

तथाऽऽन्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजयत् ।
बाह्लिको धृतराष्ट्रश्च सोमदत्तो जयद्रथः ।
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे

tathā''nyānpuruṣavyāghrāṃstasmiṃstasminnyayojayat |
bāhliko dhṛtarāṣṭraśca somadatto jayadrathaḥ |
nakulena samānītāḥ svāmivattatra remire

38.10

क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् ।
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः

kṣattā vyayakarastvāsīdviduraḥ sarvadharmavit |
duryodhanastvarhaṇāni pratijagrāha sarvaśaḥ

38.11

कुन्ती साध्वी च गान्धारी स्त्रीणां कुर्वन्ति चार्चनम् ॥
अन्याः सर्वाः स्नुषास्तासां सन्देशं यान्तु माचिरम् ।
तिष्ठेत्कृष्णान्तिके सोयमर्जुनः कार्यसिद्धये

kuntī sādhvī ca gāndhārī strīṇāṃ kurvanti cārcanam ||
anyāḥ sarvāḥ snuṣāstāsāṃ sandeśaṃ yāntu māciram |
tiṣṭhetkṛṣṇāntike soyamarjunaḥ kāryasiddhaye

38.12

चरणक्षालने कृष्णो ब्राह्मणानां स्वयं ह्यभूत् ।
सर्वलोकसमावृत्तः पिप्रीषुः फलमुत्तमम्

caraṇakṣālane kṛṣṇo brāhmaṇānāṃ svayaṃ hyabhūt |
sarvalokasamāvṛttaḥ piprīṣuḥ phalamuttamam

38.13

द्रष्टुकामः सभां चैव धर्मराजं यधिष्ठिरम् ।
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम्

draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ yadhiṣṭhiram |
na kaścidāharattatra sahasrāvaramarhaṇam

38.14

रत्नैश्च बहुभिस्तत्र धर्मराजमवर्धयत् ।
कथं तु मम कौरव्यो रत्नदानैः समाप्नुयात्

ratnaiśca bahubhistatra dharmarājamavardhayat |
kathaṃ tu mama kauravyo ratnadānaiḥ samāpnuyāt

38.15

यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ।
भवनैः सविमानाग्रैः सोदर्कैर्बलसंवृतैः

yajñamityeva rājānaḥ spardhamānā dadurdhanam |
bhavanaiḥ savimānāgraiḥ sodarkairbalasaṃvṛtaiḥ

38.16

लोकराजविमानैश्च ब्राह्मणावसथैः सह ।
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा

lokarājavimānaiśca brāhmaṇāvasathaiḥ saha |
kṛtairāvasathairdivyairvimānapratimaistathā

38.17

विचित्रै रत्ववद्भिश्च ऋद्ध्या परमया युतैः ।
राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः ।
अशोभत सदो राजन्कौन्तेयस्य महात्मनः

vicitrai ratvavadbhiśca ṛddhyā paramayā yutaiḥ |
rājabhiśca samāvṛttairatīva śrīsamṛddhibhiḥ |
aśobhata sado rājankaunteyasya mahātmanaḥ

38.18

ऋद्ध्या तु वरुणं देवं स्पर्धमानो युधिष्ठिरः ।
षडग्निनाथ यज्ञेन सोऽयजद्दक्षिणावता

ṛddhyā tu varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ |
ṣaḍagninātha yajñena so'yajaddakṣiṇāvatā

38.19

सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पयत् ।
अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः ।
रत्नोपहारसम्पन्नो बभूव स समागमः

sarvāñjanānsarvakāmaiḥ samṛddhaiḥ samatarpayat |
annavānbahubhakṣyaśca bhuktavajjanasaṃvṛtaḥ |
ratnopahārasampanno babhūva sa samāgamaḥ

38.20

इडाज्यहोमाहुतिभिर्मन्त्रशिक्षाविशारदैः ।
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः

iḍājyahomāhutibhirmantraśikṣāviśāradaiḥ |
tasminhi tatṛpurdevāstate yajñe maharṣibhiḥ

38.21

यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः ।
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदाऽन्विताः

yathā devāstathā viprā dakṣiṇānnamahādhanaiḥ |
tatṛpuḥ sarvavarṇāśca tasminyajñe mudā'nvitāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)