सभा पर्व

अध्याय 33: कावेरी तट पर और पाण्ड्य देश में सहदेव

इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि त्रयस्त्रिंशोऽध्यायः ॥

32 श्लोक · 33 में से 103

इस अध्याय में क्या होता है

कावेरी तट पर और पाण्ड्य देश में सहदेव

जनमेजय घटोत्कच, लंका और कावेरी के बारे में पूछते हैं। वैशम्पायन बताते हैं कि दक्षिण जीतकर सहदेव चोल देश पहुँचते हैं और कावेरी देखते हैं, जिसके तट वृक्षों, जलपक्षियों, आश्रमों और वेदज्ञ ब्राह्मणों से शोभित हैं। वे कहते हैं कि जैसे हमारे देश में गंगा, वैसे ही कावेरी पवित्र है। उसे पार करते ही द्रविड़ स्त्री पुरुष उन्हें देखने उमड़ते हैं और स्कन्द की भाँति पूजते हैं। दूत भेजकर वे चोल राजा को वश में करते हैं। फिर अर्जुन की पत्नी चित्रांगदा के पिता, पाण्ड्यराज मलयध्वज को दूत भेजते हैं, जो प्रेम से आज्ञा मानते हैं। चित्रांगदा अन्तःपुर से उपहार भेजती हैं; सहदेव उनके पुत्र बभ्रुवाहन को रत्न देते हैं। वे अगस्त्य के मलय पर्वत की प्रदक्षिणा कर ताम्रपर्णी पार करते हैं और समुद्रतट पर डेरा डालते हैं।

जनमेजय उवाच

33.1

इच्छाम्यागमनं श्रोतुं हैडिम्बस्य द्विजोत्तम ।
लङ्कायां च गतिं ब्रह्मन्पौलस्त्यस्य च दर्शनम्

icchāmyāgamanaṃ śrotuṃ haiḍimbasya dvijottama |
laṅkāyāṃ ca gatiṃ brahmanpaulastyasya ca darśanam

33.2

कावेरीदर्शनं चैव आनुपूर्व्या वदस्व मे ।
(वैशम्पायन उवाच)
शृणु राजन्यथा वृत्तं सहेदवस्य साहसम्

kāverīdarśanaṃ caiva ānupūrvyā vadasva me |
(vaiśampāyana uvāca)
śṛṇu rājanyathā vṛttaṃ sahedavasya sāhasam

33.3

कालनद्वीपगांश्चैव तरसाऽजित्य चाहवे ।
दक्षिणां च दिशं जित्वा चोलस्य विषयं ययौ

kālanadvīpagāṃścaiva tarasā'jitya cāhave |
dakṣiṇāṃ ca diśaṃ jitvā colasya viṣayaṃ yayau

33.4

ददर्श पुण्यतोयां वै कावेरीं सरितां वराम् ।
नाजापक्षिगणैर्जुष्टां तापसैरुपशोभिताम्

dadarśa puṇyatoyāṃ vai kāverīṃ saritāṃ varām |
nājāpakṣigaṇairjuṣṭāṃ tāpasairupaśobhitām

33.5

साललोध्रार्जुनैल्वैर्जम्बूशाल्मलकिंशुकैः ।
कदम्बैः सप्तपर्णैश्च कश्मर्यामलकैर्वृताम्

sālalodhrārjunailvairjambūśālmalakiṃśukaiḥ |
kadambaiḥ saptaparṇaiśca kaśmaryāmalakairvṛtām

33.6

न्यग्रोधैश्च महाशाखैः प्लक्षैरौदुम्बरैरपि ।
शमीपलाशवृक्षैश्च अश्वत्थैः खदिरैर्वृताम्

nyagrodhaiśca mahāśākhaiḥ plakṣairaudumbarairapi |
śamīpalāśavṛkṣaiśca aśvatthaiḥ khadirairvṛtām

33.7

बदरीभिश्च सञ्छन्नामश्वकर्णैश्च शोभिताम् ।
चूतैः पुण्ड्रकपत्रैश्च कदलीवनसंवृताम्

badarībhiśca sañchannāmaśvakarṇaiśca śobhitām |
cūtaiḥ puṇḍrakapatraiśca kadalīvanasaṃvṛtām

33.8

चक्रवाकगणैः कीर्णं प्लवैश्च जलवायसैः ।
समुद्रकाकैः क्रौञ्चैश्च नादितां जलकुक्कुटैः

cakravākagaṇaiḥ kīrṇaṃ plavaiśca jalavāyasaiḥ |
samudrakākaiḥ krauñcaiśca nāditāṃ jalakukkuṭaiḥ

33.9

एवं खगैश्च बहुभिः सङ्घुष्टां जलवासिभिः ।
आश्रमैर्बहुभिः सक्तां चैत्यवृक्षैश्च शोभिताम्

evaṃ khagaiśca bahubhiḥ saṅghuṣṭāṃ jalavāsibhiḥ |
āśramairbahubhiḥ saktāṃ caityavṛkṣaiśca śobhitām

33.10

शोभितां ब्राह्मणैः शुभ्रैर्वेदवेदाङ्गपारगैः ।
क्वचित्तीररुहैर्वृक्षैर्मालाभिरिव शोभिताम्

śobhitāṃ brāhmaṇaiḥ śubhrairvedavedāṅgapāragaiḥ |
kvacittīraruhairvṛkṣairmālābhiriva śobhitām

33.11

क्वचित्सुपुष्पितैर्वृक्षैः क्वचित्सौगन्धिकोत्पलैः ।
कह्लारकुमुदोत्फुल्लैः कमलैरुपशोभिताम्

kvacitsupuṣpitairvṛkṣaiḥ kvacitsaugandhikotpalaiḥ |
kahlārakumudotphullaiḥ kamalairupaśobhitām

33.12

कावेरीं तादृशीं दृष्ट्वा प्रीतिमान्पाण्डवस्तदा ।
अस्मद्राष्ट्रे यथा गङ्गा कावेरी च तथा शुभा

kāverīṃ tādṛśīṃ dṛṣṭvā prītimānpāṇḍavastadā |
asmadrāṣṭre yathā gaṅgā kāverī ca tathā śubhā

33.13

सहदेवस्तु तां तीर्त्वा नदीमनुचरैः सह ।
दक्षिणं तीरभासाद्य गमनायोपचक्रमे

sahadevastu tāṃ tīrtvā nadīmanucaraiḥ saha |
dakṣiṇaṃ tīrabhāsādya gamanāyopacakrame

33.14

आगतं पाण्डवं तत्र श्रुत्वा विषयवासिनः ।
दर्शनार्थं ययुस्ते तु कौतूहलसमन्विताः

āgataṃ pāṇḍavaṃ tatra śrutvā viṣayavāsinaḥ |
darśanārthaṃ yayuste tu kautūhalasamanvitāḥ

33.15

द्रमिडाः पुरुषा राजन्स्रियचश्च प्रियदर्शनाः ।
गत्वा पाण्डुसुतं तत्र ददृशुस्ते मुदाऽन्विताः

dramiḍāḥ puruṣā rājansriyacaśca priyadarśanāḥ |
gatvā pāṇḍusutaṃ tatra dadṛśuste mudā'nvitāḥ

33.16

सुकुमारं विशालाक्षं व्रजन्तं त्रिदशोपमम् ।
दर्शनीयतमं लोके नेत्रैरनिमिषैरिव

sukumāraṃ viśālākṣaṃ vrajantaṃ tridaśopamam |
darśanīyatamaṃ loke netrairanimiṣairiva

33.17

आश्चर्यभूतं ददृशुर्द्रमिडास्ते समागताः ।
महासेनोपमं दृष्ट्वा पूजां चक्रुश्च तस्य वै

āścaryabhūtaṃ dadṛśurdramiḍāste samāgatāḥ |
mahāsenopamaṃ dṛṣṭvā pūjāṃ cakruśca tasya vai

33.18

रत्नैश्च विविधैरिष्टैर्भोगैरन्यैश्च संमतैः ।
गतिमङ्गलयुक्तार्भिः स्तुवन्तो नकुलानुजम्

ratnaiśca vividhairiṣṭairbhogairanyaiśca saṃmataiḥ |
gatimaṅgalayuktārbhiḥ stuvanto nakulānujam

33.19

सहदेवस्तु तान्दृष्ट्वा द्रमिलानागतान्मुदा ।
विसृज्य तान्महाबाहुः प्रस्थितो दक्षिणां दिशम्

sahadevastu tāndṛṣṭvā dramilānāgatānmudā |
visṛjya tānmahābāhuḥ prasthito dakṣiṇāṃ diśam

33.20

दूतेन तरसा चोलं विजित्य द्रमिडेश्वरम् ।
ततो रत्नान्युपादाय पाण्डस्य विषयं ययौ

dūtena tarasā colaṃ vijitya dramiḍeśvaram |
tato ratnānyupādāya pāṇḍasya viṣayaṃ yayau

33.21

दर्शने सहदेवस्य न च तृप्ता नराः परे ।
गच्छन्तमनुगच्छन्तः प्राप्ताः कौतूहलान्विताः

darśane sahadevasya na ca tṛptā narāḥ pare |
gacchantamanugacchantaḥ prāptāḥ kautūhalānvitāḥ

33.22

ततो माद्रीसुतों राजन्मृगसङ्घान्विलोकयन् ।
गजान्वनचरानन्यान्व्याघ्रान्कुष्णमृगान्बहून्

tato mādrīsutoṃ rājanmṛgasaṅghānvilokayan |
gajānvanacarānanyānvyāghrānkuṣṇamṛgānbahūn

33.23

शुकान्मयूरान्दृष्ट्वा तु गृध्रानारण्यकुक्कुटान् ।
ततो देशं समासाद्य श्वशुरस्य महीपतेः

śukānmayūrāndṛṣṭvā tu gṛdhrānāraṇyakukkuṭān |
tato deśaṃ samāsādya śvaśurasya mahīpateḥ

33.24

प्रेषयामास माद्रेयो दूतान्पाण्ड्याय वै तदा ।
प्रतिजग्राह तस्याज्ञां सम्प्रीत्या मलयध्वजः

preṣayāmāsa mādreyo dūtānpāṇḍyāya vai tadā |
pratijagrāha tasyājñāṃ samprītyā malayadhvajaḥ

33.25

भार्या रूपवती जिष्णोः पाण्ड्यस्य तनया शुभा ।
चित्राङ्गदेति विख्याता द्रमिडी योषितां वरा

bhāryā rūpavatī jiṣṇoḥ pāṇḍyasya tanayā śubhā |
citrāṅgadeti vikhyātā dramiḍī yoṣitāṃ varā

33.26

आगतं सहदेवं तु सा श्रुत्वाऽन्तः पुरे पितुः ।
प्रेषयामास सम्प्रीत्या पूजारत्नं च वै बहु

āgataṃ sahadevaṃ tu sā śrutvā'ntaḥ pure pituḥ |
preṣayāmāsa samprītyā pūjāratnaṃ ca vai bahu

33.27

पाण्ड्योऽपि बहुरत्नानि दूतैः सह मुमोच ह ।
मणिमुक्ताप्रवालानि सहदेवाय कीर्तिमान्

pāṇḍyo'pi bahuratnāni dūtaiḥ saha mumoca ha |
maṇimuktāpravālāni sahadevāya kīrtimān

33.28

तां दृष्ट्वाऽप्रतिमां पूजां पाण्डवोऽपि मुदा नृप ।
भ्रातुः पुत्रे बहून्रत्नान्दत्वा वै बभ्रूवाहने

tāṃ dṛṣṭvā'pratimāṃ pūjāṃ pāṇḍavo'pi mudā nṛpa |
bhrātuḥ putre bahūnratnāndatvā vai babhrūvāhane

33.29

पाण्ड्यं द्रमिडराजानं श्वशुरं मलयध्वजम् ।
स दूतैस्तं वशे कृत्वा मणलूरेश्वरं तदा

pāṇḍyaṃ dramiḍarājānaṃ śvaśuraṃ malayadhvajam |
sa dūtaistaṃ vaśe kṛtvā maṇalūreśvaraṃ tadā

33.30

ततो रत्नान्युपादाय द्रमिडैरावृतो ययौ ।
अगस्त्यस्यालयं दिव्यं देवलोकसमं गिरिम्

tato ratnānyupādāya dramiḍairāvṛto yayau |
agastyasyālayaṃ divyaṃ devalokasamaṃ girim

33.31

स तं प्रदक्षिमं कृत्वा मलयं भरतर्षभ ।
लङ्घयित्वा तु माद्रेयस्ताम्रपणीं नदीं शुभाम्

sa taṃ pradakṣimaṃ kṛtvā malayaṃ bharatarṣabha |
laṅghayitvā tu mādreyastāmrapaṇīṃ nadīṃ śubhām

33.32

प्रसन्नसलिलां दिव्यां सुशीतां च मनोहराम् ।
समुद्रतीरमासाद्य न्यविशत्पाण्डुनन्दनः

prasannasalilāṃ divyāṃ suśītāṃ ca manoharām |
samudratīramāsādya nyaviśatpāṇḍunandanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)