जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी ।
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्
jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī |
tava veśmani rājendra pūjitā nyavasaṃ sukham
इति श्रीमन्महाभारते सभापर्वणि मन्त्रपर्वणि अष्टादशोऽध्यायः ॥
13 श्लोक · 18 में से 103
राक्षसी बृहद्रथ को अपना परिचय देती है। वह इच्छानुसार रूप धरने वाली जरा है, जिसे बहुत पहले स्वयम्भू ने रचा और जो गृहदेवी नाम से हर घर में दानवों के विनाश के लिए स्थापित है। जो उसे पुत्रों सहित युवा और सुन्दर रूप में दीवार पर चित्रित कर पूजता है, उसके घर में वृद्धि होती है, नहीं तो क्षय। बृहद्रथ के महल में पूजित होकर वह प्रत्युपकार करना चाहती थी। दोनों खण्ड देखकर उसने उन्हें जोड़ा, और राजा के भाग्य से कुमार उत्पन्न हुआ, वह तो केवल निमित्त थी। फिर वह अन्तर्धान हो जाती है। राजा महोत्सव कराते हैं और बालक का नाम जरासन्ध रखते हैं, यानी जरा द्वारा जोड़ा गया। वह आहुति पाई अग्नि की भाँति बढ़ता है।
राक्षस्युवाच
जरा नामास्मि भद्रं ते राक्षसी कामरूपिणी ।
तव वेश्मनि राजेन्द्र पूजिता न्यवसं सुखम्
jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī |
tava veśmani rājendra pūjitā nyavasaṃ sukham
गृहे गृहे मनुष्याणां नित्यं तिष्ठामि राक्षसी ।
गृहदेवीति नाम्ना वै पुरा सृष्टा स्वयंम्भुवा
gṛhe gṛhe manuṣyāṇāṃ nityaṃ tiṣṭhāmi rākṣasī |
gṛhadevīti nāmnā vai purā sṛṣṭā svayaṃmbhuvā
दानवानां विनाशाय स्थापिता दिव्यरूपिणी ।
यो मां भक्त्या लिखेत्कुड्ये सपुत्रां यौवनान्विताम्
dānavānāṃ vināśāya sthāpitā divyarūpiṇī |
yo māṃ bhaktyā likhetkuḍye saputrāṃ yauvanānvitām
गृहे तस्य भवेद्वृद्धिरन्यथा क्षयमाप्नुयात् ।
त्वद्गृहे तिष्ठमानाऽहं पूजिताऽहं सदा विभो
gṛhe tasya bhavedvṛddhiranyathā kṣayamāpnuyāt |
tvadgṛhe tiṣṭhamānā'haṃ pūjitā'haṃ sadā vibho
लिखिता चैव कुड्येषु पुत्रैर्बहुभिरावृता ।
गन्धपुष्पैस्तथा धूपैर्भक्ष्यभोज्यैः सुपूजिता
likhitā caiva kuḍyeṣu putrairbahubhirāvṛtā |
gandhapuṣpaistathā dhūpairbhakṣyabhojyaiḥ supūjitā
साऽहं प्रत्युपकारार्थं चिन्तयन्त्यनिशं नृप ।
तवेमे पुत्रशकले दृष्टवत्यस्मि धार्मिका ।
sā'haṃ pratyupakārārthaṃ cintayantyaniśaṃ nṛpa |
taveme putraśakale dṛṣṭavatyasmi dhārmikā |
संश्लिषिते मया दैवात्कुमारः समपद्यत ।
तव भाग्यान्महाराज हेतुमात्रमहं त्विह
saṃśliṣite mayā daivātkumāraḥ samapadyata |
tava bhāgyānmahārāja hetumātramahaṃ tviha
मेरुं वा खादितुं शक्ता किं पुनस्तव बालकम् ।
गृहसम्पूजनात्तुष्ट्या मया प्रत्यर्पितस्तव
meruṃ vā khādituṃ śaktā kiṃ punastava bālakam |
gṛhasampūjanāttuṣṭyā mayā pratyarpitastava
मम नाम्ना च लोकेऽस्मिन्ख्यात एव भविष्यति ।
(कृष्ण उवाच)
एवमुक्त्वा तु सा राजंस्तत्रैवान्तरधीयत ।
स सङ्गृह्य कुमारं तं प्रविवेश गृहं नृपः
mama nāmnā ca loke'sminkhyāta eva bhaviṣyati |
(kṛṣṇa uvāca)
evamuktvā tu sā rājaṃstatraivāntaradhīyata |
sa saṅgṛhya kumāraṃ taṃ praviveśa gṛhaṃ nṛpaḥ
तस्य बालस्य यत्कृत्यं तच्चकार नृपस्तदा ।
आज्ञापयच्च राक्षस्या मगधेषु महोत्सवम्
tasya bālasya yatkṛtyaṃ taccakāra nṛpastadā |
ājñāpayacca rākṣasyā magadheṣu mahotsavam
तस्य नामाकरोच्चैव पितामहसमः पिता ।
जरया सन्धितो यस्माज्जरासन्धो भवत्वयम्
tasya nāmākaroccaiva pitāmahasamaḥ pitā |
jarayā sandhito yasmājjarāsandho bhavatvayam
सोऽवर्धत महातेजा मागधाधिपतेः सुतः ।
प्रमाणबलसम्पन्नो हुताहुतिरिवानलः
so'vardhata mahātejā māgadhādhipateḥ sutaḥ |
pramāṇabalasampanno hutāhutirivānalaḥ
एवं स ववृधे राजन्कुमारः पुष्करेक्षणः ।
लेन महता चापि यौवनस्थो बभूव ह ॥
मातापित्रोर्नन्दकरः शुक्लपक्षे यथा शशी
evaṃ sa vavṛdhe rājankumāraḥ puṣkarekṣaṇaḥ |
lena mahatā cāpi yauvanastho babhūva ha ||
mātāpitrornandakaraḥ śuklapakṣe yathā śaśī
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)