सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः ।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्
samrāḍguṇamabhīpsanvai yuṣmānsvārthaparāyaṇaḥ |
kathaṃ prahiṇuyāṃ kṛṣṇa so'haṃ kevalasāhasāt
इति श्रीमन्महाभारते सभापर्वणि षोडशोऽध्यायः ॥
17 श्लोक · 16 में से 103
युधिष्ठिर अब भी रुकते हैं। अपनी सम्राट बनने की इच्छा के लिए वे भीम, अर्जुन और श्रीकृष्ण को संकट में कैसे भेजें? भीम और अर्जुन उनकी आँखें हैं और श्रीकृष्ण उनका मन; उनके बिना जीवन कैसा? जरासन्ध के बल को यम भी न जीत सकें, इसलिए राजसूय छोड़ देना ही उन्हें ठीक लगता है। तब श्रेष्ठ धनुष, अक्षय तूणीर, रथ, ध्वज और घोड़े पा चुके अर्जुन उत्तर देते हैं। वे कहते हैं कि उन्हें पराक्रम प्रिय है। वीर कुल में जन्मा पराक्रमहीन कुछ नहीं कर पाता, और साधारण कुल का वीर आगे निकल जाता है। शत्रु को जीतना ही क्षत्रिय की वृत्ति है। यदि वे जरासन्ध को मारकर राजाओं को छुड़ाएँ, तो इससे बड़ा क्या होगा? गेरुआ वस्त्र तो बाद में भी सुलभ है, अभी हम युद्ध करेंगे।
युधिष्ठिर उवाच
सम्राड्गुणमभीप्सन्वै युष्मान्स्वार्थपरायणः ।
कथं प्रहिणुयां कृष्ण सोऽहं केवलसाहसात्
samrāḍguṇamabhīpsanvai yuṣmānsvārthaparāyaṇaḥ |
kathaṃ prahiṇuyāṃ kṛṣṇa so'haṃ kevalasāhasāt
भीमार्जुनावुभौ नेत्रे मनो मन्ये जनार्दनम् ।
मनश्चक्षुर्विहीनस्य कीदृशं जीवितं भवेत्
bhīmārjunāvubhau netre mano manye janārdanam |
manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet
जरासन्धबलं प्राप्य दुष्पारं भीमविक्रमम् ।
यमोपि न विजेताऽऽजौ तत्र वः किं विचेष्टितम्
jarāsandhabalaṃ prāpya duṣpāraṃ bhīmavikramam |
yamopi na vijetā''jau tatra vaḥ kiṃ viceṣṭitam
अस्मिंस्त्वर्थान्तरे युक्तमनर्थः प्रतिपद्यते ।
तस्मान्न प्रतिपत्तिस्तु कार्या युक्ता मता मम
asmiṃstvarthāntare yuktamanarthaḥ pratipadyate |
tasmānna pratipattistu kāryā yuktā matā mama
यथाऽहं विमृशाम्येकस्तत्तावच्छ्रूयतां मम ।
संन्यासं रोचये साधु कार्यस्यास्य जनार्दन ।
प्रतिहन्ति मनो मेऽद्य राजसूयो दूराहरः
yathā'haṃ vimṛśāmyekastattāvacchrūyatāṃ mama |
saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana |
pratihanti mano me'dya rājasūyo dūrāharaḥ
वैशम्पायन उवाच
पार्थः प्राप्य धनुः श्रेष्ठमक्षय्यौ च महेषुधी ।
रथं ध्वजं हयांश्चैव युधिष्ठिरमभाषत
pārthaḥ prāpya dhanuḥ śreṣṭhamakṣayyau ca maheṣudhī |
rathaṃ dhvajaṃ hayāṃścaiva yudhiṣṭhiramabhāṣata
अर्जुन उवाच
धनुः शस्त्रं शरा वीर्यं पक्षो भूमिर्यशो बलम् ।
प्राप्तमेतन्मय राजन्दुष्प्रापं यदभीप्सितम् ।
dhanuḥ śastraṃ śarā vīryaṃ pakṣo bhūmiryaśo balam |
prāptametanmaya rājanduṣprāpaṃ yadabhīpsitam |
कुले जन्म प्रशंसन्ति वैद्याः साधु सुनिष्ठिताः ।
बलेन सदृशं नास्ति वीर्यं तु मम रोचते ।
kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ |
balena sadṛśaṃ nāsti vīryaṃ tu mama rocate |
कृतवीर्यकुले जातो निर्वीर्यः किं करिष्यति ।
निर्वीर्ये तु कुले जातो वीर्यवांस्तु विशिष्यते
kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati |
nirvīrye tu kule jāto vīryavāṃstu viśiṣyate
क्षत्रियः सर्वशो राजन्यस्य वृत्तिर्द्विषज्जये ।
सर्वैगुणैर्विहीनोऽपि वीर्यवान्हि तरेन्द्रिपून्
kṣatriyaḥ sarvaśo rājanyasya vṛttirdviṣajjaye |
sarvaiguṇairvihīno'pi vīryavānhi tarendripūn
सर्वैरपि गुणैर्युक्तो निर्वीर्यः किं करिष्यति ।
जयस्य हेतुः सिद्धिर्हि कर्म दैवं च संश्रितम्
sarvairapi guṇairyukto nirvīryaḥ kiṃ kariṣyati |
jayasya hetuḥ siddhirhi karma daivaṃ ca saṃśritam
संयुक्तो हि बलैः कश्चित्प्रमादान्नोपयुज्यते
saṃyukto hi balaiḥ kaścitpramādānnopayujyate
तेन द्वारेण शत्रुभ्यः क्षीयते सबलो रिपुः
tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ
दैन्यं यथा बलवति तथा मोहो बलान्विते ।
तावुभौ नाशकौ हेतू राज्ञा त्याज्यौ जयार्थिना
dainyaṃ yathā balavati tathā moho balānvite |
tāvubhau nāśakau hetū rājñā tyājyau jayārthinā
जरासन्धिविनाशं च राज्ञां च परिरक्षणम् ।
यदि कुर्याम् यज्ञार्थं किं ततः परमं भवेत्
jarāsandhivināśaṃ ca rājñāṃ ca parirakṣaṇam |
yadi kuryām yajñārthaṃ kiṃ tataḥ paramaṃ bhavet
अनारम्भे हि नियतो भवेदगुणनिश्चयः ।
गुणान्निः संशयाद्राजन्नैर्गुण्यं मन्यसे कथम्
anārambhe hi niyato bhavedaguṇaniścayaḥ |
guṇānniḥ saṃśayādrājannairguṇyaṃ manyase katham
काषायं सुलभं पश्चान्मुनीनां शममिच्छताम् ।
साम्राज्यं तु भवेच्छक्यं वयं योत्स्यामहे परान्
kāṣāyaṃ sulabhaṃ paścānmunīnāṃ śamamicchatām |
sāmrājyaṃ tu bhavecchakyaṃ vayaṃ yotsyāmahe parān
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)