आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ॥
राजानं सोमदत्तं च महाराजं च बाह्लिकम्
āmantrayāmi bharatāṃstathā vṛddhaṃ pitāmaham ||
rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam
इति श्रीमन्महाभारते सभापर्वणि अनुद्यातपर्वणि शततमोऽध्यायः ॥ 100 ॥ 2-100-14 समाधिर्मनः स्वास्थ्यकरो नियमः ॥ 2-100-19 विधारणे नियमने ॥ 2-100-20 विसर्गे दाने । संयमे वशीकरणे । उपजीवनं जीवनहेतुत्वम् ॥
25 श्लोक · 100 में से 103
युधिष्ठिर भीष्म, सोमदत्त, द्रोण, कृप, विदुर, धृतराष्ट्र और उनके पुत्रों, विकर्ण, गान्धारी और कुन्ती से विदा माँगते हैं और फिर मिलने का वचन देते हैं। लज्जा से कोई उत्तर नहीं देता, पर सब मन ही मन उनका कल्याण चाहते हैं। विदुर कहते हैं कि सुकुमार और वृद्ध कुन्ती वन न जाएँ, उनके घर सम्मान से रहें; पाण्डव मानते हैं। विदुर उपदेश देते हैं: अधर्म से हारा हुआ दुखी नहीं होता। तुम धर्म जानते हो, अर्जुन युद्ध जीतते हैं, भीम शत्रु मारते हैं, नकुल धन जुटाते हैं, सहदेव संयम रखते हैं, धौम्य ब्रह्मज्ञ हैं, द्रौपदी धर्म और अर्थ में निपुण हैं। पृथ्वी से क्षमा, सूर्य से तेज और वायु से बल लो। युधिष्ठिर भीष्म और द्रोण को प्रणाम कर निकल पड़ते हैं।
युधिष्ठिर उवाच
आमन्त्रयामि भरतांस्तथा वृद्धं पितामहम् ॥
राजानं सोमदत्तं च महाराजं च बाह्लिकम्
āmantrayāmi bharatāṃstathā vṛddhaṃ pitāmaham ||
rājānaṃ somadattaṃ ca mahārājaṃ ca bāhlikam
द्रोणं कृपं नृपांश्चान्यानश्वत्थामानमेव च ।
विदुरं धृतराष्ट्रं च धार्तराष्ट्रांश्च सर्वशः
droṇaṃ kṛpaṃ nṛpāṃścānyānaśvatthāmānameva ca |
viduraṃ dhṛtarāṣṭraṃ ca dhārtarāṣṭrāṃśca sarvaśaḥ
सौमदत्तिं महावीर्यं विकर्णं च महामतिम् ।
युयुत्सुं सञ्जयं चैव तथैवान्यान्सभासदः
saumadattiṃ mahāvīryaṃ vikarṇaṃ ca mahāmatim |
yuyutsuṃ sañjayaṃ caiva tathaivānyānsabhāsadaḥ
गान्धारीं च महाभागां मातरं च तथा पृथाम् ।
सर्वानामन्त्र्य गच्छामि द्रष्टाऽस्मि पुनरेत्य वः
gāndhārīṃ ca mahābhāgāṃ mātaraṃ ca tathā pṛthām |
sarvānāmantrya gacchāmi draṣṭā'smi punaretya vaḥ
वैशम्पायन उवाच
न च किञ्चिदथोचुस्तं ह्रियाऽऽसन्ना युधिष्ठिरम् ।
मनोभिरेव कल्याणं दध्युस्ते तस्य धीमतः
na ca kiñcidathocustaṃ hriyā''sannā yudhiṣṭhiram |
manobhireva kalyāṇaṃ dadhyuste tasya dhīmataḥ
विदुर उवाच
आर्या पृथा राजपुत्री नारण्यं गन्तुमर्हति ।
सुकुमारी च वृद्धा च नित्यं चैव सुखोचिता
āryā pṛthā rājaputrī nāraṇyaṃ gantumarhati |
sukumārī ca vṛddhā ca nityaṃ caiva sukhocitā
इह वत्स्यति कल्याणी सत्कृता मम वेश्मनि ।
इति पार्था विजानीध्वमगदं वोऽस्तु सर्वशः
iha vatsyati kalyāṇī satkṛtā mama veśmani |
iti pārthā vijānīdhvamagadaṃ vo'stu sarvaśaḥ
पाण्डवा ऊचुः
तथेत्युक्त्वाऽब्रुवन्सर्वे यथा नो वदसेऽनघ ।
त्वं पितृव्यः पितृसमो वयं च त्वत्परायणाः
tathetyuktvā'bruvansarve yathā no vadase'nagha |
tvaṃ pitṛvyaḥ pitṛsamo vayaṃ ca tvatparāyaṇāḥ
यथाऽऽज्ञापयसे विद्वंस्त्वं हि नः परमो गुरुः ।
यच्चान्यदपि कर्तव्यं तद्विधत्स्व महामते
yathā''jñāpayase vidvaṃstvaṃ hi naḥ paramo guruḥ |
yaccānyadapi kartavyaṃ tadvidhatsva mahāmate
विदुर उवाच
युधिष्ठिर विजानीहि ममेदं भरतर्षभ ।
नाधर्मेण जितः कश्चिद्व्यथते वै पराजये
yudhiṣṭhira vijānīhi mamedaṃ bharatarṣabha |
nādharmeṇa jitaḥ kaścidvyathate vai parājaye
त्वं वै धर्मं विजानीषे युद्धे जेता धनञ्जयः ।
हन्ताऽरीणां भीमसेनो नकुलस्त्वर्थसङ्ग्रही
tvaṃ vai dharmaṃ vijānīṣe yuddhe jetā dhanañjayaḥ |
hantā'rīṇāṃ bhīmaseno nakulastvarthasaṅgrahī
संयन्ता सहदेवस्तु धौम्यो ब्रह्मविदुत्तमः ।
धर्मार्थकुशला चैव द्रौपदी धर्मचारिणी
saṃyantā sahadevastu dhaumyo brahmaviduttamaḥ |
dharmārthakuśalā caiva draupadī dharmacāriṇī
अन्योन्यस्य प्रियाः सर्वे तथैव प्रियदर्शनाः ।
परैरभेद्याः सन्तुष्टाः को वोन न स्पृहयेदिह
anyonyasya priyāḥ sarve tathaiva priyadarśanāḥ |
parairabhedyāḥ santuṣṭāḥ ko vona na spṛhayediha
एष वै सर्वकल्याणः समाधिस्तव भारत ।
नैनं शत्रुर्विषहते शक्रेणापि समोऽप्युत
eṣa vai sarvakalyāṇaḥ samādhistava bhārata |
nainaṃ śatrurviṣahate śakreṇāpi samo'pyuta
हिमवत्यनुशिष्टोऽसि मेरुसावर्णिना पुरा ।
द्वैपायनेन कृष्णेन नगरे वारणावते
himavatyanuśiṣṭo'si merusāvarṇinā purā |
dvaipāyanena kṛṣṇena nagare vāraṇāvate
भृगुतुङ्गे च रामेण दृष्टद्वत्यां च शम्भुना ।
अश्रौषीरसि तस्यापि महर्षेरञ्जनं प्रति
bhṛgutuṅge ca rāmeṇa dṛṣṭadvatyāṃ ca śambhunā |
aśrauṣīrasi tasyāpi maharṣerañjanaṃ prati
कल्माषीतीरसंस्थस्य गतस्त्वं शिष्यतां भृगोः ।
द्रष्टा सदा नारदस्ते धौम्यस्तेऽयं पुरोहितः
kalmāṣītīrasaṃsthasya gatastvaṃ śiṣyatāṃ bhṛgoḥ |
draṣṭā sadā nāradaste dhaumyaste'yaṃ purohitaḥ
माहासीः साम्पराये त्वं बुद्धिं तामृषिपूजिताम् ।
पुरूरवसमैलं त्वं बुद्ध्या जयसि पाण्डव
māhāsīḥ sāmparāye tvaṃ buddhiṃ tāmṛṣipūjitām |
purūravasamailaṃ tvaṃ buddhyā jayasi pāṇḍava
शक्त्या जयसि राज्ञोऽन्यानृषीन्धर्गोपसेवया ।
ऐन्द्रे जये धृतमना याम्ये कोपविधारणे
śaktyā jayasi rājño'nyānṛṣīndhargopasevayā |
aindre jaye dhṛtamanā yāmye kopavidhāraṇe
तथा विसर्गे कौबेरे वारुणे कोपविधारणे ॥
आत्मप्रदानं सौम्यत्वमद्भ्यश्चैवोपजीवनम्
tathā visarge kaubere vāruṇe kopavidhāraṇe ||
ātmapradānaṃ saumyatvamadbhyaścaivopajīvanam
भूमेः क्षमा च तेजश्च समग्रं सूर्यमण्डलात् ।
वायोर्बलं प्राप्नुहि त्वं भूतेभ्यश्चात्मसम्पदम्
bhūmeḥ kṣamā ca tejaśca samagraṃ sūryamaṇḍalāt |
vāyorbalaṃ prāpnuhi tvaṃ bhūtebhyaścātmasampadam
अगदं वोऽस्तु भद्रं वो द्रष्टाऽस्मि पुनरागतान् ।
आपद्धर्मार्थकृच्छ्रेषु सर्वकार्येषु वा पुनः
agadaṃ vo'stu bhadraṃ vo draṣṭā'smi punarāgatān |
āpaddharmārthakṛcchreṣu sarvakāryeṣu vā punaḥ
यथावत्प्रतिपद्येथाः काले काले युधिष्ठिर ।
आपृष्टोऽसीह कौन्तेय स्वस्ति प्राप्नुहि भारत
yathāvatpratipadyethāḥ kāle kāle yudhiṣṭhira |
āpṛṣṭo'sīha kaunteya svasti prāpnuhi bhārata
कृतार्थं स्वस्मिमन्तं त्वां द्रक्ष्यामः पुनरागतम् ।
न हि वो वृजिनं किञ्चिद्वेद कश्चित्पुराकृतम्
kṛtārthaṃ svasmimantaṃ tvāṃ drakṣyāmaḥ punarāgatam |
na hi vo vṛjinaṃ kiñcidveda kaścitpurākṛtam
वैशम्पायन उवाच
एवमुक्तस्तथेत्युक्त्वा पाण्डवः सत्यविक्रमः ।
भीष्मद्रोणौ नमस्कृत्य प्रातिष्ठत युधिष्ठिरः
evamuktastathetyuktvā pāṇḍavaḥ satyavikramaḥ |
bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)