मौसल पर्व

अध्याय 2: साम्ब के बहाने ऋषियों का वृष्णियों को शाप

इति श्रीमन्महाभारते मौसलपर्वणि द्वितीयोऽध्यायः ॥

20 श्लोक · 2 में से 9

इस अध्याय में क्या होता है

साम्ब के बहाने ऋषियों का वृष्णियों को शाप

जनमेजय पूछते हैं कि वासुदेव के देखते वृष्णि, अन्धक और भोज कैसे नष्ट हुए। वैशम्पायन बताते हैं। विश्वामित्र, कण्व और नारद द्वारका आए, तब सारण आदि यादवों ने साम्ब को स्त्री का वेश पहनाकर उपहास से पूछा कि बभ्रु की यह पत्नी क्या जनेगी। क्रुद्ध मुनियों ने कहा कि साम्ब लोहे का मूसल जनेगा जिससे बलराम और जनार्दन को छोड़ सारा कुल नष्ट होगा; बलराम समुद्र में प्रवेश करेंगे और भूमि पर लेटे श्रीकृष्ण को जरा नाम का व्याध बेधेगा। अन्त जानने वाले श्रीकृष्ण ने कहा, ऐसा ही होगा। अगले दिन साम्ब ने मूसल जना। उग्रसेन ने उसका चूर्ण कराकर समुद्र में फेंकवा दिया और घोषणा कराई कि नगर में मदिरा बनाने वाला शूली पर चढ़ेगा।

जनमेजय उवाच

2.1

कथं विनष्टा भगवन्नन्धका वृष्णिभिः सह ।
पश्यतो वासुदेवस्य भोजश्चैवक महारथाः

kathaṃ vinaṣṭā bhagavannandhakā vṛṣṇibhiḥ saha |
paśyato vāsudevasya bhojaścaivaka mahārathāḥ

वैशम्पायन उवाच

2.2

षट्त्रिंशेऽथ ततो वर्षे वृष्णीनामनयो महान् ।
अन्योन्यं मुसलैस्ते तु निजघ्नुः कालचोदिताः

ṣaṭtriṃśe'tha tato varṣe vṛṣṇīnāmanayo mahān |
anyonyaṃ musalaiste tu nijaghnuḥ kālacoditāḥ

जनमेजय उवाच

2.3

केनानुशप्तास्ते वीराः क्षयं वृष्ण्यन्धका गताः ।
भोजाश्च द्विजवर्य त्वं विस्तरेण वदस्व मे

kenānuśaptāste vīrāḥ kṣayaṃ vṛṣṇyandhakā gatāḥ |
bhojāśca dvijavarya tvaṃ vistareṇa vadasva me

वैशम्पायन उवाच

2.4

विश्वामित्रं च कण्वं च नारदं च तपोधनम् ।
सारणप्रमुखा वीरा ददृशुर्द्वारकां गतान्

viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam |
sāraṇapramukhā vīrā dadṛśurdvārakāṃ gatān

2.5

ते वै सांबं पुरस्कृत्य भूषयित्वा स्त्रियं यथा ।
अब्रुवन्नुपसङ्गम्य् दैवदण्डिनिपीडिताः

te vai sāṃbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā |
abruvannupasaṅgamy daivadaṇḍinipīḍitāḥ

2.6

इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ।
ऋषयः साधु जानीत किमियं जनयिष्यति

iyaṃ strī putrakāmasya babhroramitatejasaḥ |
ṛṣayaḥ sādhu jānīta kimiyaṃ janayiṣyati

2.7

इत्युक्तास्ते तदा राजन्विप्रलम्भप्रधर्षिताः ।
प्रत्यबुवंस्तान्मुनयो यत्तच्छृणु नराधिप

ityuktāste tadā rājanvipralambhapradharṣitāḥ |
pratyabuvaṃstānmunayo yattacchṛṇu narādhipa

2.8

वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् ।
वासुदेवस्य दायादः सांबोऽयं जनयिष्यति

vṛṣṇyandhakavināśāya musalaṃ ghoramāyasam |
vāsudevasya dāyādaḥ sāṃbo'yaṃ janayiṣyati

2.9

येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः ।
उच्छेत्तारः कुलं कृत्स्नमृते रामजनार्दनौ

yena yūyaṃ sudurvṛttā nṛśaṃsā jātamanyavaḥ |
ucchettāraḥ kulaṃ kṛtsnamṛte rāmajanārdanau

2.10

समुद्रं यास्यति श्रीमांस्त्यक्त्वा देहं हलायुधः ।
जरःकृष्णं महात्मानं शयानं भुवि भेत्स्यति

samudraṃ yāsyati śrīmāṃstyaktvā dehaṃ halāyudhaḥ |
jaraḥkṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati

2.11

इत्यब्रुवंस्ततो राजन्प्रलब्धास्तैर्दुरात्मभिः ।
मुनयः क्रोधरक्ताक्षाः समीक्ष्याथ परस्परम् ।
तथोक्त्वा मुनयस्ते तु यथागतमथो ययुः

ityabruvaṃstato rājanpralabdhāstairdurātmabhiḥ |
munayaḥ krodharaktākṣāḥ samīkṣyātha parasparam |
tathoktvā munayaste tu yathāgatamatho yayuḥ

2.12

अथाब्रवीत्तदा वृष्णीञ्श्रुत्वैतन्मधुसूदनः ।
अन्तज्ञो मतिमांस्तस्य भवितव्यं तथेति तान्

athābravīttadā vṛṣṇīñśrutvaitanmadhusūdanaḥ |
antajño matimāṃstasya bhavitavyaṃ tatheti tān

2.13

एवमुक्त्वा हृषीकेशः प्रविवेश पुरं तदा ।
कृतान्तमन्यथा नैच्छत्कर्तुं स जगतः प्रभुः

evamuktvā hṛṣīkeśaḥ praviveśa puraṃ tadā |
kṛtāntamanyathā naicchatkartuṃ sa jagataḥ prabhuḥ

2.14

श्वोभूतेऽथ ततः सांबो मुसलं तदसूकत वै ।
येन वृष्णन्धककुले पुरुषा भस्मसात्कृताः

śvobhūte'tha tataḥ sāṃbo musalaṃ tadasūkata vai |
yena vṛṣṇandhakakule puruṣā bhasmasātkṛtāḥ

2.15

वृष्ण्यन्धकविनाशाय किंकरप्रतिमं महत् ।
असूत सापजं घोरं तच्च राज्ञे न्यवेदयन्

vṛṣṇyandhakavināśāya kiṃkarapratimaṃ mahat |
asūta sāpajaṃ ghoraṃ tacca rājñe nyavedayan

2.16

विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकारयत् ।
तच्चूर्णं सागरे चापि प्राक्षिपन्पुरुषा नृप

viṣaṇṇarūpastadrājā sūkṣmaṃ cūrṇamakārayat |
taccūrṇaṃ sāgare cāpi prākṣipanpuruṣā nṛpa

2.17

अघोषयंश्च नगरे वचनादाहुकस्य ते ।
जनार्दनस्य रामस्य बभ्रोश्चैव महात्मनः

aghoṣayaṃśca nagare vacanādāhukasya te |
janārdanasya rāmasya babhroścaiva mahātmanaḥ

2.18

अद्यप्रभृति सर्वेषु वृष्ण्यन्धककुलेष्विह ।
सुरासवो न कर्तव्यः, सर्वैर्नगरवासिभिः

adyaprabhṛti sarveṣu vṛṣṇyandhakakuleṣviha |
surāsavo na kartavyaḥ, sarvairnagaravāsibhiḥ

2.19

यश्च नो विदितं कुर्यात्पेयं कश्चिन्नरः क्वचित् ।
जीवन्स शूलमारोहेत्स्वयं कृत्वा सबान्धवः

yaśca no viditaṃ kuryātpeyaṃ kaścinnaraḥ kvacit |
jīvansa śūlamārohetsvayaṃ kṛtvā sabāndhavaḥ

2.20

ततो राजभयात्सर्वे नियमं चक्रिरे तदा ।
नराः सासनमाज्ञाय तस्य राज्ञो महात्मनः

tato rājabhayātsarve niyamaṃ cakrire tadā |
narāḥ sāsanamājñāya tasya rājño mahātmanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)