मौसल पर्व

अध्याय 3: द्वारका में काल का फेरा और तीर्थयात्रा की आज्ञा

इति श्रीमन्महाभारते मौसलपर्वणि तृतीयोऽध्यायः ॥

24 श्लोक · 3 में से 9

इस अध्याय में क्या होता है

द्वारका में काल का फेरा और तीर्थयात्रा की आज्ञा

वृष्णि अपनी रक्षा में लगे हैं, तभी स्वयं काल विकराल, मुण्डित, काले पुरुष के रूप में उनके घरों में घूमता है, जिसे धनुर्धर बेध नहीं पाते। गलियों में चूहे भर जाते हैं और सोते लोगों के नख कुतरते हैं, सारस उल्लुओं की बोली बोलते हैं, गायों से गधे जन्मते हैं। वृष्णि निर्लज्ज होकर पाप करते हैं और ब्राह्मणों, पितरों तथा गुरुजनों का अपमान करते हैं, केवल बलराम और जनार्दन का नहीं; पति-पत्नी एक-दूसरे को ठगते हैं। पके अन्न में कीड़े दिखते हैं और पाञ्चजन्य बजते ही गधे रेंकते हैं। श्रीकृष्ण भारत-युद्ध जैसा त्रयोदशी-अमावास्या का योग देखकर जानते हैं कि छत्तीसवाँ वर्ष आ गया और गान्धारी का शाप फलेगा। उसे सत्य करने को वे समुद्र-तट की तीर्थयात्रा की घोषणा कराते हैं।

वैशंपाय उवाच

3.1

एवं प्रयतमानानां वृष्णीनामन्धकैः सह ।
कालो गृहाणि सर्वेषां परिचक्राम नित्यशः

evaṃ prayatamānānāṃ vṛṣṇīnāmandhakaiḥ saha |
kālo gṛhāṇi sarveṣāṃ paricakrāma nityaśaḥ

3.2

करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः ।
गृहाण्यावेक्ष्य वृष्णीनां नादृश्यतं पुनः क्वचित्

karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ |
gṛhāṇyāvekṣya vṛṣṇīnāṃ nādṛśyataṃ punaḥ kvacit

3.3

तमघ्नन्त महेष्वासाः शरैः शतसहस्रशः ।
न चाशक्यत वेद्धुं स सर्वभूतात्ययस्तदा

tamaghnanta maheṣvāsāḥ śaraiḥ śatasahasraśaḥ |
na cāśakyata veddhuṃ sa sarvabhūtātyayastadā

3.4

उत्पेदिरे महावाता दारुणाश्च दिनेदिने ।
वृष्ण्यन्धकविनाशाय बहवो रोमहर्षणाः

utpedire mahāvātā dāruṇāśca dinedine |
vṛṣṇyandhakavināśāya bahavo romaharṣaṇāḥ

3.5

विवृद्धमूषिका रथ्या विभिन्नमणिकास्तथा ।
केशा नखाश्च सुप्तानामद्यन्ते मूषिकैर्निशि

vivṛddhamūṣikā rathyā vibhinnamaṇikāstathā |
keśā nakhāśca suptānāmadyante mūṣikairniśi

3.6

चीचीकूचीति वाशन्ति शारिका वृष्णिवेश्मसु ।
नोपशाम्यति शब्दस्य सदिवारात्रमेव हि

cīcīkūcīti vāśanti śārikā vṛṣṇiveśmasu |
nopaśāmyati śabdasya sadivārātrameva hi

3.7

अन्वकुर्वन्नुलूकानां सारसा विरुतं तथा ।
अजाः शिवानां विरुतमन्वकुर्वत भारत

anvakurvannulūkānāṃ sārasā virutaṃ tathā |
ajāḥ śivānāṃ virutamanvakurvata bhārata

3.8

पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः ।
वृष्ण्यन्धकानां गेहेषु कपोता व्यचरंस्तदा

pāṇḍurā raktapādāśca vihagāḥ kālacoditāḥ |
vṛṣṇyandhakānāṃ geheṣu kapotā vyacaraṃstadā

3.9

व्यजायन्त खरा गोषु करभाश्वतरीषु च ।
शुनीष्वपि बिडालाश्च मूषिका नकुलीषु च

vyajāyanta kharā goṣu karabhāśvatarīṣu ca |
śunīṣvapi biḍālāśca mūṣikā nakulīṣu ca

3.10

नापत्रपन्त पापानि कुर्वन्तो वृष्णयस्तदा ।
प्रार्दयन्ब्राह्मणांश्चापि पितॄन्देवांस्तथैव च

nāpatrapanta pāpāni kurvanto vṛṣṇayastadā |
prārdayanbrāhmaṇāṃścāpi pitṝndevāṃstathaiva ca

3.11

गुरूंश्चाप्यवमन्यन्ते न तु रामजनार्दनौ ।
पत्न्यः पतीनुच्चरन्ति पत्नीश्चक पतयस्तथा

gurūṃścāpyavamanyante na tu rāmajanārdanau |
patnyaḥ patīnuccaranti patnīścaka patayastathā

3.12

विभावसुः प्रज्वलितो वामं विपरिवर्तते ।
नीललोहितमञ्जिष्ठा विसृजन्नर्चिषः पृथक्

vibhāvasuḥ prajvalito vāmaṃ viparivartate |
nīlalohitamañjiṣṭhā visṛjannarciṣaḥ pṛthak

3.13

उदयास्तमये नित्यं पुर्यां तस्यां दिवाकरः ।
व्यदृश्यतासकृत्पुंभिः कबन्धैः परिवारितः

udayāstamaye nityaṃ puryāṃ tasyāṃ divākaraḥ |
vyadṛśyatāsakṛtpuṃbhiḥ kabandhaiḥ parivāritaḥ

3.14

महानसेषु सिद्धेषु संस्कृतेऽतीवि भारत ।
आहार्यमाणे कृमयो व्यदृश्यन्त सहस्रशः

mahānaseṣu siddheṣu saṃskṛte'tīvi bhārata |
āhāryamāṇe kṛmayo vyadṛśyanta sahasraśaḥ

3.15

पुण्याहे वाच्यमाने तु जपत्सु च महात्मसु ।
अभिधावन्तः श्रूयन्ते न चादृश्यत कश्चन

puṇyāhe vācyamāne tu japatsu ca mahātmasu |
abhidhāvantaḥ śrūyante na cādṛśyata kaścana

3.16

परस्परं च नक्षत्रं हन्यमानं पुनःपुनः ॥
ग्रहैरपश्यन्सर्वे ते नात्मनस्तु कथञ्चन

parasparaṃ ca nakṣatraṃ hanyamānaṃ punaḥpunaḥ ||
grahairapaśyansarve te nātmanastu kathañcana

3.17

नदन्तं पाञ्चिजन्यं च वृष्णन्धकनिवेशने ।
समन्तात्पर्यवाशन्त रासभा दारुणस्वराः

nadantaṃ pāñcijanyaṃ ca vṛṣṇandhakaniveśane |
samantātparyavāśanta rāsabhā dāruṇasvarāḥ

3.18

एवं पश्यन्हृषिकेशः संप्राप्तं कालपर्ययम् ।
त्रयोदश्याममावास्यां तान्दृष्ट्वा प्राब्रवीदिदम्

evaṃ paśyanhṛṣikeśaḥ saṃprāptaṃ kālaparyayam |
trayodaśyāmamāvāsyāṃ tāndṛṣṭvā prābravīdidam

3.19

चतुर्दशी पञ्चदशी कृतेयं राहुणा पुनः ।
प्राप्ते वै भारते युद्धे प्राप्ता चाद्य क्षंयाय नः

caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ |
prāpte vai bhārate yuddhe prāptā cādya kṣaṃyāya naḥ

3.20

विमृशन्नेव कालं तं परिचिन्त्य जनार्दनः ।
मेने प्राप्तं स षट्त्रिंशं वर्षं वै केशिसूदनः

vimṛśanneva kālaṃ taṃ paricintya janārdanaḥ |
mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ vai keśisūdanaḥ

3.21

पुत्रशोकाभिसंतप्ता गान्धारी हतबान्धवा ।
यदनुव्याजहारार्ता तदिदं समुपागमत्

putraśokābhisaṃtaptā gāndhārī hatabāndhavā |
yadanuvyājahārārtā tadidaṃ samupāgamat

3.22

इदं च तदनुप्राप्तमब्रवीद्यद्युधिष्ठिरः ।
पुरा व्यूढेष्वनीकेषु दृष्ट्वेत्पातान्सुदारुणान्

idaṃ ca tadanuprāptamabravīdyadyudhiṣṭhiraḥ |
purā vyūḍheṣvanīkeṣu dṛṣṭvetpātānsudāruṇān

3.23

इत्युक्त्वा वासुदेवस्तु चिकीर्षुः सत्यमेव तत् ।
आज्ञापयामास तदा तीर्थयात्रामरिंदमः

ityuktvā vāsudevastu cikīrṣuḥ satyameva tat |
ājñāpayāmāsa tadā tīrthayātrāmariṃdamaḥ

3.24

अघोषयन्त पुरुषास्तत्र केशवशासनात् ।
तीर्थयात्रा समुद्रे वः कार्येति पुरुषर्षभाः

aghoṣayanta puruṣāstatra keśavaśāsanāt |
tīrthayātrā samudre vaḥ kāryeti puruṣarṣabhāḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)