कर्ण पर्व

अध्याय 60: पाण्डव कौरवों की गजसेना का विनाश करते हैं

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षष्टितमोऽध्यायः ॥

30 श्लोक · 60 में से 101

इस अध्याय में क्या होता है

पाण्डव कौरवों की गजसेना का विनाश करते हैं

दुर्योधन के आदेश पर पूर्व और दक्षिण के गजयोद्धा, अङ्ग, वङ्ग, पुण्ड्र, मागध, ताम्रलिप्तक, मेकल, कोशल, मद्र, दशार्ण, निषध और कलिङ्ग, धृष्टद्युम्न पर टूटते हैं। धृष्टद्युम्न एक-एक हाथी को छह, आठ या दस बाण मारता है। नकुल, सहदेव, द्रौपदी के पुत्र, प्रभद्रक, सात्यकि, शिखण्डी और चेकितान उन्हें घेर लेते हैं। हाथी सूँड़ से मनुष्यों, घोड़ों और रथों को उठाकर पैरों से कुचलते हैं। सात्यकि अङ्गराज के हाथी और सवार को मारता है, सहदेव पुण्ड्र का हाथी गिराता है। नकुल अङ्ग राजकुमार के आठ सौ तोमर काटकर अर्धचन्द्र बाण से उसका सिर काट देता है। क्रुद्ध अङ्ग, मेकल, उत्कल और कलिङ्ग नकुल को घेरते हैं, पर सहदेव चौंसठ बाणों से आठ महागज गिरा देता है, और पाण्डव सेना को मथकर कर्ण की ओर बढ़ते हैं।

सञ्जय उवाच

60.1

हस्तिभिस्तु महामात्रास्तव पुत्रेण चोदिताः ।
धृष्टद्युम्नं घ्नतेत्याशु क्रुद्धाः पार्षतमभ्ययुः

hastibhistu mahāmātrāstava putreṇa coditāḥ |
dhṛṣṭadyumnaṃ ghnatetyāśu kruddhāḥ pārṣatamabhyayuḥ

60.2

प्राच्याश्च दाक्षिणात्याश्च प्रवरा गजयोधिनः ।
अङ्गा वङ्गाश्च पुण्ड्राश्च मागधास्ताम्रलिप्तकाः

prācyāśca dākṣiṇātyāśca pravarā gajayodhinaḥ |
aṅgā vaṅgāśca puṇḍrāśca māgadhāstāmraliptakāḥ

60.3

मेकलाः कोशला मद्रा दशार्णा निषधास्तथा ।
गजयुद्धेषु कुशलाः कलिङ्गैः सह भारत

mekalāḥ kośalā madrā daśārṇā niṣadhāstathā |
gajayuddheṣu kuśalāḥ kaliṅgaiḥ saha bhārata

60.4

शरतोमरनाराचैर्वृष्टिमन्त इवाम्बुदाः ।
सिषिचुस्ते ततः सर्वे पाञ्चालबलमाहवे

śaratomaranārācairvṛṣṭimanta ivāmbudāḥ |
siṣicuste tataḥ sarve pāñcālabalamāhave

60.5

तानभिद्रवतो नागान्मदवेगसमुद्धतान् ।
विपाठक्षुरनाराचैर्धृष्टद्युम्नो ह्यवीवृषत्

tānabhidravato nāgānmadavegasamuddhatān |
vipāṭhakṣuranārācairdhṛṣṭadyumno hyavīvṛṣat

60.6

एकैकं दशभिः ष़ड्भिरष्टाभिरपि पार्षतः ।
द्विरदानभिविव्याध क्षिप्रं गिरिनिभाञ्शरैः

ekaikaṃ daśabhiḥ ṣa़ḍbhiraṣṭābhirapi pārṣataḥ |
dviradānabhivivyādha kṣipraṃ girinibhāñśaraiḥ

60.7

प्रच्छाद्यमानं द्विरदैर्मेघैरिव दिवाकरम् ।
पर्ययुः पाण्डुपाञ्चाला नदन्तो ह्यात्तकार्मुकाः

pracchādyamānaṃ dviradairmeghairiva divākaram |
paryayuḥ pāṇḍupāñcālā nadanto hyāttakārmukāḥ

60.8

तान्नागानभिवर्षन्तो ज्यातलत्रविनादिनः ।
वीरनृत्यं प्रनृत्यन्तः शूरतालप्रचोदितैः ।
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः

tānnāgānabhivarṣanto jyātalatravinādinaḥ |
vīranṛtyaṃ pranṛtyantaḥ śūratālapracoditaiḥ |
nakulaḥ sahadevaśca draupadeyāḥ prabhadrakāḥ

60.9

सात्यकिश्च शिखण्डी च चेकितानश्च वीर्यवान् ।
समन्तात्सिषिचुर्वीरा मेघास्तोयैरिवाचलान्

sātyakiśca śikhaṇḍī ca cekitānaśca vīryavān |
samantātsiṣicurvīrā meghāstoyairivācalān

60.10

ते म्लेच्छैः प्रेषिता नागा नरानश्वान्रथानपि ।
हस्तैराक्षिप्य ममृदुः पद्भिश्चाप्यतिमन्यवः

te mlecchaiḥ preṣitā nāgā narānaśvānrathānapi |
hastairākṣipya mamṛduḥ padbhiścāpyatimanyavaḥ

60.11

बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः ।
विषाणलग्नाश्चाप्यन्ये परिपेतुर्विभीषणाः

bibhiduśca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ |
viṣāṇalagnāścāpyanye paripeturvibhīṣaṇāḥ

60.12

प्रमुखे वर्तमानं तु द्विपमङ्गस्य सात्यकिः ।
नाराचेनोग्रवेगेन भित्त्वा मर्माण्यताडयत्

pramukhe vartamānaṃ tu dvipamaṅgasya sātyakiḥ |
nārācenogravegena bhittvā marmāṇyatāḍayat

60.13

तस्यावर्जितकायस्य द्विरदादुत्पतिष्यतः ।
नाराचेनाहनद्वक्षः सात्यकिः सोऽपतद्भुवि

tasyāvarjitakāyasya dviradādutpatiṣyataḥ |
nārācenāhanadvakṣaḥ sātyakiḥ so'patadbhuvi

60.14

पुण्ड्रस्यापततो नागं चलन्तमिव पर्वतम् ।
सहदेवः प्रसन्नाग्रैर्नाराचैरहनत्त्रिभिः

puṇḍrasyāpatato nāgaṃ calantamiva parvatam |
sahadevaḥ prasannāgrairnārācairahanattribhiḥ

60.15

विपताकं वियन्तारं विवर्मध्वजजीवितम् ।
तं कृत्वा द्विरदं भूयः सहदेवोऽङ्गमभ्ययात्

vipatākaṃ viyantāraṃ vivarmadhvajajīvitam |
taṃ kṛtvā dviradaṃ bhūyaḥ sahadevo'ṅgamabhyayāt

60.16

सहदेवं तु नकुलो वारयित्वाङ्गमार्दयत् ।
नाराचैर्यमदण्डाभैस्त्रिभिर्नागं शतेन तम्

sahadevaṃ tu nakulo vārayitvāṅgamārdayat |
nārācairyamadaṇḍābhaistribhirnāgaṃ śatena tam

60.17

दिवाकरकप्रख्यानङ्गश्चिक्षेप तोमरान् ।
नकुलाय शतान्यष्टौ त्रिधैकैकं तु सोऽच्छिनत्

divākarakaprakhyānaṅgaścikṣepa tomarān |
nakulāya śatānyaṣṭau tridhaikaikaṃ tu so'cchinat

60.18

तथाऽर्धचन्द्रेण शिरस्तस्य चिच्छेद पाण्डवः ।
स पपात हतो म्लेच्छस्तेनैव सह दन्तिना

tathā'rdhacandreṇa śirastasya ciccheda pāṇḍavaḥ |
sa papāta hato mlecchastenaiva saha dantinā

60.19

अथाङ्गपुत्रे निहते हस्तिशिक्षाविशारदे ।
अङ्गाः क्रुद्धा महामात्रा नागैर्नकुलमभ्ययुः

athāṅgaputre nihate hastiśikṣāviśārade |
aṅgāḥ kruddhā mahāmātrā nāgairnakulamabhyayuḥ

60.20

चलत्पताकैः सुमुखैर्हेमकक्ष्यातनुच्छदैः ।
मिमर्दिषन्तस्त्वरिताः प्रदीप्तैरिव पर्वतैः

calatpatākaiḥ sumukhairhemakakṣyātanucchadaiḥ |
mimardiṣantastvaritāḥ pradīptairiva parvataiḥ

60.21

मेकलोत्कलकालिङ्गा निषधास्ताम्रलिप्तकाः ।
शरतोमरवर्षाणि विमुञ्चन्तो जिघांसवः

mekalotkalakāliṅgā niṣadhāstāmraliptakāḥ |
śaratomaravarṣāṇi vimuñcanto jighāṃsavaḥ

60.22

तैश्छाद्यमानं नकुलं निशाकरमिवाम्बुदैः ।
परिपेतुः सुसंरब्धाः पाण्डुपाञ्चालसात्यकाः

taiśchādyamānaṃ nakulaṃ niśākaramivāmbudaiḥ |
paripetuḥ susaṃrabdhāḥ pāṇḍupāñcālasātyakāḥ

60.23

ततस्तदभवद्युद्धं रथिनां हस्तिभिः सह ।
सृजतां शरवर्षाणि तोमरांश्च सहस्रशः

tatastadabhavadyuddhaṃ rathināṃ hastibhiḥ saha |
sṛjatāṃ śaravarṣāṇi tomarāṃśca sahasraśaḥ

60.24

नागानां प्रास्फुटन्कुम्भा मर्माणि च नखानि च ।
दन्ताश्चैवातिविद्धानां नाराचैर्हेमभूषणैः

nāgānāṃ prāsphuṭankumbhā marmāṇi ca nakhāni ca |
dantāścaivātividdhānāṃ nārācairhemabhūṣaṇaiḥ

60.25

तेषामष्टौ महानागांश्चतुःषष्ट्या सुतेजनैः ।
नाराचैः सहदेवस्तान्पातयामास सादिभिः

teṣāmaṣṭau mahānāgāṃścatuḥṣaṣṭyā sutejanaiḥ |
nārācaiḥ sahadevastānpātayāmāsa sādibhiḥ

60.26

अञ्जोगतिभिरायम्य प्रयत्नाद्धनुरुत्तमम् ।
नाराचैरहनन्नागान्नकुलः कुलनन्दनः

añjogatibhirāyamya prayatnāddhanuruttamam |
nārācairahanannāgānnakulaḥ kulanandanaḥ

60.27

ततः पाञ्चालशैनेयौ द्रौपदेयाः प्रभद्रकाः ।
शिखण्डी च महानागान्सिषिचुः शरवृष्टिभिः

tataḥ pāñcālaśaineyau draupadeyāḥ prabhadrakāḥ |
śikhaṇḍī ca mahānāgānsiṣicuḥ śaravṛṣṭibhiḥ

60.28

ते पाण्डुयोधाम्बुधरैः शत्रुद्विरदपर्वताः ।
बाणवर्षैर्हताः पेतुर्वज्रवर्षैरिवाचलाः

te pāṇḍuyodhāmbudharaiḥ śatrudviradaparvatāḥ |
bāṇavarṣairhatāḥ peturvajravarṣairivācalāḥ

60.29

एवं हत्वा तव गजांस्ते पाण्डुरथकुञ्जराः ।
द्रुतं सेनां च वर्षन्तो भिन्नकूलामिवापगाम्

evaṃ hatvā tava gajāṃste pāṇḍurathakuñjarāḥ |
drutaṃ senāṃ ca varṣanto bhinnakūlāmivāpagām

60.30

तां ते सेनां समालोड्य पाण्डुपुत्रस्य सैनिकाः ।
विक्षोभयित्वा च पुनः कर्णं समभिदुद्रुवुः

tāṃ te senāṃ samāloḍya pāṇḍuputrasya sainikāḥ |
vikṣobhayitvā ca punaḥ karṇaṃ samabhidudruvuḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)