कर्ण पर्व

अध्याय 59: सङ्कुल युद्ध में कर्ण पाञ्चालों का संहार करता है

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनषष्टितमोऽध्यायः ॥

34 श्लोक · 59 में से 101

इस अध्याय में क्या होता है

सङ्कुल युद्ध में कर्ण पाञ्चालों का संहार करता है

कर्ण और पाण्डवों का युद्ध फिर छिड़ता है। दोनों पक्ष धनुष, गदा, शक्ति, फरसे और भाले लेकर एक-दूसरे पर टूटते हैं, प्रत्यञ्चा की टङ्कार और पहियों की घरघराहट से आकाश और पृथ्वी भर जाते हैं। कर्ण पन्द्रह पाञ्चाल रथों को घोड़ों, सारथियों और ध्वजाओं सहित यमलोक भेज देता है। जब पाण्डव वीर उसे घेरते हैं तो वह उनकी सेना में ऐसे घुसता है जैसे गजराज कमलों भरे सरोवर में, सिर काटता है और एक-एक बाण से सवारों और रथियों को गिराता है। धृष्टद्युम्न, द्रौपदी के पुत्र, नकुल-सहदेव और सात्यकि उस पर दौड़ते हैं। शेष अध्याय सङ्कुल संहार का चित्र है: मनुष्य मनुष्यों को मारते हैं, हाथी और घोड़े एक-दूसरे पर गिरते हैं, मृतकों के मुख कुचले कमलों जैसे दिखते हैं।

सञ्जय उवाच

59.1

ततः प्रववृते भूयः सङ्ग्रामो राजसत्तम ।
कर्णस्य पाण्डवानां च यमराष्ट्रविवर्धनः

tataḥ pravavṛte bhūyaḥ saṅgrāmo rājasattama |
karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ

59.2

धनूंषि बाणान्परिघानसिपट्टसतोमरान् ।
मुसलानि भुशुण्डीश्च शक्तिरिष्टिपरश्वथान्

dhanūṃṣi bāṇānparighānasipaṭṭasatomarān |
musalāni bhuśuṇḍīśca śaktiriṣṭiparaśvathān

59.3

गदाः प्रासाञ्शितान्कुन्तान्भिंडिपालान्महाङ्कुशान् ।
प्रगृह्य क्षिप्रमापेतुः परस्परजिघांसया

gadāḥ prāsāñśitānkuntānbhiṃḍipālānmahāṅkuśān |
pragṛhya kṣipramāpetuḥ parasparajighāṃsayā

59.4

बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् ।
पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान्

bāṇajyātalaśabdena dyāṃ diśaḥ pradiśo viyat |
pṛthivīṃ nemighoṣeṇa nādayanto'bhyayuḥ parān

59.5

तेन शब्देन महता संहृष्टाश्चक्रुराहवम् ।
वीरा वीरैर्महाप्तोरकलहान्तं तितीर्षवः

tena śabdena mahatā saṃhṛṣṭāścakrurāhavam |
vīrā vīrairmahāptorakalahāntaṃ titīrṣavaḥ

59.6

ज्यातलत्रधनुःशब्दाञ्शस्त्राणां च निपात्यताम् ।
ताडितानां च पतता निनादांश्च पदातिनाम्

jyātalatradhanuḥśabdāñśastrāṇāṃ ca nipātyatām |
tāḍitānāṃ ca patatā ninādāṃśca padātinām

59.7

बाणशब्दांश्च विविधाञ्शूराणां चाभिगर्जताम् ।
श्रुत्वा गजा भृशं त्रेसुः पेतुर्मम्लुश्च सैनिकाः

bāṇaśabdāṃśca vividhāñśūrāṇāṃ cābhigarjatām |
śrutvā gajā bhṛśaṃ tresuḥ peturmamluśca sainikāḥ

59.8

तेषां निनदतां चैव शस्त्रवर्षं च मुञ्चताम् ।
बहूनाधिरथिर्वीरः प्रममाथेषुभिः परान्

teṣāṃ ninadatāṃ caiva śastravarṣaṃ ca muñcatām |
bahūnādhirathirvīraḥ pramamātheṣubhiḥ parān

59.9

पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च ।
साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम्

pañca pāñcālavīrāṇāṃ rathāndaśa ca pañca ca |
sāśvasūtadhvajānkarṇaḥ śarairninye yamakṣayam

59.10

योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे ।
शिक्षितास्तमभिद्रुत्य परिवव्रुः समन्ततः

yodhamukhyā mahāvīryāḥ pāṇḍūnāṃ karṇamāhave |
śikṣitāstamabhidrutya parivavruḥ samantataḥ

59.11

ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् ।
विजगाहाण्डजाकीर्णां पद्मिनीमिव यूथपः

tataḥ karṇo dviṣatsenāṃ śaravarṣairviloḍayan |
vijagāhāṇḍajākīrṇāṃ padminīmiva yūthapaḥ

59.12

द्विषत्सैन्यमवस्कन्द्य राधेयो धनुरुत्तमम् ।
विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत्

dviṣatsainyamavaskandya rādheyo dhanuruttamam |
vidhunvānaḥ śitairbāṇaiḥ śirāṃsyunmathya pātayat

59.13

हस्तिनः समहामात्रान्साश्वारोहान्हयानपि ।
रथिनोऽप्येकबाणेन भ्रमतश्चावपातयत्

hastinaḥ samahāmātrānsāśvārohānhayānapi |
rathino'pyekabāṇena bhramataścāvapātayat

59.14

वर्म वा चर्म वाऽश्रित्य निपातमपि देहिनः ।
विषेहुर्नास्य संस्पर्शं द्वितीयस्य पतत्त्रिणः

varma vā carma vā'śritya nipātamapi dehinaḥ |
viṣehurnāsya saṃsparśaṃ dvitīyasya patattriṇaḥ

59.15

वर्मयुक्तेषु देहेषु धनुषोऽस्यञ्शिताञ्शरान् ।
मौर्व्या तलत्रे न्यहनत्कशया वाजिनो यथा

varmayukteṣu deheṣu dhanuṣo'syañśitāñśarān |
maurvyā talatre nyahanatkaśayā vājino yathā

59.16

पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमागतान् ।
ममर्द तरसा कर्णः सिंहो मृगगणानिव

pāṇḍusṛñjayapāñcālāñśaragocaramāgatān |
mamarda tarasā karṇaḥ siṃho mṛgagaṇāniva

59.17

ततः पाञ्चालपुत्रश्च द्रौपदेयाश्च मारिष ।
यमौ च युयुधानश्च त्वरिताः कर्णमभ्ययुः

tataḥ pāñcālaputraśca draupadeyāśca māriṣa |
yamau ca yuyudhānaśca tvaritāḥ karṇamabhyayuḥ

59.18

तेषु व्यायच्छमानेषु कुरुपाञ्चालपाण्डुषु ।
प्रियानसून्रणे त्यक्त्वा योधा जघ्नुः परस्परम्

teṣu vyāyacchamāneṣu kurupāñcālapāṇḍuṣu |
priyānasūnraṇe tyaktvā yodhā jaghnuḥ parasparam

59.19

सुसन्नद्धाः कवचिनः सशिरस्त्राणभूषणाः ।
गदाभिर्मुसलैश्चान्ये परिघैश्च महाबालाः

susannaddhāḥ kavacinaḥ saśirastrāṇabhūṣaṇāḥ |
gadābhirmusalaiścānye parighaiśca mahābālāḥ

59.20

समभ्यधावन्त भृशं कालदण्डैरिवोद्यतैः ।
नर्दन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष

samabhyadhāvanta bhṛśaṃ kāladaṇḍairivodyataiḥ |
nardantaścāhvayantaśca pravalgantaśca māriṣa

59.21

ततो निजघ्नुरन्योन्यं पेतुश्चान्योन्यताडिताः ।
वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षमायुधाः

tato nijaghnuranyonyaṃ petuścānyonyatāḍitāḥ |
vamanto rudhiraṃ gātrairvimastiṣkekṣamāyudhāḥ

59.22

दन्तपूर्णैः सरुधिरैर्वक्रैर्दाडिमसन्निभैः ।
जीवन्त इव चाप्येके तस्थुः शस्त्रौघबृंहिताः

dantapūrṇaiḥ sarudhirairvakrairdāḍimasannibhaiḥ |
jīvanta iva cāpyeke tasthuḥ śastraughabṛṃhitāḥ

59.23

परश्वथैश्चाप्यपरे पट्टसैरसिभिस्तथा ।
शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः

paraśvathaiścāpyapare paṭṭasairasibhistathā |
śaktibhirbhiṇḍipālaiśca nakharaprāsatomaraiḥ

59.24

ततक्षुश्चिच्छिदुश्चान्ये बिभिदुश्चिक्षिपुस्तथा ।
सञ्चकर्तुश्च जघ्नुश्च राजन्योधा महारणे

tatakṣuścicchiduścānye bibhiduścikṣipustathā |
sañcakartuśca jaghnuśca rājanyodhā mahāraṇe

59.25

पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः ।
क्षरन्तः स्वरसं रक्तं प्रकृत्ताश्चन्दना इव

peturanyonyanihatā vyasavo rudhirokṣitāḥ |
kṣarantaḥ svarasaṃ raktaṃ prakṛttāścandanā iva

59.26

रथै रथा विनिहता हस्तिभिश्चापि हस्तिनः ।
नरैर्नरा हताः पेतुरश्वाश्चाश्वैः सहस्रशः

rathai rathā vinihatā hastibhiścāpi hastinaḥ |
narairnarā hatāḥ peturaśvāścāśvaiḥ sahasraśaḥ

59.27

ध्वजाः शिरांसि च्छिन्नाः पेतुर्महीतले ॥
वध्यतां दारुणाः शब्दाः पततां स्तनतामपि ।

dhvajāḥ śirāṃsi cchinnāḥ peturmahītale ||
vadhyatāṃ dāruṇāḥ śabdāḥ patatāṃ stanatāmapi |

59.28

क्षुरैर्भल्लार्धचन्द्रैश्च च्छिन्नाः पेतुर्महीतले ॥
नराश्वेभरथानां हिनराश्वेभरथैस्तथा

kṣurairbhallārdhacandraiśca cchinnāḥ peturmahītale ||
narāśvebharathānāṃ hinarāśvebharathaistathā

59.29

नरांश्च नागांश्च रथान्हयान्ममृदुराहवे

narāṃśca nāgāṃśca rathānhayānmamṛdurāhave

59.30

अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ।
सपताकाध्वजाः पेतुर्विशीर्णा इव पर्वताः

aśvārohairhatāḥ śūrāśchinnahastāśca dantinaḥ |
sapatākādhvajāḥ peturviśīrṇā iva parvatāḥ

59.31

पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ।
हताश्च हन्यमानाश्च पतिताश्चैव सर्वशः

pattibhiśca samāplutya dviradāḥ syandanāstathā |
hatāśca hanyamānāśca patitāścaiva sarvaśaḥ

59.32

अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ।
सादिभिः पत्तिसङ्घाश्च निहता युधि शेरते

aśvārohāḥ samāsādya tvaritāḥ pattibhirhatāḥ |
sādibhiḥ pattisaṅghāśca nihatā yudhi śerate

59.33

मृदितानीव पद्मानि प्रम्लाना इव च स्रजः ।
हतानां वदनान्यासन्गात्राणि च महाहवे

mṛditānīva padmāni pramlānā iva ca srajaḥ |
hatānāṃ vadanānyāsangātrāṇi ca mahāhave

59.34

रूपाण्यत्यर्थकान्तानि द्विरदाश्वनृणां नृप ।
समुन्नानीव वस्त्राणि ययुर्दुर्दुर्शतां पराम्

rūpāṇyatyarthakāntāni dviradāśvanṛṇāṃ nṛpa |
samunnānīva vastrāṇi yayurdurdurśatāṃ parām

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)