कर्ण पर्व

अध्याय 42: संशप्तकों का अर्जुन पर धावा, कर्ण की रक्तनदी

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विचत्वारिंशोऽध्यायः ॥

34 श्लोक · 42 में से 101

इस अध्याय में क्या होता है

संशप्तकों का अर्जुन पर धावा, कर्ण की रक्तनदी

धृतराष्ट्र सञ्जय से विस्तार से पूछते हैं कि संशप्तक अर्जुन से और पाण्डव कर्ण से कैसे भिड़े, क्योंकि पराक्रम सुनकर वे तृप्त नहीं होते। सञ्जय पाण्डव सेना के आगे देहधारी काल जैसे चमकते धृष्टद्युम्न का वर्णन करते हैं, जिन्हें द्रौपदी के पुत्र चन्द्रमा को तारों की तरह घेरे हैं। अर्जुन गाण्डीव टंकारते संशप्तकों पर टूटते हैं, और वे जीतने या मरने का प्रण लेकर बढ़ते हैं, पर उनकी लहर अर्जुन पर तट से टकराए समुद्र जैसी रुक जाती है। कर्ण पाञ्चाल सेना में घुसकर रक्त की भयानक नदी बहाते हैं, जिसकी लहरें बाण, हंस छत्र और पत्थर हड्डियाँ हैं। युद्ध देवासुर संग्राम जैसा हो जाता है।

धृतराष्ट्र उवाच

42.1

तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय ।
संशप्तकाः कथं पार्थं कथं कर्णं च पाण्डवाः

tathā vyūḍheṣvanīkeṣu saṃsakteṣu ca sañjaya |
saṃśaptakāḥ kathaṃ pārthaṃ kathaṃ karṇaṃ ca pāṇḍavāḥ

42.2

एतद्विस्तरशो युद्धं प्रब्रूहि कुशलो ह्यसि ।
न हि तृप्यामि वीराणां शृण्वानो युधि विक्रमम्

etadvistaraśo yuddhaṃ prabrūhi kuśalo hyasi |
na hi tṛpyāmi vīrāṇāṃ śṛṇvāno yudhi vikramam

सञ्जय उवाच

42.3

तत्संस्थिमथो दृष्ट्वा प्रत्यमित्रं महद्बलम् ।
प्रत्यव्यूहत्ततः कर्णो हितार्थं तनयस्य ते

tatsaṃsthimatho dṛṣṭvā pratyamitraṃ mahadbalam |
pratyavyūhattataḥ karṇo hitārthaṃ tanayasya te

42.4

तत्सादिनागकलिलं पदातिरथसङ्कुलम् ।
धृष्टद्युम्नमुखं घोरमशोभत महद्बलम्

tatsādināgakalilaṃ padātirathasaṅkulam |
dhṛṣṭadyumnamukhaṃ ghoramaśobhata mahadbalam

42.5

पारावतसवर्णाश्वश्चन्द्रसूर्यसमद्युतिः ।
स पार्षतो बभौ धन्वी कालो विग्रहवानिव

pārāvatasavarṇāśvaścandrasūryasamadyutiḥ |
sa pārṣato babhau dhanvī kālo vigrahavāniva

42.6

पार्षतं त्वभितस्तस्थुर्द्रौपदेया युयुत्सवः ।
सानुगा दीप्तवपुषश्चन्द्रं तारागणा इव

pārṣataṃ tvabhitastasthurdraupadeyā yuyutsavaḥ |
sānugā dīptavapuṣaścandraṃ tārāgaṇā iva

42.7

अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे ।
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः

atha vyūḍheṣvanīkeṣu prekṣya saṃśaptakānraṇe |
kruddho'rjuno'bhidudrāva vyākṣipangāṇḍivaṃ dhanuḥ

42.8

अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः ।
विजये धृतसङ्कल्पा मृत्युं कृत्वानिवर्तनम्

atha saṃśaptakāḥ pārthamabhyadhāvanvadhaiṣiṇaḥ |
vijaye dhṛtasaṅkalpā mṛtyuṃ kṛtvānivartanam

42.9

तदश्वसङ्घबहुलं पत्तिनागरथाकुलम् ।
उदीर्यमाणं संरब्धं धनञ्जयमभिद्रवत्

tadaśvasaṅghabahulaṃ pattināgarathākulam |
udīryamāṇaṃ saṃrabdhaṃ dhanañjayamabhidravat

42.10

तदुद्यतं महत्सैन्यं सागरौघसमं जवे ।
पार्थवेलां समासाद्य विष्ठितं समदृश्यत

tadudyataṃ mahatsainyaṃ sāgaraughasamaṃ jave |
pārthavelāṃ samāsādya viṣṭhitaṃ samadṛśyata

42.11

मृद्गन्तं शवर्षौघैर्द्रुतमर्जुनमार्दयत्

mṛdgantaṃ śavarṣaughairdrutamarjunamārdayat

42.12

स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना ।
तस्यैव तु यथा राजन्निवातकवचैः सह

sa samprahārastumulasteṣāmāsītkirīṭinā |
tasyaiva tu yathā rājannivātakavacaiḥ saha

42.13

रथानश्वान्ध्वजान्नागान्पत्तीन्गजगतानपि ।
इषून्धनूंषि खङ्गांश्च चक्राणि च परश्वथान्

rathānaśvāndhvajānnāgānpattīngajagatānapi |
iṣūndhanūṃṣi khaṅgāṃśca cakrāṇi ca paraśvathān

42.14

सायुधानुद्यतान्बाहून्विविधान्यायुधानि च ।
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः

sāyudhānudyatānbāhūnvividhānyāyudhāni ca |
ciccheda dviṣatāṃ pārthaḥ śirāṃsi ca sahasraśaḥ

42.15

तस्मिन्सैन्यमहावर्ते पातालतलसन्निभे ।
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा

tasminsainyamahāvarte pātālatalasannibhe |
nimagnaṃ taṃ rathaṃ matvā neduḥ saṃśaptakā mudā

42.16

स पुरस्तादरीन्हत्वा पुनरुत्तरतोऽवधीत् ।
दक्षिणेन च पश्चाच्च क्रुद्धो रुद्रः पशूनिव

sa purastādarīnhatvā punaruttarato'vadhīt |
dakṣiṇena ca paścācca kruddho rudraḥ paśūniva

42.17

अथ पाञ्चालचेदीनां सृढ्जयानां च मारिष ।
त्वदीयैः सह सङ्ग्राम आसीत्परमदारुणः

atha pāñcālacedīnāṃ sṛḍhjayānāṃ ca māriṣa |
tvadīyaiḥ saha saṅgrāma āsītparamadāruṇaḥ

42.18

कृपश्च कृतवर्मा च शकुनिश्चापि सौबलः ।
हृष्टसेनाः सुसंरब्धा रथानीकप्रहारिणः

kṛpaśca kṛtavarmā ca śakuniścāpi saubalaḥ |
hṛṣṭasenāḥ susaṃrabdhā rathānīkaprahāriṇaḥ

42.19

कोसलैः काश्यमत्स्यैश्च कारूशैः केकयैरपि ।
शूरसेनैः शूरवरैर्युयुधुर्युद्धदुर्मदाः

kosalaiḥ kāśyamatsyaiśca kārūśaiḥ kekayairapi |
śūrasenaiḥ śūravarairyuyudhuryuddhadurmadāḥ

42.20

तेषामन्तकरं युद्धं देहपाप्मविनाशनम् ।
क्षत्रविट्‌शूद्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम्

teṣāmantakaraṃ yuddhaṃ dehapāpmavināśanam |
kṣatraviṭ‌śūdravīrāṇāṃ dharmyaṃ svargyaṃ yaśaskaram

42.21

दुर्योधनोऽथ सहितो भ्रातृभिर्भरतर्षभ ।
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः

duryodhano'tha sahito bhrātṛbhirbharatarṣabha |
guptaḥ kurupravīraiśca madrāṇāṃ ca mahārathaiḥ

42.22

पाण्डवैः सह पाञ्चालैश्चेदिभिः सात्यकेन च ।
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालयत्

pāṇḍavaiḥ saha pāñcālaiścedibhiḥ sātyakena ca |
yudhyamānaṃ raṇe karṇaṃ kuruvīro'bhyapālayat

42.23

कर्णोऽपि निशितैर्बाणैर्विनिहत्य महाचमूम् ।
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडयत्

karṇo'pi niśitairbāṇairvinihatya mahācamūm |
pramṛdya ca rathaśreṣṭhānyudhiṣṭhiramapīḍayat

42.24

विपत्रायुधदेहासून्कृत्वा शत्रून्सहस्रशः ।
युक्त्वा स्वर्गयशोभ्यां च स्वेभ्यो मुदमुदावहत्

vipatrāyudhadehāsūnkṛtvā śatrūnsahasraśaḥ |
yuktvā svargayaśobhyāṃ ca svebhyo mudamudāvahat

42.25

तद्विगाह्य महानीकं सूतपुत्रो महारथः ।
नदीं प्रवर्तयामास शोणितौघतरङ्गिणीम्

tadvigāhya mahānīkaṃ sūtaputro mahārathaḥ |
nadīṃ pravartayāmāsa śoṇitaughataraṅgiṇīm

42.26

शोणितोदां क्षुण्णमत्स्थां नागनक्रदुरत्ययाम् ।
मांलमज्जाकर्दमिनीं चक्रकूर्ममहोडुपाम्

śoṇitodāṃ kṣuṇṇamatsthāṃ nāganakraduratyayām |
māṃlamajjākardaminīṃ cakrakūrmamahoḍupām

42.27

पातितैर्मेघसङ्काशैस्तत्रतत्र महाद्विपैः ।
अशनीभिरिव ध्वस्ता नदी राजन्विराजते

pātitairmeghasaṅkāśaistatratatra mahādvipaiḥ |
aśanībhiriva dhvastā nadī rājanvirājate

42.28

तां शरोर्मिमहावर्तां छत्रहंससमाकुलाम् ।
तनुत्रोष्णीषसङ्घाटामस्थिपाषाणसङ्कुलाम्

tāṃ śarormimahāvartāṃ chatrahaṃsasamākulām |
tanutroṣṇīṣasaṅghāṭāmasthipāṣāṇasaṅkulām

42.29

अपारामनपारां च शङ्खदुन्दुभिघोषिणीम् ।
रौद्रां नदीं महाराज रजसा सर्वतोवृताम्

apārāmanapārāṃ ca śaṅkhadundubhighoṣiṇīm |
raudrāṃ nadīṃ mahārāja rajasā sarvatovṛtām

42.30

अतितीक्ष्णां नराकीर्णां नदीमन्तकगामिनीम् ।
समं च विषमं चैव समायान्तीं महाभयाम्

atitīkṣṇāṃ narākīrṇāṃ nadīmantakagāminīm |
samaṃ ca viṣamaṃ caiva samāyāntīṃ mahābhayām

42.31

आकुलाश्चात्र सीदन्ति नराः शोणितकर्दमे ।
नरैरभिपरिक्षिप्ता यथा राजन्महाद्रुमाः

ākulāścātra sīdanti narāḥ śoṇitakardame |
narairabhiparikṣiptā yathā rājanmahādrumāḥ

42.32

ततस्ते तत्रतत्रैव प्रचरन्तो महानदीम् ।
विचेरुः सर्वतो योधा नौवारणमहारथैः

tataste tatratatraiva pracaranto mahānadīm |
viceruḥ sarvato yodhā nauvāraṇamahārathaiḥ

42.33

शोणितेन समं राजन्कृतमासीत्समन्ततः ।
नदीवेगैर्यथा भूमिस्तद्वदासीद्विशापते

śoṇitena samaṃ rājankṛtamāsītsamantataḥ |
nadīvegairyathā bhūmistadvadāsīdviśāpate

42.34

एवं भारत सङ्ग्रामो नरवाजिगजक्षयः ।
कुरूणां सृञ्जयानां च देवासुरसमोऽभवत्

evaṃ bhārata saṅgrāmo naravājigajakṣayaḥ |
kurūṇāṃ sṛñjayānāṃ ca devāsurasamo'bhavat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)