द्रोण पर्व

अध्याय 62: युवनाश्व के पुत्र मान्धाता

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये द्विषष्टितमोऽध्यायः ॥

20 श्लोक · 62 में से 203

इस अध्याय में क्या होता है

युवनाश्व के पुत्र मान्धाता

नारद युवनाश्व के पुत्र मान्धाता की कथा कहते हैं। आखेट में प्यासे राजा एक यज्ञ में पहुँचे और अभिमन्त्रित घी पी गए, जिससे उनके उदर में गर्भ आया; अश्विनीकुमारों ने बालक को उनकी कोख से निकाला। पिता की गोद में तेजस्वी शिशु को देखकर देवता पूछने लगे कि इसे कौन दूध पिलाएगा। इन्द्र बोले, यह मुझे पिएगा, और अपनी उँगली दी, जिससे दूध और घी बहने लगा; इसी से नाम मान्धाता पड़ा। बारह दिन में वह बारह वर्ष के बालक-सा हो गया और एक ही दिन में पृथ्वी जीत ली, अनेक राजाओं को हराया। सूर्योदय से सूर्यास्त तक की भूमि उसका क्षेत्र कहलाई। सौ अश्वमेध और सौ राजसूय करके उसने सोने की मछलियाँ, अन्न के पर्वत और सारी पृथ्वी ब्राह्मणों को दी। फिर टेक आती है।

नारद उवाच

62.1

मान्धतारं यौवनाश्वं मृतं सृञ्जय शुश्रुम ।
यं देवावश्विनौ गर्भे पितुः पार्श्वे चकर्षतुः

māndhatāraṃ yauvanāśvaṃ mṛtaṃ sṛñjaya śuśruma |
yaṃ devāvaśvinau garbhe pituḥ pārśve cakarṣatuḥ

62.2

मृगयां विचरन्राजा तृषितः क्लान्तवाहनः ।
धूमं दृष्ट्वाऽगमत्सत्रं पृषदाज्यमवाप सः

mṛgayāṃ vicaranrājā tṛṣitaḥ klāntavāhanaḥ |
dhūmaṃ dṛṣṭvā'gamatsatraṃ pṛṣadājyamavāpa saḥ

62.3

तं दृष्ट्वा युवनाश्वस्य जठरे रविसन्निभम् ।
गर्भं निरूहतुर्देवावश्विनौ भिषजां वरौ

taṃ dṛṣṭvā yuvanāśvasya jaṭhare ravisannibham |
garbhaṃ nirūhaturdevāvaśvinau bhiṣajāṃ varau

62.4

तं दृष्ट्वा पितुरुत्सङ्गे शयानं देववर्चसम् ।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै

taṃ dṛṣṭvā piturutsaṅge śayānaṃ devavarcasam |
anyonyamabruvandevāḥ kamayaṃ dhāsyatīti vai

62.5

मामेवायं धयत्वङ्ग इति ह स्माह वासवः ।
ततोङ्गुलिभ्यो हीन्द्रस्य प्रादुरासीत्पयोऽमृतम्

māmevāyaṃ dhayatvaṅga iti ha smāha vāsavaḥ |
tatoṅgulibhyo hīndrasya prādurāsītpayo'mṛtam

62.6

मां धास्यतीति कारण्याद्यदिन्द्रो ह्यन्वकम्पयत् ।
तस्मात्तु मान्धातेत्येवं नाम तस्याद्भुतं कृतम्

māṃ dhāsyatīti kāraṇyādyadindro hyanvakampayat |
tasmāttu māndhātetyevaṃ nāma tasyādbhutaṃ kṛtam

62.7

ततस्तु धारां पयसो घृतस्य च महात्मनः ।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत्

tatastu dhārāṃ payaso ghṛtasya ca mahātmanaḥ |
tasyāsye yauvanāśvasya pāṇirindrasya cāsravat

62.8

अपिबत्पाणिमिन्द्रस्य स चाप्यह्गाऽभ्यवर्धत ।
सोऽभवद्द्वादशसमो द्वादशाहेन वीर्यवान्

apibatpāṇimindrasya sa cāpyahgā'bhyavardhata |
so'bhavaddvādaśasamo dvādaśāhena vīryavān

62.9

इमां च पृथिवीं कृत्स्नामेकाह्ना स व्यजीजयत् ।
धर्मात्मा धृतिमान्वीरः सत्यसन्धो जितेन्द्रियः

imāṃ ca pṛthivīṃ kṛtsnāmekāhnā sa vyajījayat |
dharmātmā dhṛtimānvīraḥ satyasandho jitendriyaḥ

62.10

जनमेजयं सुधन्वानं गयं पूरुं बृहद्रथम् ।
असितं च नृगं चैव मान्धाता मानवोऽजयत्

janamejayaṃ sudhanvānaṃ gayaṃ pūruṃ bṛhadratham |
asitaṃ ca nṛgaṃ caiva māndhātā mānavo'jayat

62.11

उदेति च यतः सूर्यो यत्र च प्रतितिष्ठति ।
तत्सर्वं यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते

udeti ca yataḥ sūryo yatra ca pratitiṣṭhati |
tatsarvaṃ yauvanāśvasya māndhātuḥ kṣetramucyate

62.12

सोऽश्वमेधशतैरिष्ट्वा राजसूयशतेन च ।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशाम्पते

so'śvamedhaśatairiṣṭvā rājasūyaśatena ca |
adadadrohitānmatsyānbrāhmaṇebhyo viśāmpate

62.13

हैरण्यान्योजनोत्सेधानायताञ्शतयोजनम् ।
बहुप्रकारान्सुस्वादून्भक्ष्यभोज्यान्नपर्वतान्

hairaṇyānyojanotsedhānāyatāñśatayojanam |
bahuprakārānsusvādūnbhakṣyabhojyānnaparvatān

62.14

अतिरिक्तं ब्राह्मणेभ्यो भुञ्जानो हीयते जनः

atiriktaṃ brāhmaṇebhyo bhuñjāno hīyate janaḥ

62.15

भक्ष्यान्नपाननिचयाः शुशुभुस्त्वन्नपर्वताः ।
घृतहदाः सूपपङ्का दधिफेनां गुडोदकाः

bhakṣyānnapānanicayāḥ śuśubhustvannaparvatāḥ |
ghṛtahadāḥ sūpapaṅkā dadhiphenāṃ guḍodakāḥ

62.16

रुरुधुः पर्वतान्नद्यो मधुक्षीरवहाः शुभाः ।
देवासुरा नरा यक्षा गन्धर्वोरगपक्षिणः

rurudhuḥ parvatānnadyo madhukṣīravahāḥ śubhāḥ |
devāsurā narā yakṣā gandharvoragapakṣiṇaḥ

62.17

विप्रास्तत्रागताश्चासन्वेदवेदाङ्गपारगाः ।
ब्राह्मणा ऋषयश्चापि नासंस्तत्राविपश्चितः

viprāstatrāgatāścāsanvedavedāṅgapāragāḥ |
brāhmaṇā ṛṣayaścāpi nāsaṃstatrāvipaścitaḥ

62.18

समुद्रान्तां वसुमतीं वसुपूर्णां तु सर्वतः ।
स तां ब्राह्मणसात्कृत्वा जगाम स्वान्गृहान्प्रति

samudrāntāṃ vasumatīṃ vasupūrṇāṃ tu sarvataḥ |
sa tāṃ brāhmaṇasātkṛtvā jagāma svāngṛhānprati

62.19

राजाऽपि विविधैरिष्ट्वा यज्ञैर्विविधदक्षिणैः ।
गतः पुण्यकृतां लोकान्व्याप्य स्वयशसा दिशः

rājā'pi vividhairiṣṭvā yajñairvividhadakṣiṇaiḥ |
gataḥ puṇyakṛtāṃ lokānvyāpya svayaśasā diśaḥ

62.20

स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्

sa cenmamāra sṛñjaya caturbhadratarastvayā |
putrātpuṇyatarastubhyaṃ mā putramanutapyathāḥ |
ayajvānamadakṣiṇyamabhi śvaityetyudāharat

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)