तथा प्रविष्टं तरुणं सौभद्रमपराजितम् ।
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपराजितम्
tathā praviṣṭaṃ taruṇaṃ saubhadramaparājitam |
kulānurūpaṃ kurvāṇaṃ saṅgrāmeṣvaparājitam
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रोयदशदिवसयुद्धे सप्तचत्वारिंशोऽध्यायः ॥
24 श्लोक · 47 में से 203
धृतराष्ट्र पूछते हैं कि तीन वर्ष के घोड़ों पर मानो आकाश में उड़ते उस युवा वीर को किसने रोका। सञ्जय बताते हैं कि अभिमन्यु ने सब राजाओं को पीछे हटा दिया, तब द्रोण, कृप, कर्ण, अश्वत्थामा, बृहद्बल और कृतवर्मा ने ताड़ जैसे ऊँचे धनुष तानकर उन्हें घेर लिया। उन्होंने सबको उत्तर दिया: द्रोण को पचास, बृहद्बल को बीस, कृतवर्मा को अस्सी और कृप को साठ बाण, और कर्ण के कान में कर्णी बाण। धृतराष्ट्र के पुत्रों के सामने उन्होंने वीर वृन्दारक को मारा। उन्होंने अश्वत्थामा को तिहत्तर बाणों से बींधा, जबकि बाकी महारथी उन पर बाण बरसाते रहे। कोसलराज बृहद्बल ने उनकी छाती में बाण मारा। अभिमन्यु ने उसके घोड़े, ध्वज, धनुष और सारथि गिराये, फिर एक बाण से उसका हृदय भेद दिया।
धृतराष्ट्र उवाच
तथा प्रविष्टं तरुणं सौभद्रमपराजितम् ।
कुलानुरूपं कुर्वाणं सङ्ग्रामेष्वपराजितम्
tathā praviṣṭaṃ taruṇaṃ saubhadramaparājitam |
kulānurūpaṃ kurvāṇaṃ saṅgrāmeṣvaparājitam
आजानेयैः सुबलिभिर्यान्तमश्वैस्त्रिहायनैः ।
प्लवमानमिवाकाशे के शूराः समवारयन्
ājāneyaiḥ subalibhiryāntamaśvaistrihāyanaiḥ |
plavamānamivākāśe ke śūrāḥ samavārayan
सञ्जय उवाच
अभिमन्युः प्रविश्यैतांस्तावकान्निशितैः शरैः ।
अकरोत्पार्थिवान्सर्वान्विमुखान्पाण्डुनन्दनः
abhimanyuḥ praviśyaitāṃstāvakānniśitaiḥ śaraiḥ |
akarotpārthivānsarvānvimukhānpāṇḍunandanaḥ
तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः ।
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्
taṃ tu droṇaḥ kṛpaḥ karṇo drauṇiśca sabṛhadbalaḥ |
kṛtavarmā ca hārdikyaḥ ṣaḍrathāḥ paryavārayan
दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम् ।
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्
dṛṣṭvā tu saindhave bhāramatimātraṃ samāhitam |
sainyaṃ tava mahārāja yudhiṣṭhiramupādravat
सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः ।
तालमात्राणि चापानि विकर्षन्तो महाबलाः
saubhadramitare vīramabhyavarṣañśarāmbubhiḥ |
tālamātrāṇi cāpāni vikarṣanto mahābalāḥ
तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान् ।
व्यदृष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा
tāṃstu sarvānmaheṣvāsānsarvavidyāsu niṣṭhitān |
vyadṛṣṭambhayadraṇe bāṇaiḥ saubhadraḥ paravīrahā
द्रोणं पञ्चाशताविध्यद्विंशत्या च बृहद्बलम् ।
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः
droṇaṃ pañcāśatāvidhyadviṃśatyā ca bṛhadbalam |
aśītyā kṛtavarmāṇaṃ kṛpaṃ ṣaṣṭyā śilīmukhaiḥ
रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः ।
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः
rukmapuṅkhairmahāvegairākarṇasamacoditaiḥ |
avidhyaddaśabhirbāṇairaśvatthāmānamārjuniḥ
कर्णं च कर्णिना कर्णे पीतेन च शितेन च ।
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा
karṇaṃ ca karṇinā karṇe pītena ca śitena ca |
phālgunirdviṣatāṃ madhye vivyādha parameṣuṇā
पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी ।
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
pātayitvā kṛpasyāśvāṃstathobhau pārṣṇisārathī |
athainaṃ daśabhirbāṇaiḥ pratyavidhyatstanāntare
ततो बृन्दारकं वीरं कुरूणां कीर्तिवर्धनम् ।
पुत्राणां तव वीराणां पश्यतामवधीद्बली
tato bṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam |
putrāṇāṃ tava vīrāṇāṃ paśyatāmavadhīdbalī
तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ।
वरंवरममित्राणामारुजन्तमभीतवत्
taṃ drauṇiḥ pañcaviṃśatyā kṣudrakāṇāṃ samārpayat |
varaṃvaramamitrāṇāmārujantamabhītavat
स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष ।
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः
sa tu bāṇaiḥ śitaistūrṇaṃ pratyavidhyata māriṣa |
paśyatāṃ dhārtarāṣṭrāṇāmaśvatthāmānamārjuniḥ
षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः ।
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्
ṣaṣṭyā śarāṇāṃ taṃ drauṇistigmadhāraiḥ sutejanaiḥ |
ugrairnākampayadviddhvā mainākamiva parvatam
स तु द्रौणिं त्रिसप्तत्या हेमपुङ्घैरजिह्मगैः ।
प्रत्यविध्यन्महातेजा बलवानपकारिणम्
sa tu drauṇiṃ trisaptatyā hemapuṅghairajihmagaiḥ |
pratyavidhyanmahātejā balavānapakāriṇam
तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत् ।
अश्वत्थामा तथाऽष्टौ च परीप्सन्पितरं रणे
tasmindroṇo bāṇaśataṃ putragṛddhī nyapātayat |
aśvatthāmā tathā'ṣṭau ca parīpsanpitaraṃ raṇe
कर्णो द्वाविंशतिं भल्लान्कृतवर्मा च विंशतिम् ।
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश
karṇo dvāviṃśatiṃ bhallānkṛtavarmā ca viṃśatim |
bṛhadbalastu pañcāśatkṛpaḥ śāradvato daśa
तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः ।
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः
tāṃstu pratyavadhītsarvāndaśabhirdaśabhiḥ śaraiḥ |
tairardyamānaḥ saubhadraḥ sarvato niśitaiḥ śaraiḥ
तं कोसलानामधिपः कर्णिनाऽताडयद्धृदि ।
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ
taṃ kosalānāmadhipaḥ karṇinā'tāḍayaddhṛdi |
sa tasyāśvāndhvajaṃ cāpaṃ sūtaṃ cāpātayatkṣitau
अथ कोसलराजस्तु विरथः खङ्ग्रचर्मधृत् ।
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्
atha kosalarājastu virathaḥ khaṅgracarmadhṛt |
iyeṣa phālguneḥ kāyācchiro hartuṃ sakuṇḍalam
स कोसलानामधिपं राजपुत्रं बृहद्बलम् ।
हृदि विव्याध वाणेन स भिन्नहृदयोऽपतत्
sa kosalānāmadhipaṃ rājaputraṃ bṛhadbalam |
hṛdi vivyādha vāṇena sa bhinnahṛdayo'patat
बभञ्ज च सहस्राणि दश राज्ञां महात्मनाम् ।
सृजतामशिवा वाचः खङ्गकार्मुकधारिणाम्
babhañja ca sahasrāṇi daśa rājñāṃ mahātmanām |
sṛjatāmaśivā vācaḥ khaṅgakārmukadhāriṇām
तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे ।
व्यष्टम्भयन्महेष्वासो योधांस्तव शराम्बुभिः
tathā bṛhadbalaṃ hatvā saubhadro vyacaradraṇe |
vyaṣṭambhayanmaheṣvāso yodhāṃstava śarāmbubhiḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)