द्रोण पर्व

अध्याय 35: युधिष्ठिर अभिमन्यु से व्यूह तोड़ने को कहते हैं

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोधशदिवसयुद्धे पञ्चत्रिंशोऽध्यायः ॥

32 श्लोक · 35 में से 203

इस अध्याय में क्या होता है

युधिष्ठिर अभिमन्यु से व्यूह तोड़ने को कहते हैं

भीम के नेतृत्व में अभिमन्यु, सात्यकि, धृष्टद्युम्न, द्रौपदी के पुत्र, केकय और सृञ्जय द्रोण से रक्षित व्यूह पर टूटते हैं। द्रोण सबको बाणों से रोक देते हैं। द्रोण को रोकने का उपाय सोचते हुए युधिष्ठिर अभिमन्यु से कहते हैं कि इस व्यूह को तुम, अर्जुन, श्रीकृष्ण या प्रद्युम्न ही तोड़ सकते हो, ऐसा करो कि लौटकर अर्जुन हमें दोष न दें। अभिमन्यु कहते हैं कि पिता ने मुझे व्यूह में घुसना सिखाया है, पर संकट आने पर निकलना नहीं। युधिष्ठिर और भीम वचन देते हैं कि धृष्टद्युम्न, सात्यकि और सारी सेना के साथ हम तुम्हारे पीछे उसी द्वार से आयेंगे। अभिमन्यु अर्जुन और सुभद्रा के योग्य लड़ने की प्रतिज्ञा कर सारथि सुमित्र से द्रोण की ओर रथ हाँकने को कहते हैं।

सञ्जय उवाच

35.1

तदनीकमनाधृष्टं भारद्वाजेन रक्षितम् ।
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः

tadanīkamanādhṛṣṭaṃ bhāradvājena rakṣitam |
pārthāḥ samabhyavartanta bhīmasenapurogamāḥ

35.2

सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः ।
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः

sātyakiścekitānaśca dhṛṣṭadyumnaśca pārṣataḥ |
kuntibhojaśca vikrānto drupadaśca mahārathaḥ

35.3

आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् ।
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः

ārjuniḥ kṣatradharmā ca bṛhatkṣatraśca vīryavān |
cedipo dhṛṣṭaketuśca mādrīputrau ghaṭotkacaḥ

35.4

युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः ।
उतक्तमौजाश्च दुर्धर्षो विराटश्च महारथः

yudhāmanyuśca vikrāntaḥ śikhaṇḍī cāparājitaḥ |
utaktamaujāśca durdharṣo virāṭaśca mahārathaḥ

35.5

द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् ।
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः

draupadeyāśca saṃrabdhāḥ śaiśupāliśca vīryavān |
kekayāśca mahāvīryāḥ sṛñjayāśca sahasraśaḥ

35.6

एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः ।
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः

ete cānye ca sagaṇāḥ kṛtāstrā yuddhadurmadāḥ |
samabhyadhāvansahasā bhāradvājaṃ yuyutsavaḥ

35.7

समीपे वर्तमानांस्तान्भारद्वाजोऽतिवीर्यवान् ।
असम्भ्रान्तः शरौघेण महता समवारयत्

samīpe vartamānāṃstānbhāradvājo'tivīryavān |
asambhrāntaḥ śaraugheṇa mahatā samavārayat

35.8

महौघः सलिलस्येव गिरिमासाद्य दुर्भिदम् ।
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः

mahaughaḥ salilasyeva girimāsādya durbhidam |
droṇaṃ te nābhyavartanta velāmiva jalāśayāḥ

35.9

पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः ।
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः

pīḍyamānāḥ śarai rājandroṇacāpaviniḥsṛtaiḥ |
na śekuḥ pramukhe sthātuṃ bhāradvājasya pāṇḍavāḥ

35.10

तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् ।
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह

tadadbhutamapaśyāma droṇasya bhujayorbalam |
yadenaṃ nābhyavartanta pāñcālāḥ sṛñjayaiḥ saha

35.11

तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः ।
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्

tamāyāntamabhikruddhaṃ droṇaṃ dṛṣṭvā yudhiṣṭhiraḥ |
bahudhā cintayāmāsa droṇasya prativāraṇam

35.12

अशक्यं तु तमन्येन द्रोणं मत्त्वा युधिष्ठिरः ।
अविषह्यं गुर भारं सौभद्रे समवासृजत्

aśakyaṃ tu tamanyena droṇaṃ mattvā yudhiṣṭhiraḥ |
aviṣahyaṃ gura bhāraṃ saubhadre samavāsṛjat

35.13

वासुदेवादनवरं फल्गुनाच्चामितौजसम् ।
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः

vāsudevādanavaraṃ phalgunāccāmitaujasam |
abravītparavīraghnamabhimanyumidaṃ vacaḥ

युधिष्ठिर उवाच

35.14

एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु ।
द्रोणानीकस्य न वयं विद्मो भेदं कथञ्चन

etya no nārjuno garhedyathā tāta tathā kuru |
droṇānīkasya na vayaṃ vidmo bhedaṃ kathañcana

35.15

त्वं वाऽर्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा ।
द्रोणानीकं महाबाहो पञ्चमो नोपपद्यते

tvaṃ vā'rjuno vā kṛṣṇo vā bhindyātpradyumna eva vā |
droṇānīkaṃ mahābāho pañcamo nopapadyate

35.16

अभिमन्यो वरं तात याचे त्वां दातुमर्हसि ।
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः

abhimanyo varaṃ tāta yāce tvāṃ dātumarhasi |
pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ

35.17

धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् ।
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय

dhanañjayo hi nastāta garhayedetya saṃyugāt |
kṣipramastraṃ samādāya droṇānīkaṃ viśātaya

अभिमन्युरुवाच

35.18

द्रोणस्य दृढमत्युग्रमनीकप्रवरं युधि ।
पितॄणां जयमाकाङ्क्षन्नवगाहेऽविलम्बितम्

droṇasya dṛḍhamatyugramanīkapravaraṃ yudhi |
pitṝṇāṃ jayamākāṅkṣannavagāhe'vilambitam

35.19

उपदिष्टो हि मे पित्रा योगोऽनीकविशातने ।
नोत्सहे हि विनिर्गन्तुमहं कस्याञ्चिदापदि

upadiṣṭo hi me pitrā yogo'nīkaviśātane |
notsahe hi vinirgantumahaṃ kasyāñcidāpadi

युधिष्ठिर उवाच

35.20

भिन्ध्यनीकं युधांश्चेष्ठ द्वारं सञ्जनयस्व नः ।
वयं त्वाऽनुगमिष्यामो येन त्वं तात यास्यसि

bhindhyanīkaṃ yudhāṃśceṣṭha dvāraṃ sañjanayasva naḥ |
vayaṃ tvā'nugamiṣyāmo yena tvaṃ tāta yāsyasi

35.21

धनञ्जयसमं युद्धे त्वां वयं तात संयुते ।
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः

dhanañjayasamaṃ yuddhe tvāṃ vayaṃ tāta saṃyute |
praṇidhāyānuyāsyāmo rakṣantaḥ sarvatomukhāḥ

भीम उवाच

35.22

अहं त्वाऽनुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः ।
पाञ्चलाः केकया मात्स्यास्तथा सर्वे प्रभद्रकाः

ahaṃ tvā'nugamiṣyāmi dhṛṣṭadyumno'tha sātyakiḥ |
pāñcalāḥ kekayā mātsyāstathā sarve prabhadrakāḥ

35.23

सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः ।
वयं प्रध्वंसयिष्यामो निघ्नामाना वरान्वरान्

sakṛdbhinnaṃ tvayā vyūhaṃ tatra tatra punaḥ punaḥ |
vayaṃ pradhvaṃsayiṣyāmo nighnāmānā varānvarān

अभिमन्युरुवाच

35.24

अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् ।
पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम्

ahametatpravekṣyāmi droṇānīkaṃ durāsadam |
pataṅga iva saṅkruddho jvalitaṃ jātavedasam

35.25

तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः ।
मातुलस्य च यत्प्रीतिं करिष्यति पितुश्च मे

tatkarmādya kariṣyāmi hitaṃ yadvaṃśayordvayoḥ |
mātulasya ca yatprītiṃ kariṣyati pituśca me

35.26

शिशुनैकेन सङ्ग्रमे काल्यमानानि सङ्घशः ।
द्रक्ष्यन्ति सर्वभूतानि द्विषत्सैन्यानि वै मया

śiśunaikena saṅgrame kālyamānāni saṅghaśaḥ |
drakṣyanti sarvabhūtāni dviṣatsainyāni vai mayā

35.27

नाहं पार्थेन जातः स्यां न च जातः सुभद्रया ।
यदि मे संयुगे कश्चिज्जीवितो नाद्य मुच्यते

nāhaṃ pārthena jātaḥ syāṃ na ca jātaḥ subhadrayā |
yadi me saṃyuge kaścijjīvito nādya mucyate

35.28

यदि चैकरथेनाहं समग्रं क्षत्रमण्डलम् ।
न करोम्यष्टधा युद्धे न भवाम्यर्जुनात्मजः

yadi caikarathenāhaṃ samagraṃ kṣatramaṇḍalam |
na karomyaṣṭadhā yuddhe na bhavāmyarjunātmajaḥ

युधिष्ठिर उवाच

35.29

एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् ।
यत्समुत्सहसे भेत्तुं द्रोणानीकं दुरासदम्

evaṃ te bhāṣamāṇasya balaṃ saubhadra vardhatām |
yatsamutsahase bhettuṃ droṇānīkaṃ durāsadam

35.30

रक्षितं पुरुषव्याघ्रैर्महेष्वासैर्महाबलै ।
साध्यरुद्रमरुत्तुल्यैर्वस्वग्न्यादित्यविक्रमैः

rakṣitaṃ puruṣavyāghrairmaheṣvāsairmahābalai |
sādhyarudramaruttulyairvasvagnyādityavikramaiḥ

सञ्जय उवाच

35.31

तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत्

tasya tadvacanaṃ śrutvā sa yantāramacodayat

35.32

सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय

sumitrāśvānraṇe kṣipraṃ droṇānīkāya codaya

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)