अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय ।
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्
adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena sañjaya |
brāhmaṇaṃ pitaraṃ vṛddhamaśvatthāmā kimabravīt
इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे पञ्चनवत्यधिकशततमोऽध्यायः ॥
15 श्लोक · 195 में से 203
यह छोटा अध्याय केवल प्रश्न है। धृतराष्ट्र सञ्जय से पूछते हैं कि अपने वृद्ध ब्राह्मण पिता के धृष्टद्युम्न द्वारा अधर्म से मारे जाने की बात सुनकर अश्वत्थामा ने क्या कहा। वे उस पुत्र की महिमा का वर्णन करते हैं। द्रोण ने परशुराम से धनुर्वेद पाया था और अपने पुत्र को मानव, वारुण, आग्नेय, ब्राह्म, ऐन्द्र और नारायण अस्त्र दिए थे। मनुष्य केवल पुत्र को ही अपने से बढ़कर देखना चाहता है, और आचार्य अपने रहस्य पुत्र या अनुगत शिष्य को देते हैं। वे कहते हैं कि अश्वत्थामा शस्त्र में परशुराम, युद्ध में इन्द्र, पराक्रम में कार्तवीर्य, बुद्धि में बृहस्पति और गम्भीरता में समुद्र के समान हैं, पर्वत जैसे स्थिर और सर्प जैसे क्रोधी। वे बार-बार यही पूछते हैं कि मारे गए आचार्य के पुत्र ने क्या कहा।
धृतराष्ट्र उवाच
अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय ।
ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत्
adharmeṇa hataṃ śrutvā dhṛṣṭadyumnena sañjaya |
brāhmaṇaṃ pitaraṃ vṛddhamaśvatthāmā kimabravīt
मानवं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् ।
ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम्
mānavaṃ vāruṇāgneyaṃ brāhmamastraṃ ca vīryavān |
aindraṃ nārāyaṇaṃ caiva yasminnityaṃ pratiṣṭhitam
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे ।
श्रुत्वा निहतमाचार्यं सोऽश्वत्थामा किमब्रवीत्
tamadharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge |
śrutvā nihatamācāryaṃ so'śvatthāmā kimabravīt
येन रामादवाप्येह धनुर्वेदं महात्मना ।
प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुणकाङ्क्षिणा
yena rāmādavāpyeha dhanurvedaṃ mahātmanā |
proktānyastrāṇi divyāni putrāya guṇakāṅkṣiṇā
एकमेव हि लोकेऽस्मिन्नात्मतो गुणवत्तरम् ।
इच्छन्ति पुरुषाः पुत्रं लोके नान्यं कथञ्चन
ekameva hi loke'sminnātmato guṇavattaram |
icchanti puruṣāḥ putraṃ loke nānyaṃ kathañcana
आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् ।
तानि पुत्राय वा दद्युः शिष्यायानुगताय वा
ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām |
tāni putrāya vā dadyuḥ śiṣyāyānugatāya vā
स शिष्यः प्राप्य तत्सर्वं सविशेषं च सञ्जय ।
शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः
sa śiṣyaḥ prāpya tatsarvaṃ saviśeṣaṃ ca sañjaya |
śūraḥ śāradvatīputraḥ saṅkhye droṇādanantaraḥ
रामस्य तु समः शस्त्रे पुरन्दरसमो युधि ।
कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ
rāmasya tu samaḥ śastre purandarasamo yudhi |
kārtavīryasamo vīrye bṛhaspatisamo matau
महीधरसमः स्थैर्ये तेजसाऽग्निसमो युवा ।
समुद्र इव गाम्भीर्ये क्रोधे चाशीविषोपमः
mahīdharasamaḥ sthairye tejasā'gnisamo yuvā |
samudra iva gāmbhīrye krodhe cāśīviṣopamaḥ
स रथी प्रथमो लोके दृढधन्वा जितक्लमः ।
शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः
sa rathī prathamo loke dṛḍhadhanvā jitaklamaḥ |
śīghro'nila ivākrande carankruddha ivāntakaḥ
अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता ।
मेघस्तनितनिर्घोषं कम्पते भयविह्वलाः ।
यो न व्यथति सङ्ग्रमे वीरः सत्यपराक्रमः
asyatā yena saṅgrāme dharaṇyabhinipīḍitā |
meghastanitanirghoṣaṃ kampate bhayavihvalāḥ |
yo na vyathati saṅgrame vīraḥ satyaparākramaḥ
वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः ।
महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा
vedasnāto vratasnāto dhanurvede ca pāragaḥ |
mahodadhirivākṣobhyo rāmo dāśarathiryathā
तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे ।
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्
tamadharmeṇa dharmiṣṭhaṃ dhṛṣṭadyumnena saṃyuge |
śrutvā nihatamācāryamaśvatthāmā kimabravīt
धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना ।
यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत्
dhṛṣṭadyumnasya yo mṛtyuḥ sṛṣṭastena mahātmanā |
yathā droṇasya pāñcālyo yajñasenasuto'bhavat
तं नृशंसेन पापेन क्रूरेणादीर्घदर्शिना ।
श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत्
taṃ nṛśaṃsena pāpena krūreṇādīrghadarśinā |
śrutvā nihatamācāryamaśvatthāmā kimabravīt
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)