भीष्म पर्व

अध्याय 70: पाँचवें दिन के पूर्वाह्न का संहार

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे सप्ततितमोऽध्यायः ॥

29 श्लोक · 70 में से 122

इस अध्याय में क्या होता है

पाँचवें दिन के पूर्वाह्न का संहार

उस सुबह भीष्म घोर युद्ध करते हैं, ताकि धृतराष्ट्र के पुत्रों को भीम के भय से बचा सकें। हाथियों की चिंघाड़, घोड़ों की हिनहिनाहट, भेरी और शंखों का नाद आकाश छूने लगता है। कुण्डल और पगड़ी पहने कटे सिर पत्थरों की वर्षा जैसे गिरते हैं, और क्षण भर में धरती धनुष थामी भुजाओं, आभूषित हाथों और चन्द्र जैसे मुखों से पट जाती है। धूल बादल बनती है, शस्त्र बिजली जैसे चमकते हैं, रक्त जल सा बहता है। कबन्ध उठ खड़े होते हैं। बिना सवार के घोड़े और बिना अंकुश के हाथी दसों दिशाओं में भागते हैं। रथहीन योद्धा तलवारों से भिड़ते हैं, कुछ मुक्कों और घुटनों से। अन्त में दुर्योधन कलिंगों के साथ भीष्म को आगे कर बढ़ता है, और भीम को घेरे पाण्डव पितामह पर टूट पड़ते हैं।

सञ्जय उवाच

70.1

अकरोत्तुमुलं युद्धं भीष्मः शान्तनवस्तदा ।
भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव

akarottumulaṃ yuddhaṃ bhīṣmaḥ śāntanavastadā |
bhīmasenabhayādicchanputrāṃstārayituṃ tava

70.2

पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत ।
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम्

pūrvāhṇe tanmahāraudraṃ rājñāṃ yuddhamavartata |
kurūṇāṃ pāṇḍavānāṃ ca mukhyaśūravināśanam

70.3

तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये ।
अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत्

tasminnākulasaṃgrāme vartamāne mahābhaye |
abhavattumulaḥ śabdaḥ saṃspṛśangaganaṃ mahat

70.4

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः ।
भेरीशङ्खनिनादैश्च तुमुलं समपद्यत

nadadbhiśca mahānāgairheṣamāṇaiśca vājibhiḥ |
bherīśaṅkhaninādaiśca tumulaṃ samapadyata

70.5

युयुत्सवस्ते विक्रान्ता विजयाय महाबलाःक ।
अन्योन्यमभिगर्जन्तो गोष्ठिष्विव महर्षभाः

yuyutsavaste vikrāntā vijayāya mahābalāḥka |
anyonyamabhigarjanto goṣṭhiṣviva maharṣabhāḥ

70.6

शिरासं पात्यमानानां समरे निशितैः शरैः ।
अश्यवृष्टिरिवाकाशे बभूव भरतर्षभ

śirāsaṃ pātyamānānāṃ samare niśitaiḥ śaraiḥ |
aśyavṛṣṭirivākāśe babhūva bharatarṣabha

70.7

कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च ।
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ

kuṇḍaloṣṇīṣadhārīṇi jātarūpojjvalāni ca |
patitāni sma dṛśyante śirāṃsi bharatarṣabha

70.8

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः ।
सहस्ताभरणैश्चान्यैरभवच्छादिता मही

viśikhonmathitairgātrairbāhubhiśca sakārmukaiḥ |
sahastābharaṇaiścānyairabhavacchāditā mahī

70.9

कवचोपहितैर्गात्रैर्हस्तैश्च समलङ्कृतैः ।
मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः

kavacopahitairgātrairhastaiśca samalaṅkṛtaiḥ |
mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ

70.10

गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते ।
आसीत्सर्वा समास्तीर्णा मुहूर्तेन वसुंधराः

gajavājimanuṣyāṇāṃ sarvagātraiśca bhūpate |
āsītsarvā samāstīrṇā muhūrtena vasuṃdharāḥ

70.11

रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशिभिः ।
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत्

rajomeghaiśca tumulaiḥ śastravidyutprakāśibhiḥ |
āyudhānāṃ ca nirghoṣaḥ stanayitnusamo'bhavat

70.12

स संप्रहारस्तुमुलःक कटुकः शोणितोदकः ।
प्रावर्तत कुरूणां च पाण्डवानां च भारत

sa saṃprahārastumulaḥka kaṭukaḥ śoṇitodakaḥ |
prāvartata kurūṇāṃ ca pāṇḍavānāṃ ca bhārata

70.13

तस्मिन्महाभये घोरे तुमुले रोमहर्षणे ।
ववृषुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः

tasminmahābhaye ghore tumule romaharṣaṇe |
vavṛṣuḥ śaravarṣāṇi kṣatriyā yuddhadurmadāḥ

70.14

आक्रोशन्कुञ्जरास्तत्र शरवर्षप्रतापिताः ।
तावकानां परेषां च संयुगे भरतर्षभ

ākrośankuñjarāstatra śaravarṣapratāpitāḥ |
tāvakānāṃ pareṣāṃ ca saṃyuge bharatarṣabha

70.15

संरब्धानां च वीराणां धीराणाममितौजसाम् ।
धनुर्ज्यातलशब्देन न प्राज्ञायत किंचन

saṃrabdhānāṃ ca vīrāṇāṃ dhīrāṇāmamitaujasām |
dhanurjyātalaśabdena na prājñāyata kiṃcana

70.16

उत्थितेषु कबन्धेषु सर्वतः शोमितोदके ।
समरे पर्यधावन्त नृपा रिपुवधोद्यताः

utthiteṣu kabandheṣu sarvataḥ śomitodake |
samare paryadhāvanta nṛpā ripuvadhodyatāḥ

70.17

शरशक्तिगदाभिस्ते खङ्गैश्चामिततेजसः ।
निजघ्नुः समरेऽन्योन्यं शूराः परिघबाहवः

śaraśaktigadābhiste khaṅgaiścāmitatejasaḥ |
nijaghnuḥ samare'nyonyaṃ śūrāḥ parighabāhavaḥ

70.18

बभ्रमुः कुञ्जराश्चात्र शरैर्विद्धा निरङ्कुशाः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश

babhramuḥ kuñjarāścātra śarairviddhā niraṅkuśāḥ |
aśvāśca paryadhāvanta hatārohā diśo daśa

70.19

उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः ।
तावकानां परेषां च योधा भरतसत्तम

utpatya nipatantyanye śaraghātaprapīḍitāḥ |
tāvakānāṃ pareṣāṃ ca yodhā bharatasattama

70.20

वाहानामुत्तमाङ्गानां कार्मुकाणां च भारत ।
गदानां परिघाणां च हस्तानां चोरुभिः सह

vāhānāmuttamāṅgānāṃ kārmukāṇāṃ ca bhārata |
gadānāṃ parighāṇāṃ ca hastānāṃ corubhiḥ saha

70.21

पादानां भूषणानां च केयूराणां च सङ्घशः ।
राशयस्तत्र दृश्यन्ते भीष्मभीमसमागमे

pādānāṃ bhūṣaṇānāṃ ca keyūrāṇāṃ ca saṅghaśaḥ |
rāśayastatra dṛśyante bhīṣmabhīmasamāgame

70.22

अश्वानां कुञ्जराणां च रथानां चानिवर्तिनाम् ।
सङ्घाताः स्म प्रदृश्यन्ते तत्रतत्र विशांपते

aśvānāṃ kuñjarāṇāṃ ca rathānāṃ cānivartinām |
saṅghātāḥ sma pradṛśyante tatratatra viśāṃpate

70.23

गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः ।
जघ्नुः परस्पर तत्र क्षत्रियाः काल आगते

gadābhirasibhiḥ prāsairbāṇaiśca nataparvabhiḥ |
jaghnuḥ paraspara tatra kṣatriyāḥ kāla āgate

70.24

अपरे बाहुभिर्वीरा नियुद्धकुशला युधि ।
बहुधा समसञ्जन्त आयसैः परिघैरिव

apare bāhubhirvīrā niyuddhakuśalā yudhi |
bahudhā samasañjanta āyasaiḥ parighairiva

70.25

मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशांपते ।
अन्योन्यं जघ्रिरे वीरास्तावकाः पाण्डवैः सह

muṣṭibhirjānubhiścaiva talaiścaiva viśāṃpate |
anyonyaṃ jaghrire vīrāstāvakāḥ pāṇḍavaiḥ saha

70.26

पतितैः पात्यमानैश्च विचेष्टद्भिश्च भूतले ।
घोरमायोधनं जज्ञे तत्रतत्र जनेश्वर

patitaiḥ pātyamānaiśca viceṣṭadbhiśca bhūtale |
ghoramāyodhanaṃ jajñe tatratatra janeśvara

70.27

विरथा रथिनश्चात्र निस्त्रिंशवरधारिणःक ।
अन्योन्यमभिधावन्तः परस्परवधैषिणः

virathā rathinaścātra nistriṃśavaradhāriṇaḥka |
anyonyamabhidhāvantaḥ parasparavadhaiṣiṇaḥ

70.28

ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः ।
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत

tato duryodhano rājā kaliṅgairbahubhirvṛtaḥ |
puraskṛtya raṇe bhīṣmaṃ pāṇḍavānabhyavartata

70.29

तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम् ।
भीष्ममभ्यद्रवन्क्रुद्धास्ततो युद्धमवर्तत

tathaiva pāṇḍavāḥ sarve parivārya vṛkodaram |
bhīṣmamabhyadravankruddhāstato yuddhamavartata

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)