भीष्म पर्व

अध्याय 51: कौरवों का प्रतिव्यूह और शंखनाद

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे एकपञ्चाशोऽध्यायः ॥

30 श्लोक · 51 में से 122

इस अध्याय में क्या होता है

कौरवों का प्रतिव्यूह और शंखनाद

अर्जुन से रक्षित क्रौञ्चव्यूह देखकर दुर्योधन द्रोण, कृप, शल्य, भूरिश्रवा, विकर्ण, अश्वत्थामा, दुःशासन आदि का उत्साह बढ़ाते हैं: तुममें से एक एक भी पाण्डवों को मार सकता है, सब मिलकर तो कहना ही क्या। वे शूरसेन, त्रिगर्त, मद्रक, यवन आदि को भीष्म की रक्षा का आदेश देते हैं। तब भीष्म और द्रोण विशाल प्रतिव्यूह रचते हैं। आगे भीष्म, पीछे कुन्तल, दशार्ण और मगध सेनाओं के साथ द्रोण, गान्धार और सिन्धुसौवीर सेना के साथ शकुनि; दुर्योधन शकुनि की सेना की रक्षा करते हैं, भूरिश्रवा, शल्य और भगदत्त बायाँ पार्श्व सँभालते हैं, अश्वत्थामा, कृप और कृतवर्मा पीछे रहते हैं। भीष्म सिंहनाद करके शंख बजाते हैं। श्रीकृष्ण पाञ्चजन्य, अर्जुन देवदत्त, भीम पौण्ड्र बजाते हैं और दूसरे दिन का युद्ध छिड़ता है।

सञ्जय उवाच

51.1

क्रौञ्चं दृष्ट्वा ततो व्यूहमभेद्यं तनयस्तव ।
रक्षमाणं महाघोरं पार्थेनामिततेजसा

krauñcaṃ dṛṣṭvā tato vyūhamabhedyaṃ tanayastava |
rakṣamāṇaṃ mahāghoraṃ pārthenāmitatejasā

51.2

आचार्यमुपसंगम्य कृपं शल्यं च पार्थिव ।
सौमदत्तिं विकर्णं च सोऽश्वत्थामानमेव च

ācāryamupasaṃgamya kṛpaṃ śalyaṃ ca pārthiva |
saumadattiṃ vikarṇaṃ ca so'śvatthāmānameva ca

51.3

दुःशाकसनादीन्भ्रातॄंश्च सर्वनेव च भारत ।
अन्यांश्च सुबहूञ्शूरान्युद्धाय समुपागतान्

duḥśākasanādīnbhrātṝṃśca sarvaneva ca bhārata |
anyāṃśca subahūñśūrānyuddhāya samupāgatān

51.4

प्राहेदं वचनं काले हर्षयंस्तनयस्तव ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः

prāhedaṃ vacanaṃ kāle harṣayaṃstanayastava |
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ

51.5

एकैकशः समर्था हि यूयं सर्वे महारथाः ।
पाण्डुपुत्रान्रणे हन्तुं ससैन्यान्किमु संहताः

ekaikaśaḥ samarthā hi yūyaṃ sarve mahārathāḥ |
pāṇḍuputrānraṇe hantuṃ sasainyānkimu saṃhatāḥ

51.6

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तमिदमेतेषां बलं भीमाभिरक्षितम्

aparyāptaṃ tadasmākaṃ balaṃ bhīṣmābhirakṣitam |
paryāptamidameteṣāṃ balaṃ bhīmābhirakṣitam

51.7

संस्थानाः शूरसेनाश्च वेत्रिकाः कुकुरास्तथा ।
आरोचकास्त्रिगर्ताश्च मद्रका यवनास्तथा

saṃsthānāḥ śūrasenāśca vetrikāḥ kukurāstathā |
ārocakāstrigartāśca madrakā yavanāstathā

51.8

शत्रुंजयेन सहितास्तथा दुःशासनेन च ।
विकर्णेन च वीरेण तथा नन्दोपनन्दकैः

śatruṃjayena sahitāstathā duḥśāsanena ca |
vikarṇena ca vīreṇa tathā nandopanandakaiḥ

51.9

चित्रसेनेन सहिताः सहिताः पारिभद्रकैः ।
भीष्ममेवाभिरक्षन्तु सह सैन्यपुरस्कृताः

citrasenena sahitāḥ sahitāḥ pāribhadrakaiḥ |
bhīṣmamevābhirakṣantu saha sainyapuraskṛtāḥ

51.10

ततो भीष्मश्च द्रोणश्च तव पुत्राश्च मारिष ।
अव्यूहन्त महाव्यूहं पाण्डूनां प्रतिबाधकम्

tato bhīṣmaśca droṇaśca tava putrāśca māriṣa |
avyūhanta mahāvyūhaṃ pāṇḍūnāṃ pratibādhakam

51.11

भीष्मः सैन्येन महता समनन्तात्परिवारितः ।
ययौ प्रकर्षन्महतीं वाहिनीं सरराडिव

bhīṣmaḥ sainyena mahatā samanantātparivāritaḥ |
yayau prakarṣanmahatīṃ vāhinīṃ sararāḍiva

51.12

तमन्वायान्महेष्वासो भारद्वाजः प्रतापवान् ।
कुन्तलैश्च दशार्णैश्च मागधैश्च विशांपते

tamanvāyānmaheṣvāso bhāradvājaḥ pratāpavān |
kuntalaiśca daśārṇaiśca māgadhaiśca viśāṃpate

51.13

विदमर्भैर्मेकलैश्चैव कर्णप्रावरणैरपि ।
सहिताः सर्वसैन्येन भीष्ममहावशोभिनम्

vidamarbhairmekalaiścaiva karṇaprāvaraṇairapi |
sahitāḥ sarvasainyena bhīṣmamahāvaśobhinam

51.14

गान्धाराः सिन्धुसौवीराः शिबयोऽथ वसातयः ।
शकुनिश्च स्वसैन्येन भीष्ममाहवशोभिनम्

gāndhārāḥ sindhusauvīrāḥ śibayo'tha vasātayaḥ |
śakuniśca svasainyena bhīṣmamāhavaśobhinam

51.15

ततो दुर्योधनो राजा सहितः सर्वसोदरैः ।
अश्वातर्केर्विकर्णैश्च तथा चाम्बष्ठकोसलैः

tato duryodhano rājā sahitaḥ sarvasodaraiḥ |
aśvātarkervikarṇaiśca tathā cāmbaṣṭhakosalaiḥ

51.16

दरदैश्च शकैश्चैव तथा क्षुद्रकमालवैः ।
अभ्यरक्षत संहृष्टः सौबलेयस्य वाहिनीम्

daradaiśca śakaiścaiva tathā kṣudrakamālavaiḥ |
abhyarakṣata saṃhṛṣṭaḥ saubaleyasya vāhinīm

51.17

भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिषः ।
विन्दानुविन्दावावन्त्यौ वामं पार्श्वमपालयन्

bhūriśravāḥ śalaḥ śalyo bhagadattaśca māriṣaḥ |
vindānuvindāvāvantyau vāmaṃ pārśvamapālayan

51.18

सौमदत्तिः सुशर्मा च काम्भोजश्च सुदक्षिणः ।
श्रुतायुश्चाच्युतायुश्च दक्षिणं पक्षमास्थिताः

saumadattiḥ suśarmā ca kāmbhojaśca sudakṣiṇaḥ |
śrutāyuścācyutāyuśca dakṣiṇaṃ pakṣamāsthitāḥ

51.19

अश्वत्थामा कृपश्चैव कृतवर्मा च सात्वतः ।
महत्या सेनया सार्धं सेनापृष्टे व्यवस्थिताः

aśvatthāmā kṛpaścaiva kṛtavarmā ca sātvataḥ |
mahatyā senayā sārdhaṃ senāpṛṣṭe vyavasthitāḥ

51.20

पृष्ठगोपास्तु तस्यासन्नानादेश्या जनेश्वराः ।
केतुमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः

pṛṣṭhagopāstu tasyāsannānādeśyā janeśvarāḥ |
ketumānvasudānaśca putraḥ kāśyasya cābhibhūḥ

51.21

ततस्ते तावकाः सर्वे हृष्टा युद्धाय भारत ।
दध्मुः शङ्खान्मुदा युक्ताः सिंहनादांस्तथोन्नदन्

tataste tāvakāḥ sarve hṛṣṭā yuddhāya bhārata |
dadhmuḥ śaṅkhānmudā yuktāḥ siṃhanādāṃstathonnadan

51.22

तेषां श्रुत्वा तु हृष्टानां वृद्धः कुरुपितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान्

teṣāṃ śrutvā tu hṛṣṭānāṃ vṛddhaḥ kurupitāmahaḥ |
siṃhanādaṃ vinadyoccaiḥ śaṅkhaṃ dadhmau pratāpavān

51.23

ततः शङ्खाश्च भेर्यश्च पेश्यश्च विविधाः परैः ।
आनकाश्चाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत्

tataḥ śaṅkhāśca bheryaśca peśyaśca vividhāḥ paraiḥ |
ānakāścābhyahanyanta sa śabdastumulo'bhavat

51.24

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
प्रदध्मतुः शङ्खवरौ हेमरत्नपरिष्कृतौ

tataḥ śvetairhayairyukte mahati syandane sthitau |
pradadhmatuḥ śaṅkhavarau hemaratnapariṣkṛtau

51.25

पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः

pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ |
pauṇḍraṃ dadhmau mahāśaṅkhaṃ bhīmakarmā vṛkodaraḥ

51.26

अन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ

antavijayaṃ rājā kuntīputro yudhiṣṭhiraḥ |
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau

51.27

काशिराजश्च शैब्यश्च शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः

kāśirājaśca śaibyaśca śikhaṇḍī ca mahārathaḥ |
dhṛṣṭadyumno virāṭaśca sātyakiśca mahārathaḥ

51.28

पाञ्चाल्याश्च महेष्वासा द्रौपद्याः पञ्च चात्मजाः ।
सर्वे दध्युर्महाशङ्खान्सिंहनादांश्च नेदिरे

pāñcālyāśca maheṣvāsā draupadyāḥ pañca cātmajāḥ |
sarve dadhyurmahāśaṅkhānsiṃhanādāṃśca nedire

51.29

स घोषः सुमहांस्तत्र वीरैस्तैः समुदीरितः ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्

sa ghoṣaḥ sumahāṃstatra vīraistaiḥ samudīritaḥ |
nabhaśca pṛthivīṃ caiva tumulo vyanunādayan

51.30

एवमेते महाराज प्रहृष्टाः कुरुपाण्डवाः ।
पुनर्युद्धाय संजग्मुस्तापयानाः परस्परम्

evamete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ |
punaryuddhāya saṃjagmustāpayānāḥ parasparam

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)