नदीनां पर्वतानां च नामधेयानि संजय ।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः
nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya |
tathā janapadānāṃ ca ye cānye bhūmimāśritāḥ
इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि पञ्चमोऽध्यायः ॥
18 श्लोक · 5 में से 122
धृतराष्ट्र नदियों, पर्वतों और जनपदों के नाम तथा पृथ्वी का परिमाण पूछते हैं। सञ्जय पहले पाँच महाभूतों की बात करते हैं: पृथ्वी, जल, अग्नि, वायु और आकाश। पृथ्वी में शब्द, स्पर्श, रूप, रस और गन्ध पाँचों गुण हैं; जल में चार, तेज में तीन, वायु में दो और आकाश में केवल शब्द। जब तक भूत सम रहते हैं, एक-दूसरे का अतिक्रमण नहीं करते; विषम होने पर देहधारी क्रम से उत्पन्न होते और नष्ट होते हैं। प्रकृति से परे जो अचिन्त्य है, उसे तर्क से सिद्ध नहीं करना चाहिए। फिर वे सुदर्शन द्वीप का वर्णन करते हैं, जो चक्र की भाँति गोल है, नदियों, पर्वतों और नगरों से भरा, खारे सागर से घिरा, और चन्द्रमण्डल में दर्पण में मुख की भाँति दिखाई देता है।
धृतराष्ट्र उवाच
नदीनां पर्वतानां च नामधेयानि संजय ।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः
nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya |
tathā janapadānāṃ ca ye cānye bhūmimāśritāḥ
प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः ।
निखिलेन समाचक्ष्व काननानि च संजय
pramāṇaṃ ca pramāṇajña pṛthivyā mama sarvataḥ |
nikhilena samācakṣva kānanāni ca saṃjaya
संजय उवाच
पञ्चेमानि महाराज महाभूतानि संग्रहात् ।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः
pañcemāni mahārāja mahābhūtāni saṃgrahāt |
jagatīsthāni sarvāṇi samānyāhurmanīṣiṇaḥ
भूमिरापस्तथा वायुरग्निराकाशमेव च ।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः
bhūmirāpastathā vāyuragnirākāśameva ca |
guṇottarāṇi sarvāṇi teṣāṃ bhūmiḥ pradhānataḥ
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिःक
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca pañcamaḥ |
bhūmerete guṇāḥ proktā ṛṣibhistattvavedibhiḥka
चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते ।
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।
शब्दः स्पर्शश्च वायौ द्वौ अकाशे शब्द एव तु
catvāro'psu guṇā rājangandhastatra na vidyate |
śabdaḥ sparśaśca rūpaṃ ca tejaso'tha guṇāstrayaḥ |
śabdaḥ sparśaśca vāyau dvau akāśe śabda eva tu
एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु ।
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः
ete pañca guṇā rājanmahābhūteṣu pañcasu |
vartante sarvalokeṣu yeṣu bhūtāḥ pratiṣṭhitāḥ
अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा
anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā
यदा तु विषमीभावमाविशन्ति परस्परम् ।
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा
yadā tu viṣamībhāvamāviśanti parasparam |
tadā dehairdehavanto vyatirohanti nānyathā
आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः ।
सर्वाम्यपरिमेयाणि तदेषां रूपमैश्वरम्
ānupūrvyā vinaśyanti jāyante cānupūrvaśaḥ |
sarvāmyaparimeyāṇi tadeṣāṃ rūpamaiśvaram
तत्रतत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते
tatratatra hi dṛśyante dhātavaḥ pāñcabhautikāḥ |
teṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate
अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ।
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम्
acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet |
prakṛtibhyaḥ paraṃ yattu tadacintyasya lakṣaṇam
सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन ।
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः
sudarśanaṃ pravakṣyāmi dvīpaṃ tu kurunandana |
parimaṇḍalo mahārāja dvīpo'sau cakrasaṃsthitaḥ
नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा
nadījālapraticchannaḥ parvataiścābhrasannibhaiḥ |
puraiśca vividhākārai ramyairjanapadaistathā
वृक्षैः पुष्पफलोपेतैः संपन्नधनधान्यवान् ।
लवणेन समुद्रेण समन्तात्परिवारितः
vṛkṣaiḥ puṣpaphalopetaiḥ saṃpannadhanadhānyavān |
lavaṇena samudreṇa samantātparivāritaḥ
यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः ।
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले
yathā hi puruṣaḥ paśyedādarśe mukhamātmanaḥ |
evaṃ sudarśanadvīpo dṛśyate candramaṇḍale
द्विरशस्तु ततः प्लक्षो द्विरंशः शाल्मलिर्महान् ।
द्विरंशः पिप्पलस्तस्य द्विरंशश्च कुशो महान् ।
सर्वौषधिसमापन्नः पर्वतैः परिवारितः
dviraśastu tataḥ plakṣo dviraṃśaḥ śālmalirmahān |
dviraṃśaḥ pippalastasya dviraṃśaśca kuśo mahān |
sarvauṣadhisamāpannaḥ parvataiḥ parivāritaḥ
आपस्ततोऽन्या विज्ञेयाः शेषः संक्षेप उच्यते ।
ततोऽन्य उच्यते चायमेनं संक्षेपतः श्रृणु
āpastato'nyā vijñeyāḥ śeṣaḥ saṃkṣepa ucyate |
tato'nya ucyate cāyamenaṃ saṃkṣepataḥ śrṛṇu
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)