भीष्म पर्व

अध्याय 4: सञ्जय पृथ्वी का वर्णन आरम्भ करते हैं

इति श्रीमन्महाभारते उद्योगपर्वणि जम्बूखण्डविनिर्माणपर्वणि चतुर्थोऽध्यायः ॥

21 श्लोक · 4 में से 122

इस अध्याय में क्या होता है

सञ्जय पृथ्वी का वर्णन आरम्भ करते हैं

व्यास चले जाते हैं, और धृतराष्ट्र बार-बार लम्बी साँसें लेते हुए चिन्ता में डूबे रहते हैं। वे सञ्जय से पूछते हैं कि ये राजा पृथ्वी के लिए प्राण क्यों त्याग रहे हैं और एक-दूसरे को मारना क्यों नहीं छोड़ते। निश्चय ही भूमि में बड़े गुण होंगे। वे उन देशों के बारे में सुनना चाहते हैं जहाँ से करोड़ों योद्धा कुरुजांगल में आ जुटे हैं। प्राणी चर और अचर हैं; चर प्राणी अण्डज, स्वेदज और जरायुज हैं, जिनमें जरायुज श्रेष्ठ हैं। वे सात वन्य और सात ग्राम्य पशु तथा वनस्पतियों के भेद गिनाते हैं। अन्त में कहते हैं, सब भूमि से जन्मता है और भूमि में ही लीन होता है। जिसकी भूमि, उसका सारा जगत, इसी लिए राजा परस्पर संहार करते हैं।

वैशंपायन उवाच

4.1

एवमुक्त्वा ययौ व्यासो धृतराष्ट्रय धीमते ।
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत

evamuktvā yayau vyāso dhṛtarāṣṭraya dhīmate |
dhṛtarāṣṭro'pi tacchrutvā dhyānamevānvapadyata

4.2

स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः ।
संजयं संशितात्मानमपृच्छद्रतर्षभ

sa muhūrtamiva dhyātvā viniḥśvasya muhurmuhuḥ |
saṃjayaṃ saṃśitātmānamapṛcchadratarṣabha

4.3

संजयेमे महीपालाः शूरा युद्धाभिनन्दिनः ।
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह

saṃjayeme mahīpālāḥ śūrā yuddhābhinandinaḥ |
anyonyamabhinighnanti śastrairuccāvacairiha

4.4

पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् ।
न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम्

pārthivāḥ pṛthivīhetoḥ samabhityajya jīvitam |
na vā śāmyanti nighnanto vardhayanti yamakṣayam

4.5

भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् ।
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व संजय

bhaumamaiśvaryamicchanto na mṛṣyante parasparam |
manye bahuguṇā bhūmistanmamācakṣva saṃjaya

4.6

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
कोट्यश्च लोकवीराणां समेताः कुरुजाङ्गले

bahūni ca sahasrāṇi prayutānyarbudāni ca |
koṭyaśca lokavīrāṇāṃ sametāḥ kurujāṅgale

4.7

देशानां च परीमाणं नगराणां च संजय ।
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः

deśānāṃ ca parīmāṇaṃ nagarāṇāṃ ca saṃjaya |
śrotumicchāmi tattvena yata ete samāgatāḥ

4.8

दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा ।
प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः

divyabuddhipradīpena yuktastvaṃ jñānacakṣuṣā |
prabhāvāttasya viprarṣervyāsasyāmitatejasaḥ

संजय उवाच

4.9

यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् ।
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ

yathāprajñaṃ mahāprājña bhaumānvakṣyāmi te guṇān |
śāstracakṣuravekṣasva namaste bharatarṣabha

4.10

द्विविधानीह भूतानि चराणि स्थावराणि च ।
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः

dvividhānīha bhūtāni carāṇi sthāvarāṇi ca |
trasānāṃ trividhā yoniraṇḍasvedajarāyujāḥ

4.11

त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः ।
जरायुजानां प्रवरा मानवाः पशवश्च ये

trasānāṃ khalu sarveṣāṃ śreṣṭhā rājañjarāyujāḥ |
jarāyujānāṃ pravarā mānavāḥ paśavaśca ye

4.12

नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश ।
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः

nānārūpadharā rājaṃsteṣāṃ bhedāścaturdaśa |
vedoktāḥ pṛthivīpāla yeṣu yajñāḥ pratiṣṭhitāḥ

4.13

ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् ।
सर्वेषामेव भूतानामन्योन्येनोपजीवनम्

grāmyāṇāṃ puruṣāḥ śreṣṭhāḥ siṃhāścāraṇyavāsinām |
sarveṣāmeva bhūtānāmanyonyenopajīvanam

4.14

उद्भिञ्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः ।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः

udbhiñjāḥ sthāvarāḥ proktāsteṣāṃ pañcaiva jātayaḥ |
vṛkṣagulmalatāvallyastvaksārāstṛṇajātayaḥ

4.15

तेषां विंशतिरेकोना महाभूतेषु पञ्चसु ।
चतुर्विशतिरुद्दिष्टा गायत्री लोकसंमता

teṣāṃ viṃśatirekonā mahābhūteṣu pañcasu |
caturviśatiruddiṣṭā gāyatrī lokasaṃmatā

4.16

य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् ।
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति

ya etāṃ veda gāyatrīṃ puṇyāṃ sarvaguṇānvitām |
tattvena bharataśreṣṭha sa loke na praṇaśyati

4.17

अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ।
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा

araṇyavāsinaḥ sapta saptaiṣāṃ grāmavāsinaḥ |
siṃhā vyāghrā varāhāśca mahiṣā vāraṇāstathā

4.18

ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ।
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः

ṛkṣāśca vānarāścaiva saptāraṇyāḥ smṛtā nṛpa |
gaurajāvimanuṣyāśca aśvāśvataragardabhāḥ

4.19

एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ।
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश

ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ |
ete vai paśavo rājangrāmyāraṇyāścaturdaśa

4.20

भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति ।
भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम्

bhūmau ca jāyate sarvaṃ bhūmau sarvaṃ vinaśyati |
bhūmiḥ pratiṣṭhā bhūtānāṃ bhūmireva sanātanam

4.21

यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् ।
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम्

yasya bhūmistasya sarvaṃ jagatsthāvarajaṅgamam |
tatrātigṛddhā rājāno vinighnantītaretaram

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)