भीष्म पर्व

अध्याय 10: चार युग और मनुष्य की आयु

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि दशमोऽध्यायः ॥

15 श्लोक · 10 में से 122

इस अध्याय में क्या होता है

चार युग और मनुष्य की आयु

धृतराष्ट्र भारतवर्ष, हैमवत और हरिवर्ष में आयु, बल, शुभ और अशुभ का परिमाण पूछते हैं। सञ्जय भारत के चार युग बताते हैं: कृत, त्रेता, द्वापर और तिष्य, जो कलि है। कृतयुग में आयु चार सहस्र वर्ष, त्रेता में तीन सहस्र, द्वापर में दो सहस्र होती है, पर तिष्य में आयु का कोई नियम नहीं, शिशु गर्भ में या जन्म लेते ही मर जाते हैं। कृतयुग में बलवान, बुद्धिमान, धनी पुरुष और तपोधन मुनि जन्मते हैं। त्रेता में सब क्षत्रिय चक्रवर्ती होते हैं। द्वापर में सब वर्ण जन्म लेते हैं और एक-दूसरे को जीतना चाहते हैं। तिष्य में मनुष्य अल्पतेज, क्रोधी, लोभी और असत्यवादी होते हैं, और ईर्ष्या, मान, माया और लोभ बढ़ते हैं। हैमवत और हरिवर्ष गुणों में भारत से श्रेष्ठ हैं।

धृतराष्ट्र उवाच

10.1

भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।
प्रमाणमायुषः सूत बलं चापि शुभाशुभम्

bhāratasyāsya varṣasya tathā haimavatasya ca |
pramāṇamāyuṣaḥ sūta balaṃ cāpi śubhāśubham

10.2

अनागतमतिक्रान्तं वर्तमानं च संजय ।
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च

anāgatamatikrāntaṃ vartamānaṃ ca saṃjaya |
ācakṣva me vistareṇa harivarṣaṃ tathaiva ca

संजय उवाच

10.3

चत्वारि भारते वर्षे युगानि भरतर्षभ ।
कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन

catvāri bhārate varṣe yugāni bharatarṣabha |
kṛtaṃ tretā dvāparaṃ ca tiṣyaṃ ca kuruvardhana

10.4

पूर्वं कृतयुगं नाम ततस्रेतायुगं प्रभो ।
संक्षेपाद्द्वापरस्याथ ततस्तिष्यं प्रवर्तते

pūrvaṃ kṛtayugaṃ nāma tatasretāyugaṃ prabho |
saṃkṣepāddvāparasyātha tatastiṣyaṃ pravartate

10.5

चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम ।
आयुःसंख्या कृतयुगे संख्याता राजसत्तम

catvāri tu sahasrāṇi varṣāṇāṃ kurusattama |
āyuḥsaṃkhyā kṛtayuge saṃkhyātā rājasattama

10.6

तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप ।
द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति सांप्रतम्

tathā trīṇi sahasrāṇi tretāyāṃ manujādhipa |
dve sahasre dvāpare tu bhuvi tiṣṭhanti sāṃpratam

10.7

न प्रमाणस्थितिर्ह्यस्ति तिष्येऽस्मिन्भरतर्षभ ।
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च

na pramāṇasthitirhyasti tiṣye'sminbharatarṣabha |
garbhasthāśca mriyante'tra tathā jātā mriyanti ca

10.8

महाबला महासत्वाः प्रज्ञागुणसमन्विताः ।
प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः

mahābalā mahāsatvāḥ prajñāguṇasamanvitāḥ |
prajāyante ca jātāśca śataśo'tha sahasraśaḥ

10.9

जाताः कृतयुगे राजन्धनिनः प्रयदर्शनाः ।
प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः

jātāḥ kṛtayuge rājandhaninaḥ prayadarśanāḥ |
prajāyante ca jātāśca munayo vai tapodhanāḥ

10.10

महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः ।
प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः

mahotsāhā mahātmāno dhārmikāḥ satyavādinaḥ |
priyadarśanā vapuṣmanto mahāvīryā dhanurdharāḥ

10.11

वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः ।
त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः

varārhā yudhi jāyante kṣatriyāḥ śūrasattamāḥ |
tretāyāṃ kṣatriyā rājansarve vai cakravartinaḥ

10.12

सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे ।
महोत्साहा वीर्यवन्तः परस्परजयैषिणः

sarvavarṇāśca jāyante sadā caiva ca dvāpare |
mahotsāhā vīryavantaḥ parasparajayaiṣiṇaḥ

10.13

तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप ।
लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत

tejasālpena saṃyuktāḥ krodhanāḥ puruṣā nṛpa |
lubdhā anṛtakāścaiva tiṣye jāyanti bhārata

10.14

ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च ।
तिष्ये भवति भूतानां रागो लोभश्च भारत

īrṣyā mānastathā krodho māyā'sūyā tathaiva ca |
tiṣye bhavati bhūtānāṃ rāgo lobhaśca bhārata

10.15

संक्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप ।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम्

saṃkṣepo vartate rājandvāpare'sminnarādhipa |
guṇottaraṃ haimavataṃ harivarṣaṃ tataḥ param

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)