आश्वमेधिक पर्व

अध्याय 87: श्रीकृष्ण अर्जुन का सन्देश युधिष्ठिर को देते हैं

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ताशीतितमोऽध्यायः ॥

20 श्लोक · 87 में से 118

इस अध्याय में क्या होता है

श्रीकृष्ण अर्जुन का सन्देश युधिष्ठिर को देते हैं

युधिष्ठिर वेदज्ञों और राजाओं को आया देखकर भीम से राजाओं का सत्कार करने को कहते हैं। भीम नकुल सहदेव के साथ यह करते हैं। गोविन्द बलदेव को आगे करके युयुधान, प्रद्युम्न, गद, निशठ, साम्ब और कृतवर्मा सहित आते हैं, और उनका भी सत्कार होता है। श्रीकृष्ण बताते हैं कि द्वारका के एक व्यक्ति ने अनेक युद्धों से थके अर्जुन को देखा है और वे निकट हैं। पूछने पर वे अर्जुन का सन्देश सुनाते हैं: सब राजा आएँगे, उनका आदर हो, ताकि राजसूय में अर्घ्य को लेकर हुआ विवाद फिर न हो और राजाओं के द्वेष से प्रजा नष्ट न हो। अर्जुन यह भी कहते हैं कि उनके प्रिय पुत्र, मणिपुर के राजा बभ्रुवाहन का उनके नाते विधिवत सम्मान हो। युधिष्ठिर इस वचन का अभिनन्दन करते हैं।

समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् । दृष्ट्वा युधिष्ठिरो राजा भीमसेनमभाषत

87.2

उपयाता नरव्याघ्रा य एते पृथिवीश्वराः ।
एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः

upayātā naravyāghrā ya ete pṛthivīśvarāḥ |
eteṣāṃ kriyatāṃ pūjā pūjārhā hi narādhipāḥ

87.3

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना ।
भीमसेनो महातेजा यमाभ्यां सह पाण्डवः

ityuktaḥ sa tathā cakre narendreṇa yaśasvinā |
bhīmaseno mahātejā yamābhyāṃ saha pāṇḍavaḥ

87.4

अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् ।
बलदेवं पुरस्कृत्य सर्वप्राणभूतां वरः

athābhyagacchadgovindo vṛṣṇibhiḥ saha dharmajam |
baladevaṃ puraskṛtya sarvaprāṇabhūtāṃ varaḥ

87.5

युयुधानेन सहितः प्रद्युम्नेन गदेन च ।
निशठेनाथ सांबेन तथैव कृतवर्मणा

yuyudhānena sahitaḥ pradyumnena gadena ca |
niśaṭhenātha sāṃbena tathaiva kṛtavarmaṇā

87.6

तेषामपि परां पूजां चक्रे भीमो महारथः ।
विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः

teṣāmapi parāṃ pūjāṃ cakre bhīmo mahārathaḥ |
viviśuste ca veśmāni ratnavanti ca sarvaśaḥ

87.7

युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः ।
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम्

yudhiṣṭhirasamīpe tu kathānte madhusūdanaḥ |
arjunaṃ kathayāmāsa bahusaṅgrāmakarśitam

87.8

स तं प्रपच्छ कौन्तेयः पुनःपुनररिंदमम् ।
धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः

sa taṃ prapaccha kaunteyaḥ punaḥpunarariṃdamam |
dharmajaḥ śakrajaṃ jiṣṇuṃ samācaṣṭa jagatpatiḥ

87.9

आगमद्द्वारकावासी समाप्तः पुरुषो नृप ।
योऽद्राक्षीत्पाण्डवश्रेष्ठ बहुसङ्ग्रामकर्शितम्

āgamaddvārakāvāsī samāptaḥ puruṣo nṛpa |
yo'drākṣītpāṇḍavaśreṣṭha bahusaṅgrāmakarśitam

87.10

समीपे च महाबाहुमाचष्ट च मम प्रभो ।
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये

samīpe ca mahābāhumācaṣṭa ca mama prabho |
kuru kāryāṇi kaunteya hayamedhārthasiddhaye

87.11

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः ।
दिष्ट्या स कुशली जिष्णुरुपायाति च माधव

ityuktaḥ pratyuvācainaṃ dharmarājo yudhiṣṭhiraḥ |
diṣṭyā sa kuśalī jiṣṇurupāyāti ca mādhava

87.12

यदिदं संदिदेशास्मिन्पाण्डवानां बलाग्रणीः ।
तदाख्यातमिहेच्छामि भवता यदुनन्दन

yadidaṃ saṃdideśāsminpāṇḍavānāṃ balāgraṇīḥ |
tadākhyātamihecchāmi bhavatā yadunandana

87.13

इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा ।
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम्

ityukto dharmarājena vṛṣṇyandhakapatistadā |
provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram

87.14

इदमाह महाराज पार्थवाक्यं नरेश्वरः ।
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम

idamāha mahārāja pārthavākyaṃ nareśvaraḥ |
vācyo yudhiṣṭhiraḥ kṛṣṇa kāle vākyamidaṃ mama

87.15

आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ ।
प्राप्तानां महतां पूजा कार्या ह्येतत्क्षमं हि नः

āgamiṣyanti rājānaḥ sarve vai kauravarṣabha |
prāptānāṃ mahatāṃ pūjā kāryā hyetatkṣamaṃ hi naḥ

87.16

इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद ।
तथा चात्ययिकं न स्याद्यदर्घाहरणेऽभवत्

ityetadvacanādrājā vijñāpyo mama mānada |
tathā cātyayikaṃ na syādyadarghāharaṇe'bhavat

87.17

कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् ।
राजद्वेषान्न नश्येयुरिमा राजन्पुनः प्रजाः

kartumarhati tadrājā bhavāṃścāpyanumanyatām |
rājadveṣānna naśyeyurimā rājanpunaḥ prajāḥ

87.18

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् ।
धनंजयस्य नृपते तन्मे निगदतः शृणु

idamanyacca kaunteya vacaḥ sa puruṣo'bravīt |
dhanaṃjayasya nṛpate tanme nigadataḥ śṛṇu

87.19

उपयास्यति यज्ञं नो मणलूरपतिर्नृपः ।
पुत्रो मम महातेजा दयितो बभ्रुवाहनः

upayāsyati yajñaṃ no maṇalūrapatirnṛpaḥ |
putro mama mahātejā dayito babhruvāhanaḥ

87.20

तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् ।
स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो

taṃ bhavānmadapekṣārthaṃ vidhivatpratipūjayet |
sa tu bhakto'nuraktaśca mama nityamiti prabho

87.21

इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः ।
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत्

ityetadvacanaṃ śrutvā dharmarājo yudhiṣṭhiraḥ |
abhinandyāsya tadvākyamidaṃ vacanamabravīt

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)