आश्वमेधिक पर्व

अध्याय 85: गान्धार में शकुनि के पुत्र की पराजय

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चाशीतितमोऽध्यायः ॥

24 श्लोक · 85 में से 118

इस अध्याय में क्या होता है

गान्धार में शकुनि के पुत्र की पराजय

शकुनि का पुत्र बड़ी सेना लेकर निकलता है। शकुनि के वध से क्रुद्ध उसके योद्धा एक साथ अर्जुन पर टूट पड़ते हैं। चेतावनी न मानकर वे घोड़े को घेर लेते हैं, तब अर्जुन क्रोध में क्षुर बाणों से उनके सिर काट देते हैं। राजा स्वयं आगे बढ़ता है। अर्जुन कहते हैं कि राजाज्ञा से राजा उनके लिए अवध्य हैं, युद्ध बन्द करो। जब वह बाण चलाता रहता है, तो अर्जुन अर्धचन्द्र बाण से उसका शिरस्त्राण उड़ा देते हैं और गान्धार समझ जाते हैं कि उसे जान बूझकर छोड़ा गया। तब राजा की माता अर्घ्य लेकर आती है। अर्जुन उसका सम्मान करते हैं, राजकुमार से कहते हैं कि गान्धारी और धृतराष्ट्र के कारण वह जीवित है, और उसे अश्वमेध में बुलाते हैं।

वैशम्पायन उवाच

85.1

शकुनस्तनयो वीरो गान्धाराणां महारथः ।
प्रत्युद्ययौ गुडाकेशं सैन्येन महता वृतः ।
हस्त्यश्वरथयुक्तेन पताकाध्वजमालिना

śakunastanayo vīro gāndhārāṇāṃ mahārathaḥ |
pratyudyayau guḍākeśaṃ sainyena mahatā vṛtaḥ |
hastyaśvarathayuktena patākādhvajamālinā

85.2

अमृष्यमाणास्ते योधा नृपस्य शकुनेर्वधम् ।
अभ्ययुः सहिताः पार्थं प्रगृहीतशरासनाः

amṛṣyamāṇāste yodhā nṛpasya śakunervadham |
abhyayuḥ sahitāḥ pārthaṃ pragṛhītaśarāsanāḥ

85.3

स तानुवाच धर्मात्मा बीभत्सुरपराजितः ।
युधिष्टिरस्य वचनं न च ते जगृहुर्हितम्

sa tānuvāca dharmātmā bībhatsuraparājitaḥ |
yudhiṣṭirasya vacanaṃ na ca te jagṛhurhitam

85.4

वार्यमाणास्तु पार्थेन सान्त्वपूर्वममर्षिताः ।
परिवार्य हयं जग्मुस्ततश्चुक्रोध पाण्डवः

vāryamāṇāstu pārthena sāntvapūrvamamarṣitāḥ |
parivārya hayaṃ jagmustataścukrodha pāṇḍavaḥ

85.5

ततः शिरांसि दीप्ताग्रैस्तेषां चिच्छेद पाण्डवः ।
क्षुरैर्गाण्डीवनिर्मुक्तैर्नातियत्नादिवार्जुनः

tataḥ śirāṃsi dīptāgraisteṣāṃ ciccheda pāṇḍavaḥ |
kṣurairgāṇḍīvanirmuktairnātiyatnādivārjunaḥ

85.6

ते वध्यमानाः पार्थेनि हयमुत्सृज्य संप्रमात् ।
न्यवर्तन्त महाराज शरवर्षार्दिता भृशम्

te vadhyamānāḥ pārtheni hayamutsṛjya saṃpramāt |
nyavartanta mahārāja śaravarṣārditā bhṛśam

85.7

वितुद्यमानस्तैश्चापि गान्धारैः पाण्डुनन्दनः ।
आदिस्यादिश्य तेजस्वी परानेतानवारयत्

vitudyamānastaiścāpi gāndhāraiḥ pāṇḍunandanaḥ |
ādisyādiśya tejasvī parānetānavārayat

85.8

वध्यमानेषु तेष्वाजौ गान्धारेषु समन्ततः ।
स राजा शकुनेः पुत्रः पाण्डवं प्रत्यवारयत्

vadhyamāneṣu teṣvājau gāndhāreṣu samantataḥ |
sa rājā śakuneḥ putraḥ pāṇḍavaṃ pratyavārayat

85.9

तं युध्यमानं राजानं क्षत्रधर्मे व्यवस्थितम् ।
पार्थोऽब्रवीन्न मे वध्या राजानो राजसासनात्

taṃ yudhyamānaṃ rājānaṃ kṣatradharme vyavasthitam |
pārtho'bravīnna me vadhyā rājāno rājasāsanāt

85.10

अलं युद्धेन ते वीर न तेऽस्त्वद्य पराजयः ।
इत्युक्तस्तदनादृत्य वाक्यमज्ञानमोहितः ।
स शक्रसमकर्माणं समावाकिरदाशुगैः

alaṃ yuddhena te vīra na te'stvadya parājayaḥ |
ityuktastadanādṛtya vākyamajñānamohitaḥ |
sa śakrasamakarmāṇaṃ samāvākiradāśugaiḥ

85.11

तस्य् पार्थः शिरस्त्राणमर्धचन्द्रेण पत्रिणा ।
अपाहरदमेयात्मा जयद्रथशिरो यथा

tasy pārthaḥ śirastrāṇamardhacandreṇa patriṇā |
apāharadameyātmā jayadrathaśiro yathā

85.12

तं दृष्ट्वा विस्मयं जग्मुर्गान्धाराः सर्व एव ते ।
इच्छता तेन न हतो राजेत्यपि च ते विदुः

taṃ dṛṣṭvā vismayaṃ jagmurgāndhārāḥ sarva eva te |
icchatā tena na hato rājetyapi ca te viduḥ

85.13

गान्धारराजपुत्रस्तु पलायनकृतक्षणः ।
ययौ तैरेव सहितस्त्रस्तैः क्षुद्रमृगैरिव ।

gāndhārarājaputrastu palāyanakṛtakṣaṇaḥ |
yayau taireva sahitastrastaiḥ kṣudramṛgairiva |

85.14

तेषां तु तरसा पार्थस्तत्रैव परिदावताम् ।
प्रजहारोत्तमाङ्गानि भल्लैः सन्नतपर्वभिः

teṣāṃ tu tarasā pārthastatraiva paridāvatām |
prajahārottamāṅgāni bhallaiḥ sannataparvabhiḥ

85.15

उच्छ्रितांस्तु भुजान्केचिन्नाबुध्यन्त शरैर्हृतान् ।
शरैर्गाण्डीवनिर्मुक्तैः पृथुभिः पार्थचोदितैः

ucchritāṃstu bhujānkecinnābudhyanta śarairhṛtān |
śarairgāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ

85.16

सम्भ्रान्तनरनागाश्वमपतद्विद्रुतं बलम् ।
हतविद्रुतभूयिष्ठमावर्तत मुहुर्मुहुः

sambhrāntanaranāgāśvamapatadvidrutaṃ balam |
hatavidrutabhūyiṣṭhamāvartata muhurmuhuḥ

85.17

नाभ्यदृस्यन्त वीरस्य केचिदग्रेऽग्र्यकर्मणः ।
रिपवः पात्यमाना वै ये सहेरन्महाशरान्

nābhyadṛsyanta vīrasya kecidagre'gryakarmaṇaḥ |
ripavaḥ pātyamānā vai ye saheranmahāśarān

85.18

ततो गान्धारराजस्य मन्त्रिवृद्धपुरःसरा ।
जननी निर्ययौ भीता पुरस्कृत्यार्घ्यमुत्तमम्

tato gāndhārarājasya mantrivṛddhapuraḥsarā |
jananī niryayau bhītā puraskṛtyārghyamuttamam

85.19

सा न्यवारयदव्यग्रा तं पुत्रं युद्धदुर्मदम् ।
प्रसादयामास च तं जिष्णुमक्लिष्टकारिणम्

sā nyavārayadavyagrā taṃ putraṃ yuddhadurmadam |
prasādayāmāsa ca taṃ jiṣṇumakliṣṭakāriṇam

85.20

तां पूजयित्वा बीभत्सुः प्रसादमकरोत्प्रभुः ।
शकुनेश्चापि तनयं सान्त्वयन्निदमब्रवीत्

tāṃ pūjayitvā bībhatsuḥ prasādamakarotprabhuḥ |
śakuneścāpi tanayaṃ sāntvayannidamabravīt

85.21

न मे प्रियं महाबाहो यत्ते बुद्धिरियं कृता ।
प्रतियोद्धुममित्रघ्न भ्रातैव त्वं ममानघ

na me priyaṃ mahābāho yatte buddhiriyaṃ kṛtā |
pratiyoddhumamitraghna bhrātaiva tvaṃ mamānagha

85.22

गान्धारीं मातरं स्मृत्वा धृतराष्ट्रकृतेन च ।
तेन जीवसि राजंस्त्वं निहतास्त्वनुगास्तव

gāndhārīṃ mātaraṃ smṛtvā dhṛtarāṣṭrakṛtena ca |
tena jīvasi rājaṃstvaṃ nihatāstvanugāstava

85.23

मैवं भूः शाम्यतां वैरं मा तेऽभूद्बुद्धिरीदृशी
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः

maivaṃ bhūḥ śāmyatāṃ vairaṃ mā te'bhūdbuddhirīdṛśī
āgantavyaṃ parāṃ caitrīmaśvamedhe nṛpasya naḥ

85.24

इत्युक्त्वाऽनुययौ पार्थो हयं तं कामचारिणम् ।
ते न्यवर्तन्त गान्धारा हतशिष्टाः स्वकं पुरम्

ityuktvā'nuyayau pārtho hayaṃ taṃ kāmacāriṇam |
te nyavartanta gāndhārā hataśiṣṭāḥ svakaṃ puram

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)