आश्वमेधिक पर्व

अध्याय 84: चेदि से गान्धार तक घोड़े की यात्रा

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि चतुरशीतितमोऽध्यायः ॥

19 श्लोक · 84 में से 118

इस अध्याय में क्या होता है

चेदि से गान्धार तक घोड़े की यात्रा

अर्जुन घोड़े को दक्षिण की ओर ले चलते हैं। चेदियों की नगरी शुक्तिमती में शिशुपाल का पुत्र शरभ पहले युद्ध करता है, फिर पूजा करता है। घोड़ा काशी, अङ्ग, कोसल और किरात देशों से गुज़रता है। दशार्ण में बलवान चित्राङ्गद को अर्जुन वश में करते हैं। निषाद देश में एकलव्य का पुत्र घोड़ा पकड़कर निषादों के साथ लड़ता है; अर्जुन उसे भी जीतते हैं। दक्षिण सागर तक जाकर वे द्रविड़, आन्ध्र, माहिषक आदि को जीतते हैं। सुराष्ट्र, गोकर्ण और प्रभास होकर घोड़ा द्वारका पहुँचता है, जहाँ यादव कुमार उसे पकड़ लेते हैं, पर उग्रसेन रोक देते हैं। उग्रसेन और अर्जुन के मामा वसुदेव बाहर आकर उनका सत्कार करते हैं। फिर घोड़ा पश्चिम सागर तट, पञ्चनद और गान्धार में घूमता है, जहाँ शकुनि का पुत्र युद्ध छेड़ता है।

वैशम्पायन उवाच

84.1

मागधेनार्चितो राजन्पाण्डवः श्वेतवाहनः ।
दक्षिणां दिशमास्थाय चारयामास तं हयम्

māgadhenārcito rājanpāṇḍavaḥ śvetavāhanaḥ |
dakṣiṇāṃ diśamāsthāya cārayāmāsa taṃ hayam

84.2

ततः स पुनरावर्त्य हयः कामचरो बली ।
आससाद पुरीं रम्यां चेदीनां शुक्तिसाह्वयाम्

tataḥ sa punarāvartya hayaḥ kāmacaro balī |
āsasāda purīṃ ramyāṃ cedīnāṃ śuktisāhvayām

84.3

शरभेणार्चितस्तत्र शिशुपालसुतेन सः ।
युद्धपूर्वं तदा तेन पूजया च महाबलः

śarabheṇārcitastatra śiśupālasutena saḥ |
yuddhapūrvaṃ tadā tena pūjayā ca mahābalaḥ

84.4

ततोऽर्चितो ययौ राजंस्तदा स तुरगोत्तमः ।
काशीनङ्गान्कोसलांश्च किरातानाथ तङ्गणात्

tato'rcito yayau rājaṃstadā sa turagottamaḥ |
kāśīnaṅgānkosalāṃśca kirātānātha taṅgaṇāt

84.5

पूजां तत्र यथान्यायं प्रतिगृह्य धनंजयः ।
पुनरावृत्त्य कौन्तेयो दशार्णानगमत्तदा

pūjāṃ tatra yathānyāyaṃ pratigṛhya dhanaṃjayaḥ |
punarāvṛttya kaunteyo daśārṇānagamattadā

84.6

तत्र चित्राङ्गदो नाम बलवानरिमर्दनः ।
तेन युद्धमभूत्तस्य विजयस्यातिभैरवम्

tatra citrāṅgado nāma balavānarimardanaḥ |
tena yuddhamabhūttasya vijayasyātibhairavam

84.7

तं चापि वशमानीय किरीटी पुरुषर्षभः ।
निषादराज्ञो विषयमेकलव्यस्य जग्मिवान्

taṃ cāpi vaśamānīya kirīṭī puruṣarṣabhaḥ |
niṣādarājño viṣayamekalavyasya jagmivān

84.8

एकलव्यसुतश्चैनं युद्धेनि जगृहे तदा ।
तत्र चक्रे निषादैः स सग्रामं रोमहर्षणम्

ekalavyasutaścainaṃ yuddheni jagṛhe tadā |
tatra cakre niṣādaiḥ sa sagrāmaṃ romaharṣaṇam

84.9

ततस्तमपि कौन्तेयः समरेष्वपराजितः ॥
जिगाय युधि दुर्धर्षो यज्ञविघ्नार्थमागतम्

tatastamapi kaunteyaḥ samareṣvaparājitaḥ ||
jigāya yudhi durdharṣo yajñavighnārthamāgatam

84.10

स तं जित्वा महाराज नैषादिं पाकशासनिः ।
अर्चितः प्रययौ भूयो दक्षिणं सलिलार्णवम्

sa taṃ jitvā mahārāja naiṣādiṃ pākaśāsaniḥ |
arcitaḥ prayayau bhūyo dakṣiṇaṃ salilārṇavam

84.11

तत्रापि द्रवीडैरान्ध्रै रौद्रैर्माहिषकैरपि ।
तथा कोल्लगिरेयैश्च युद्धमासीन्किरीटिनः

tatrāpi dravīḍairāndhrai raudrairmāhiṣakairapi |
tathā kollagireyaiśca yuddhamāsīnkirīṭinaḥ

84.12

तांश्चापि विजयो जित्वा नातितीव्रेण कर्मणा ।
तुरङ्गमवशेनाथ सुराष्ट्रानभितो ययौ ।
गोकर्णमथ चासाद्य प्रभासमपि जग्मिवान्

tāṃścāpi vijayo jitvā nātitīvreṇa karmaṇā |
turaṅgamavaśenātha surāṣṭrānabhito yayau |
gokarṇamatha cāsādya prabhāsamapi jagmivān

84.13

ततो द्वारवतीं रम्यां वृष्णिवीराभिपालिताम् ।
आससाद हयः श्रीमान्कुरुराजस्य यज्ञियः

tato dvāravatīṃ ramyāṃ vṛṣṇivīrābhipālitām |
āsasāda hayaḥ śrīmānkururājasya yajñiyaḥ

84.14

तमुन्मथ्य हयश्रेष्ठं यादवानां कुमारकाः ।
प्रययुस्तांस्तदा राजन्नुग्रसेनो न्यवारयत्

tamunmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ |
prayayustāṃstadā rājannugraseno nyavārayat

84.15

ततः पुराद्विनिष्क्रम्य वृष्ण्यन्धकपतिस्तदा ।
सहितो वासुदेवेन मातुलेन किरीटिनः

tataḥ purādviniṣkramya vṛṣṇyandhakapatistadā |
sahito vāsudevena mātulena kirīṭinaḥ

84.16

तौ समेत्य कुरुश्रेष्ठं विधिवत्प्रीतिपूर्वकम् ।
परया भारतश्रेष्ठं पूजया समवस्थितौ ।
ततस्ताभ्यामनुज्ञातो यतयौ येन हयो गतः

tau sametya kuruśreṣṭhaṃ vidhivatprītipūrvakam |
parayā bhārataśreṣṭhaṃ pūjayā samavasthitau |
tatastābhyāmanujñāto yatayau yena hayo gataḥ

84.17

ततः स पश्चिमं देशं समुद्रस्य तदा हयः ।
क्रमेणि व्यचरत्स्फीतं ततः पञ्चनदं ययौ

tataḥ sa paścimaṃ deśaṃ samudrasya tadā hayaḥ |
krameṇi vyacaratsphītaṃ tataḥ pañcanadaṃ yayau

84.18

तस्मादपि स कौरव्य गन्धारविषयं हयः ।
विचचार यथाकामं कौन्तेयानुगतस्तदा

tasmādapi sa kauravya gandhāraviṣayaṃ hayaḥ |
vicacāra yathākāmaṃ kaunteyānugatastadā

84.19

ततो गान्धारराजेन युद्धमासीत्किरीटिनः ।
घोरं शकुनिपुत्रेण पूर्ववैरानुसारिणा

tato gāndhārarājena yuddhamāsītkirīṭinaḥ |
ghoraṃ śakuniputreṇa pūrvavairānusāriṇā

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)