आश्वमेधिक पर्व

अध्याय 81: उलूपी की मणि से अर्जुन जीवित होते हैं

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकाशीतितमोऽध्यायः ॥

21 श्लोक · 81 में से 118

इस अध्याय में क्या होता है

उलूपी की मणि से अर्जुन जीवित होते हैं

बभ्रुवाहन और उसकी माता प्रायोपवेशन में बैठे हैं, तब उलूपी संजीवन मणि का स्मरण करती है और वह उसके पास आ जाती है। वह बभ्रुवाहन से कहती है, शोक मत करो। तुमने अर्जुन को नहीं मारा, उन्हें मनुष्य या देवता कोई नहीं जीत सकता। यह मोहिनी माया उसने तुम्हारे पिता के लिए दिखाई, जो पुत्र का बल परखना चाहते थे। अर्जुन सनातन, अविनाशी पुरातन ऋषि हैं। वह मरे हुए नागराजों को जिलाने वाली मणि पिता की छाती पर रखवाती है। अर्जुन लम्बी नींद से जागे जैसे उठ खड़े होते हैं। बभ्रुवाहन प्रणाम करता है, इन्द्र फूल बरसाते हैं। अर्जुन पुत्र को गले लगाकर पूछते हैं कि चित्राङ्गदा और उलूपी रणभूमि में क्यों हैं। बभ्रुवाहन कहता है, उलूपी से पूछिए।

वैशम्पायन उवाच

81.1

प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा ।
पितृशोकसमाविष्टे सह मात्रा परंतप

prāyopaviṣṭe nṛpatau maṇipūreśvare tadā |
pitṛśokasamāviṣṭe saha mātrā paraṃtapa

81.2

उलूपी चिन्तयामास तदा संजीवनं मणिम् ।
स चोपातिष्ठत तदा पन्नगानां परायणम्

ulūpī cintayāmāsa tadā saṃjīvanaṃ maṇim |
sa copātiṣṭhata tadā pannagānāṃ parāyaṇam

81.3

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता ।
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत्

taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā |
manaḥprahlādanīṃ vācaṃ sainikānāmathābravīt

81.4

उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः ।
अजेयः पुरुषैरेष तथा देवैः सवासवैः

uttiṣṭha mā śucaḥ putra naiva jiṣṇustvayā hataḥ |
ajeyaḥ puruṣaireṣa tathā devaiḥ savāsavaiḥ

81.5

मया तु मोहनी नाम मायैषा सम्प्रदर्शिता ।
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः

mayā tu mohanī nāma māyaiṣā sampradarśitā |
priyārthaṃ puruṣendrasya pituste'dya yaśasvinaḥ

81.6

जिज्ञासुर्ह्येष पुत्रस्य बलस्य तव कौरव ।
सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा

jijñāsurhyeṣa putrasya balasya tava kaurava |
saṅgrāme yuddhyato rājannāgataḥ paravīrahā

81.7

तस्मादसि मया पुत्र युद्धाय परिचोदितः ।
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो

tasmādasi mayā putra yuddhāya paricoditaḥ |
mā pāpamātmanaḥ putra śaṅkethā hyaṇvapi prabho

81.8

ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः ।
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक

ṛṣireṣa mahānātmā purāṇaḥ śāśvato'kṣaraḥ |
nainaṃ śakto hi saṅgrāme jetuṃ śakro'pi putraka

81.9

अयं तु मे मणिर्दिव्यः समानीतो विशांपते ।
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा

ayaṃ tu me maṇirdivyaḥ samānīto viśāṃpate |
mṛtānmṛtānpannagendrānyo jīvayati nityadā

81.10

एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो ।
संजीवितं तदा पार्थं स त्वं द्रष्टासि पाण्डवम्

enamasyorasi tvaṃ ca sthāpayasva pituḥ prabho |
saṃjīvitaṃ tadā pārthaṃ sa tvaṃ draṣṭāsi pāṇḍavam

81.11

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा ।
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत्

ityuktaḥ sthāpayāmāsa tasyorasi maṇiṃ tadā |
pārthasyāmitatejāḥ sa pituḥ snehādapāpakṛt

81.12

तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः ।
चिरसुप्त हवोत्तस्थौ मृष्टलोहितलोचनः

tasminnyaste maṇau vīro jiṣṇurujjīvitaḥ prabhuḥ |
cirasupta havottasthau mṛṣṭalohitalocanaḥ

81.13

तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम् ।
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः

tamutthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam |
samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ

81.14

उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो ।
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः

utthite puruṣavyāghre punarlakṣmīvati prabho |
divyāḥ sumanasaḥ puṇyā vavṛṣe pākaśāsanaḥ

81.15

अनाहता दुन्दुभयो विनेदुर्मघनिःस्वनाः ।
साधुसाध्विति चाकाशे बभूव सुमहान्स्वनः

anāhatā dundubhayo vinedurmaghaniḥsvanāḥ |
sādhusādhviti cākāśe babhūva sumahānsvanaḥ

81.16

उत्थाय च महाबाहुः पर्याश्वस्तो धनंजयः ॥
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि

utthāya ca mahābāhuḥ paryāśvasto dhanaṃjayaḥ ||
babhruvāhanamāliṅgya samājighrata mūrdhani

81.17

ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम् ।
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः

dadarśa cāpi dūre'sya mātaraṃ śokakarśitām |
ulūpyā saha tiṣṭhantīṃ tato'pṛcchaddhanaṃjayaḥ

81.18

किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् ।
रणाजिरममित्रघ्न यदि जानासि शंस मे

kimidaṃ lakṣyate sarvaṃ śokavismayaharṣavat |
raṇājiramamitraghna yadi jānāsi śaṃsa me

81.19

जननी च किमर्थं ते रणभूमिमुपागता ।
नागेन्द्रदुहिता चेयमुलूपी किमिहागता

jananī ca kimarthaṃ te raṇabhūmimupāgatā |
nāgendraduhitā ceyamulūpī kimihāgatā

81.20

जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् ।
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम्

jānāmyahamidaṃ yuddhaṃ tvayā madvacanātkṛtam |
strīṇāmāgamane hetumahamicchāmi veditum

81.21

तमुवाच तथा पृष्टो मणिपूरपतिस्तदा ।
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति

tamuvāca tathā pṛṣṭo maṇipūrapatistadā |
prasādya śirasā vidvānulūpī pṛcchyatāmiti

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)