आश्वमेधिक पर्व

अध्याय 69: श्रीकृष्ण अपने सत्य से परीक्षित को जीवित करते हैं

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकोनसप्ततितमोऽध्यायः ॥

26 श्लोक · 69 में से 118

इस अध्याय में क्या होता है

श्रीकृष्ण अपने सत्य से परीक्षित को जीवित करते हैं

उत्तरा अचेत होकर गिर पड़ती हैं, और कुन्ती तथा सब भरतवंशी स्त्रियाँ विलाप करती हैं। चेत आने पर उत्तरा शिशु को गोद में लेकर कहती हैं: धर्मज्ञ के पुत्र होकर तुम वृष्णिवीर को प्रणाम क्यों नहीं करते? धर्मराज आज्ञा दें तो वे विष खा लें या अग्नि में प्रवेश करें। वे फिर गिरती हैं, उठाई जाती हैं, और हाथ जोड़कर श्रीकृष्ण को प्रणाम करती हैं। श्रीकृष्ण आचमन करके ब्रह्मास्त्र को लौटा लेते हैं। सबके सामने वे कहते हैं: मैंने कभी असत्य नहीं कहा, युद्ध से कभी नहीं लौटा, धर्म और ब्राह्मण मुझे प्रिय हैं, कंस और केशी को धर्म से मारा। उस सत्य से यह शिशु जिए। वे अपने कमल जैसे चरण से बालक को सिर से पैर तक छूते हैं, और धीरे धीरे उसमें चेतना लौटती है।

वैशम्पायन उवाच

69.1

सैवं विलप्य करुणं सोन्मादेव तपस्विनी ।
उत्तरा न्यपतद्भूमौ कृपणा पुत्रगृद्धिनी

saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī |
uttarā nyapatadbhūmau kṛpaṇā putragṛddhinī

69.2

तां तु दृष्ट्वा निपतितां हतपुत्रपरिच्छदाम् ।
चुक्रोश कुन्ती दुःखार्ता सर्वाश्च भरतास्त्रियः

tāṃ tu dṛṣṭvā nipatitāṃ hataputraparicchadām |
cukrośa kuntī duḥkhārtā sarvāśca bharatāstriyaḥ

69.3

मुहूर्तमिव राजेन्द्र पाण्डवानां निवेशनम् ।
अप्रेक्षणीयमभवदार्तस्वनविनादितम्

muhūrtamiva rājendra pāṇḍavānāṃ niveśanam |
aprekṣaṇīyamabhavadārtasvanavināditam

69.4

सा मुहूर्तं च राजेन्द्र पुत्रशोकाभिपीडिता ।
कश्मलाभिहता वीर वैराटी त्वभवत्तदा

sā muhūrtaṃ ca rājendra putraśokābhipīḍitā |
kaśmalābhihatā vīra vairāṭī tvabhavattadā

69.5

प्रतिलभ्य तु सा संज्ञामुत्तरा भरतर्षभ ।
अङ्कमारोप्य तं पुत्रमिदं वचनमब्रवीत्

pratilabhya tu sā saṃjñāmuttarā bharatarṣabha |
aṅkamāropya taṃ putramidaṃ vacanamabravīt

69.6

धर्मज्ञस्य सुतः संस्त्वं न धर्ममवबुध्यसे ।
यस्त्वं वृष्णिप्रवीरस्य कुरुषे नाभिवादनम्

dharmajñasya sutaḥ saṃstvaṃ na dharmamavabudhyase |
yastvaṃ vṛṣṇipravīrasya kuruṣe nābhivādanam

69.7

पुत्र गत्वा मम वचो ब्रूयास्त्वं पितरं त्विदम् ।
दुर्मरं प्राणिनां वीर काले प्राप्ते कथञ्चन

putra gatvā mama vaco brūyāstvaṃ pitaraṃ tvidam |
durmaraṃ prāṇināṃ vīra kāle prāpte kathañcana

69.8

याऽहं त्वया विनाऽद्येह पत्या पुत्रेण चैव ह ।
मरणं नाभिगच्छामि हतस्वस्तिरकिञ्चना

yā'haṃ tvayā vinā'dyeha patyā putreṇa caiva ha |
maraṇaṃ nābhigacchāmi hatasvastirakiñcanā

69.9

अथवा धर्मराज्ञाऽहमनुज्ञाता महाभुजः ।
भक्षयिष्ये विषं घोरं प्रवेक्ष्ये वा हुताशनम्

athavā dharmarājñā'hamanujñātā mahābhujaḥ |
bhakṣayiṣye viṣaṃ ghoraṃ pravekṣye vā hutāśanam

69.10

अथवा दुर्भरं तात यदिदं मे सहस्रधा ।
पतिपुत्रविहीनाया हृदयं न विदीर्यते

athavā durbharaṃ tāta yadidaṃ me sahasradhā |
patiputravihīnāyā hṛdayaṃ na vidīryate

69.11

उत्तिष्ठ पुत्र पस्येमां दुःखितां प्रपितामहीम् ।
आर्तामुपप्लुतां दीनां निमग्नां शोकसागरे

uttiṣṭha putra pasyemāṃ duḥkhitāṃ prapitāmahīm |
ārtāmupaplutāṃ dīnāṃ nimagnāṃ śokasāgare

69.12

आर्यां च पश्य पाञ्चालीं सात्वतीं च तपस्विनीम् ।
मां च पश्य सुदुःखार्तां व्याधविद्धां मृगीमिव

āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm |
māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīmiva

69.13

उत्तिष्ठ पश्य वदनं लोकनाथस्य धीमतः ।
पुण्डरीकपलाशाक्षं पुरेव चपलेक्षणः

uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ |
puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇaḥ

69.14

एवं विप्रलपन्तीं तु दृष्ट्वा निपतितां पुनः ।
उत्तरां तां स्त्रियः सर्वाः पुनरुत्थापयन्त्युत

evaṃ vipralapantīṃ tu dṛṣṭvā nipatitāṃ punaḥ |
uttarāṃ tāṃ striyaḥ sarvāḥ punarutthāpayantyuta

69.15

उत्थाय च पुनर्धैर्यात्तदा मत्स्यपतेः सुता ।
प्राञ्जलिः पुण्डरीकाक्षं भूमावेवाभ्यवादयत्

utthāya ca punardhairyāttadā matsyapateḥ sutā |
prāñjaliḥ puṇḍarīkākṣaṃ bhūmāvevābhyavādayat

69.16

श्रुत्वा स तस्या विपुलं विलापं पुरुषर्षभः ।
उपस्पृश्य ततः कृष्णो ब्रह्मास्त्रं प्रत्यसंहरत्

śrutvā sa tasyā vipulaṃ vilāpaṃ puruṣarṣabhaḥ |
upaspṛśya tataḥ kṛṣṇo brahmāstraṃ pratyasaṃharat

69.17

प्रतिजज्ञे च दाशार्हस्तस्य जीवितमच्युतः ।
अब्रवीच्च विशुद्धात्मा सर्वं विश्रावयज्जगत्

pratijajñe ca dāśārhastasya jīvitamacyutaḥ |
abravīcca viśuddhātmā sarvaṃ viśrāvayajjagat

69.18

न ब्रवीम्युत्तरे मिथ्या सत्यमेतद्भविष्यति ।
एष संजीवयाम्येनं पश्यतां सर्वदेहिनाम्

na bravīmyuttare mithyā satyametadbhaviṣyati |
eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām

69.19

नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन ।
न च युद्धात्परावृत्तस्तथा संजीवतामयम्

noktapūrvaṃ mayā mithyā svaireṣvapi kadācana |
na ca yuddhātparāvṛttastathā saṃjīvatāmayam

69.20

यथा मे दयितो धर्मो ब्राह्मणश्च विशेषतः ।
अभिमन्योः सुतो जातो मृतो जीवत्वयं तथा

yathā me dayito dharmo brāhmaṇaśca viśeṣataḥ |
abhimanyoḥ suto jāto mṛto jīvatvayaṃ tathā

69.21

यथाऽहं नाभिजानामि विजये तु कदाचन ।
विरोधं तेन सत्येन मृतो जीवत्वयं शिशुः

yathā'haṃ nābhijānāmi vijaye tu kadācana |
virodhaṃ tena satyena mṛto jīvatvayaṃ śiśuḥ

69.22

यथा सत्यं च धर्मश्च मयि नित्यं प्रतिष्ठितौ ।
तथा मृतः शिशुरयं जीवतादभिमन्युजः

yathā satyaṃ ca dharmaśca mayi nityaṃ pratiṣṭhitau |
tathā mṛtaḥ śiśurayaṃ jīvatādabhimanyujaḥ

69.23

यथा कंसश्च केशी च धर्मेण निहतौ मया ।
तेन सत्येन बालोऽयं पुनः संजीवतामिह

yathā kaṃsaśca keśī ca dharmeṇa nihatau mayā |
tena satyena bālo'yaṃ punaḥ saṃjīvatāmiha

69.24

इत्युक्त्वा वासुदेवोऽथ तं बालं भरतर्षभ ।
पादेन कमलाभेन ब्रह्मरुद्रार्चितेन च ।
पस्पर्श पुण्डरीकाक्ष आपादतलमस्तकम्

ityuktvā vāsudevo'tha taṃ bālaṃ bharatarṣabha |
pādena kamalābhena brahmarudrārcitena ca |
pasparśa puṇḍarīkākṣa āpādatalamastakam

69.25

स्पृष्टमात्रस्तु कृष्णेन स बालो भरतर्षभ ।
शनैःशनैर्महाराज प्रापद्यत स चेतनाम्

spṛṣṭamātrastu kṛṣṇena sa bālo bharatarṣabha |
śanaiḥśanairmahārāja prāpadyata sa cetanām

69.26

शनैःशनैर्महाराज प्रास्पन्दत सचेतनः

śanaiḥśanairmahārāja prāspandata sacetanaḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)