ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् ।
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम्
brahmāstraṃ tu yadā rājankṛṣṇena pratisaṃhṛtam |
tadā tadveśma te pitrā tejasā'bhividīpitam
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्ततितमोऽध्यायः ॥
24 श्लोक · 70 में से 118
जब श्रीकृष्ण ब्रह्मास्त्र लौटा लेते हैं, तब वह भवन शिशु के तेज से जगमगा उठता है, राक्षस भाग जाते हैं और आकाशवाणी होती है, साधु केशव साधु। अस्त्र ब्रह्माजी के पास लौट जाता है और बालक हिलने डुलने लगता है। भरतवंशी स्त्रियाँ हर्षित होती हैं। गोविन्द की आज्ञा से ब्राह्मण स्वस्तिवाचन करते हैं, और सूत मागध स्तुति करते हैं। उत्तरा पुत्र सहित उन्हें प्रणाम करती हैं और वे उसे बहुत से रत्न देते हैं। कुल के परिक्षीण होने पर जन्म लेने के कारण श्रीकृष्ण उसका नाम परीक्षित रखते हैं। शिशु के एक मास का होने पर पाण्डव मरुत्त का धन लेकर लौटते हैं; भीम आदि स्वयं यज्ञ के लिए भार ढोते हैं। विदुर देवालयों में पूजा करवाते हैं, और नगर ध्वजों, पुष्पों, नर्तकों और गायकों से सजता है।
वैशम्पायन उवाच
ब्रह्मास्त्रं तु यदा राजन्कृष्णेन प्रतिसंहृतम् ।
तदा तद्वेश्म ते पित्रा तेजसाऽभिविदीपितम्
brahmāstraṃ tu yadā rājankṛṣṇena pratisaṃhṛtam |
tadā tadveśma te pitrā tejasā'bhividīpitam
ततो रक्षांसि सर्वाणि नेशुस्त्यक्त्वा गृहं तु तत् ।
अन्तरिक्षे च वागासीत्साधु केशव साध्विति
tato rakṣāṃsi sarvāṇi neśustyaktvā gṛhaṃ tu tat |
antarikṣe ca vāgāsītsādhu keśava sādhviti
तदस्त्रं ज्वलितं चापि पितामहमगात्तदा ।
ततः प्राणान्पुनर्लेभे पिता तव नरेश्वर
tadastraṃ jvalitaṃ cāpi pitāmahamagāttadā |
tataḥ prāṇānpunarlebhe pitā tava nareśvara
व्यचेष्टत च बालोसौ यथोत्साहं यताबलम् ।
बभूवुर्मुदिता राजंस्ततस्ता भरतस्त्रियः
vyaceṣṭata ca bālosau yathotsāhaṃ yatābalam |
babhūvurmuditā rājaṃstatastā bharatastriyaḥ
ब्राह्मणा वाचयामासुर्गोविन्दस्यैव शासनात् ।
ततस्ता मुदिताः सर्वाः प्रशशंसुर्जनार्दनम्
brāhmaṇā vācayāmāsurgovindasyaiva śāsanāt |
tatastā muditāḥ sarvāḥ praśaśaṃsurjanārdanam
स्त्रियो भरतसिंहानां नावं लब्ध्वेव पारगाः ।
कुन्ती द्रुपदपुत्री च सुभद्रा चोत्तरा तथा ।
स्त्रियश्चान्या नृसिंहानां बभूवुर्हृष्टमानसाः
striyo bharatasiṃhānāṃ nāvaṃ labdhveva pāragāḥ |
kuntī drupadaputrī ca subhadrā cottarā tathā |
striyaścānyā nṛsiṃhānāṃ babhūvurhṛṣṭamānasāḥ
तत्र मल्ला नटाश्चैव ग्रन्थिकाः सौख्यशायिकाः ।
सूतमागधसङ्घाश्चाप्यस्तुवंस्तं जनार्दनम्
tatra mallā naṭāścaiva granthikāḥ saukhyaśāyikāḥ |
sūtamāgadhasaṅghāścāpyastuvaṃstaṃ janārdanam
कुरुवंशस्तवाख्याभिराशीर्भिर्भरतर्षभ ।
सभाजयत संहृष्टो महाराज महाजनः
kuruvaṃśastavākhyābhirāśīrbhirbharatarṣabha |
sabhājayata saṃhṛṣṭo mahārāja mahājanaḥ
उत्थाय तु यथाकालमुत्तरा यदुनन्दनम् ।
अभ्यवादयत प्रीता सह पुत्रेण भारत
utthāya tu yathākālamuttarā yadunandanam |
abhyavādayata prītā saha putreṇa bhārata
ततस्तस्यै ददौ प्रीतो बहुरत्नं विशेषतः ।
तथैव वृष्णिशार्दूलो नाम चास्याकरोत्प्रभुः ।
पितुस्तव महाराज सत्यसन्धो जनार्दनः
tatastasyai dadau prīto bahuratnaṃ viśeṣataḥ |
tathaiva vṛṣṇiśārdūlo nāma cāsyākarotprabhuḥ |
pitustava mahārāja satyasandho janārdanaḥ
परिक्षीणे कुले यस्माज्जातोऽयमभिमन्युजः ।
परिक्षिदिति नामास्य भवत्वित्यब्रवीत्तदा
parikṣīṇe kule yasmājjāto'yamabhimanyujaḥ |
parikṣiditi nāmāsya bhavatvityabravīttadā
सोऽवर्धत यथाकालं पिता तव जनाधिप ।
मनःप्रह्लादनश्चासीत्सर्वलोकस्य भारत
so'vardhata yathākālaṃ pitā tava janādhipa |
manaḥprahlādanaścāsītsarvalokasya bhārata
मासजातस्तु ते वीर पिता भवति भारत ।
अथाजग्मुः सुबहुलं रत्नमादाय पाण्डवाः
māsajātastu te vīra pitā bhavati bhārata |
athājagmuḥ subahulaṃ ratnamādāya pāṇḍavāḥ
मेरुकूटनिभान्भाण्डान्कलशान्भाजनानि च ।
कृताकृतं महद्भीममादाय पुरुषोत्तमाः
merukūṭanibhānbhāṇḍānkalaśānbhājanāni ca |
kṛtākṛtaṃ mahadbhīmamādāya puruṣottamāḥ
भारतैर्वाहनैस्तत्र गोरुते गोरुते पथि ।
निवसन्तो ययुर्देवं स्मरन्तः परमेष्ठिनः
bhāratairvāhanaistatra gorute gorute pathi |
nivasanto yayurdevaṃ smarantaḥ parameṣṭhinaḥ
नासीत्तत्र नृपः कश्चिदभारार्तो नृपं विना ।
भीमादयोऽपि यज्ञार्थं वहन्ते किं पुनर्जनाः
nāsīttatra nṛpaḥ kaścidabhārārto nṛpaṃ vinā |
bhīmādayo'pi yajñārthaṃ vahante kiṃ punarjanāḥ
तान्समीपगताञ्श्रुत्वा निर्ययुर्वृष्णिपुङ्गवाः ।
अलञ्चक्रुश्च माल्यौघैर्नगरं नागसाह्वयम्
tānsamīpagatāñśrutvā niryayurvṛṣṇipuṅgavāḥ |
alañcakruśca mālyaughairnagaraṃ nāgasāhvayam
पताकाभिर्विचित्राभिर्ध्वजैश्च विविधैरपि ।
वेश्मानि समलञ्चक्रुः पौराश्चापि जनेश्वरः
patākābhirvicitrābhirdhvajaiśca vividhairapi |
veśmāni samalañcakruḥ paurāścāpi janeśvaraḥ
देवतायतनानां च पूजाः सुविविधास्तथा ।
संदिदेशाथ विदुरः पाण्डुपुत्रप्रियेप्सया
devatāyatanānāṃ ca pūjāḥ suvividhāstathā |
saṃdideśātha viduraḥ pāṇḍuputrapriyepsayā
राजमार्गाश्च तत्रासन्सुमनोभिरलङ्कृताः ।
शुशुभे तत्पुरं चापि समुद्रौघनिभस्वनम्
rājamārgāśca tatrāsansumanobhiralaṅkṛtāḥ |
śuśubhe tatpuraṃ cāpi samudraughanibhasvanam
नर्तकैश्चापि नृत्यद्भिर्गायकानां च निःस्वनैः ।
आसीद्वैश्रवणस्येव निवासस्तत्पुरं तदा
nartakaiścāpi nṛtyadbhirgāyakānāṃ ca niḥsvanaiḥ |
āsīdvaiśravaṇasyeva nivāsastatpuraṃ tadā
बन्दिभिश्च नरै राजन्स्त्रीसहायैश्च सर्वशः ।
तत्रतत्र विविक्तेषु समन्तादुपशोभितम्
bandibhiśca narai rājanstrīsahāyaiśca sarvaśaḥ |
tatratatra vivikteṣu samantādupaśobhitam
पताका धूयमानाश्च समन्तान्मातरिश्वना ।
अदर्शयन्निव तदा कुरून्वै दक्षिणोत्तरान्
patākā dhūyamānāśca samantānmātariśvanā |
adarśayanniva tadā kurūnvai dakṣiṇottarān
अघोषयंस्तदा चाप पुरुषा राजमार्गतः ।
सर्वरात्रविहारोऽद्य रत्नाभरणलक्षणः
aghoṣayaṃstadā cāpa puruṣā rājamārgataḥ |
sarvarātravihāro'dya ratnābharaṇalakṣaṇaḥ
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)