आश्वमेधिक पर्व

अध्याय 68: श्रीकृष्ण सूतिकागृह में, उत्तरा का विलाप

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि अष्टषष्टितमोऽध्यायः ॥

24 श्लोक · 68 में से 118

इस अध्याय में क्या होता है

श्रीकृष्ण सूतिकागृह में, उत्तरा का विलाप

श्रीकृष्ण ऊँचे स्वर में कहते हैं, ऐसा ही होगा, और यह वचन शोकाकुल जनों को वैसे ही शीतल करता है। वे विधिपूर्वक सजाए गए सूतिकागृह में प्रवेश करते हैं: श्वेत मालाएँ, चारों ओर भरे जलकलश, घी, तिन्दुक की मशालें, सरसों, चमकते शस्त्र और राक्षसों को दूर रखने वाली अग्नियाँ, वृद्धा स्त्रियाँ और कुशल वैद्य। यह देखकर वे कहते हैं, साधु साधु। द्रौपदी शीघ्र उत्तरा से कहती हैं कि तुम्हारे पति के मामा आ रहे हैं। उत्तरा प्रणाम करके विलाप करती हैं। वे द्रोणपुत्र के अस्त्र से जले अपने पुत्र को जीवित करने की याचना करती हैं; यदि शिशु न जिया तो वे प्राण त्याग देंगी। उन्हें दुःख है कि रणभूमि में की हुई प्रतिज्ञा के अनुसार वे अभिमन्यु के पीछे नहीं गईं।

वैशम्पायन उवाच

68.1

एवमुक्तस्तु राजेन्द्र केशिहा दुःखमुर्च्छितः ।
तथेति व्याजहारोच्चैर्ह्लादयन्निव तं जनम्

evamuktastu rājendra keśihā duḥkhamurcchitaḥ |
tatheti vyājahāroccairhlādayanniva taṃ janam

68.2

वाक्येनैतेन हि तदा तं जनं पुरुषर्षभः ।
ह्लादयामास स विभुर्घर्मार्तं सलिलैरिव

vākyenaitena hi tadā taṃ janaṃ puruṣarṣabhaḥ |
hlādayāmāsa sa vibhurgharmārtaṃ salilairiva

68.3

ततः स प्राविशत्तूर्णं जन्मवेश्म पितुस्तव ।
अर्चितं पुरुषव्याघ्र सितैर्माल्यैर्यथाविधि

tataḥ sa prāviśattūrṇaṃ janmaveśma pitustava |
arcitaṃ puruṣavyāghra sitairmālyairyathāvidhi

68.4

अपां कुम्भैः सुपूर्णैश्च विन्यस्तैः सर्वतोदिशम् ।
घृतेन तिन्दुकालातैः सर्षपैश्च महाभुज

apāṃ kumbhaiḥ supūrṇaiśca vinyastaiḥ sarvatodiśam |
ghṛtena tindukālātaiḥ sarṣapaiśca mahābhuja

68.5

अस्त्रैश्च विमलैर्न्यस्तैः पावकैश्च समन्ततः ।
वृद्धाभिश्चापि रामाभिः परिवारार्थमावृतः ।
दक्षैश्च परितो धीर भिषग्भिः कुशलैस्तथा

astraiśca vimalairnyastaiḥ pāvakaiśca samantataḥ |
vṛddhābhiścāpi rāmābhiḥ parivārārthamāvṛtaḥ |
dakṣaiśca parito dhīra bhiṣagbhiḥ kuśalaistathā

68.6

ददर्श च स तेजस्वी रक्षोघ्रान्यपि सर्वशः ।
द्रव्याणि स्थापितानि स्म विधिवत्कुशलैर्जनैः

dadarśa ca sa tejasvī rakṣoghrānyapi sarvaśaḥ |
dravyāṇi sthāpitāni sma vidhivatkuśalairjanaiḥ

68.7

तथायुक्तं च तद्दृष्ट्वा जन्मवेश्म पितुस्तव ।
हृष्टोऽभवद्धृषीकेशः साधुसाध्विति चाब्रवीत्

tathāyuktaṃ ca taddṛṣṭvā janmaveśma pitustava |
hṛṣṭo'bhavaddhṛṣīkeśaḥ sādhusādhviti cābravīt

68.8

तथा ब्रुवति वार्ष्णेये प्रहृष्टवदने तदा ।
द्रौपदी त्वरिता गत्वा वैराटीं वाक्यमब्रवीत्

tathā bruvati vārṣṇeye prahṛṣṭavadane tadā |
draupadī tvaritā gatvā vairāṭīṃ vākyamabravīt

68.9

अयमायाति ते भर्तुर्मातुलो मधुसूदनः ।
पुराणर्षिरचिन्त्यात्मा समीपमपराजितः

ayamāyāti te bharturmātulo madhusūdanaḥ |
purāṇarṣiracintyātmā samīpamaparājitaḥ

68.10

साऽपि बाष्पकलां वाचं निगृह्याश्रूपि चैव ह ।
असंवीताऽभवद्देवी देववत्कृष्णमीयुषी

sā'pi bāṣpakalāṃ vācaṃ nigṛhyāśrūpi caiva ha |
asaṃvītā'bhavaddevī devavatkṛṣṇamīyuṣī

68.11

सा तथा दूयमानेन हृदयेन तपस्विनी ।
दृष्ट्वा गोविन्दमायान्तं कृपणं पर्यदेवयत्

sā tathā dūyamānena hṛdayena tapasvinī |
dṛṣṭvā govindamāyāntaṃ kṛpaṇaṃ paryadevayat

68.12

पुण्डरीकाक्ष पश्यावां बालेन हि विनाकृतौ ।
अभिमन्युं च मां चैव हठात्तुल्यं जनार्दन

puṇḍarīkākṣa paśyāvāṃ bālena hi vinākṛtau |
abhimanyuṃ ca māṃ caiva haṭhāttulyaṃ janārdana

68.13

वार्ष्णेयमधुहन्वीर शिरसा त्वां प्रसादये ।
द्रोणपुत्रास्त्रनिर्दग्धं जीवयैनं ममात्मजम्

vārṣṇeyamadhuhanvīra śirasā tvāṃ prasādaye |
droṇaputrāstranirdagdhaṃ jīvayainaṃ mamātmajam

68.14

यदि स्म धर्मराज्ञा वा भीमसेनेन वा पुनः ।
त्वया वा पुण्डरीकाक्ष वाक्यमुक्तमिदं भवेत्

yadi sma dharmarājñā vā bhīmasenena vā punaḥ |
tvayā vā puṇḍarīkākṣa vākyamuktamidaṃ bhavet

68.15

अजानतीमिषीकेयं जनित्रीं हन्त्विति प्रभो ।
अहमेव विनष्टा स्यां नायमेवं गतो भवेत्

ajānatīmiṣīkeyaṃ janitrīṃ hantviti prabho |
ahameva vinaṣṭā syāṃ nāyamevaṃ gato bhavet

68.16

गर्भस्थस्यास्य बालस्य ब्रह्मास्त्रेण निपातनम् ।
कृत्वा नृशंसं दुर्बुद्धिर्द्रौणिः किं फलमश्नुते

garbhasthasyāsya bālasya brahmāstreṇa nipātanam |
kṛtvā nṛśaṃsaṃ durbuddhirdrauṇiḥ kiṃ phalamaśnute

68.17

सा त्वां प्रसाद्य शिरसा याचे शत्रुनिबर्हण ।
प्राणांस्त्यक्ष्यामि गोविन्द नायं संजीवते यदि

sā tvāṃ prasādya śirasā yāce śatrunibarhaṇa |
prāṇāṃstyakṣyāmi govinda nāyaṃ saṃjīvate yadi

68.18

अस्मिन्हि बहवः साधो ये ममासन्मनोरथाः ।
ते द्रोणपुत्रेण हताः किंनु जीवामि केशव

asminhi bahavaḥ sādho ye mamāsanmanorathāḥ |
te droṇaputreṇa hatāḥ kiṃnu jīvāmi keśava

68.19

आसीन्मम मतिः कृष्ण पूर्णोत्सङ्गा जनार्दन ।
अभिवादयिष्ये हृष्टेति तदिदं वितथीकृतम्

āsīnmama matiḥ kṛṣṇa pūrṇotsaṅgā janārdana |
abhivādayiṣye hṛṣṭeti tadidaṃ vitathīkṛtam

68.20

चपलाक्षस्य दायादे मृतेऽस्मिन्पुरुषर्षभ ।
विफला मे कृताः कृष्ण हृदि सर्वे मनोरथाः

capalākṣasya dāyāde mṛte'sminpuruṣarṣabha |
viphalā me kṛtāḥ kṛṣṇa hṛdi sarve manorathāḥ

68.21

चपलाक्षः किलातीव प्रियस्ते मधुसूदन ।
सुतं पश्य त्वमस्यैनं ब्रह्मास्त्रेण निपातितम्

capalākṣaḥ kilātīva priyaste madhusūdana |
sutaṃ paśya tvamasyainaṃ brahmāstreṇa nipātitam

68.22

कृतघ्नोऽयं नृशंसोऽयं यथाऽस्य जनकस्तथा ।
यः पाण्डवीं श्रियं त्यक्त्वा गतोऽद्य यमसादनं

kṛtaghno'yaṃ nṛśaṃso'yaṃ yathā'sya janakastathā |
yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato'dya yamasādanaṃ

68.23

मया चैतत्प्रतिज्ञातं रणमूर्धनि केशव ।
अभिमन्यौ हते वीर त्वामेष्याम्यचिरादिति

mayā caitatpratijñātaṃ raṇamūrdhani keśava |
abhimanyau hate vīra tvāmeṣyāmyacirāditi

68.24

तच्च नाकरवं कृष्ण नृशंसा जीवितप्रिया ।
इदानीं मां गतां तत्र किंनु वक्ष्यति फाल्गुनिः

tacca nākaravaṃ kṛṣṇa nṛśaṃsā jīvitapriyā |
idānīṃ māṃ gatāṃ tatra kiṃnu vakṣyati phālguniḥ

पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)