क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः ।
दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे
kriyatāmupahāro'dya tryambakasya mahātmanaḥ |
dattvopahāraṃ nṛpate tataḥ svārthaṃ yatāmahe
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि पञ्चषष्टितमोऽध्यायः ॥
22 श्लोक · 65 में से 118
ब्राह्मण कहते हैं कि पहले त्र्यम्बक भगवान को उपहार अर्पित हो। युधिष्ठिर विधिपूर्वक यह करवाते हैं: पुरोहित घी से अग्नि को तृप्त करते हैं, मन्त्रसिद्ध चरु बनाते हैं, और पुष्प, मोदक, पायस तथा मांस अर्पित करते हैं। यक्षराज कुबेर, माणिभद्र, अन्य यक्षों और भूतपतियों को कृसर, मांस और तिल सहित बलि दी जाती है, रात्रि में विचरने वाले प्राणियों को भी। ब्राह्मणों को सहस्रों गौएँ दी जाती हैं। व्यास को आगे करके राजा धनाध्यक्ष और निधियों की पूजा करते हैं, फिर निधि खुदवाते हैं: सहस्रों पात्र, कलश, कड़ाह और भृङ्गार निकलते हैं। साठ सहस्र ऊँट, घोड़े, हाथी, छकड़े और असंख्य भारवाहक उसे ढोते हैं, और सेना पड़ाव डालती हुई धीरे धीरे हस्तिनापुर की ओर लौटती है।
ब्राह्मणा ऊचुः
क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः ।
दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे
kriyatāmupahāro'dya tryambakasya mahātmanaḥ |
dattvopahāraṃ nṛpate tataḥ svārthaṃ yatāmahe
वैशम्पायन उवाच
श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः ।
गिरीशस्य यथान्यायमुपहारमुपाहरत्
śrutvā tu vacanaṃ teṣāṃ brāhmaṇānāṃ yudhiṣṭhiraḥ |
girīśasya yathānyāyamupahāramupāharat
आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन च ।
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययै तदा
ājyena tarpayitvā'gniṃ vidhivatsaṃskṛtena ca |
mantrasiddhaṃ caruṃ kṛtvā purodhāḥ sa yayai tadā
स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप ।
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिंम्
sa gṛhītvā sumanaso mantrapūtā janādhipa |
modakaiḥ pāyasenātha māṃsaiścopāharadbaliṃm
सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि ।
सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः ।
किंकराणां ततः पश्चाच्चकार बलिमुत्तमम्
sumanobhiśca citrābhirlājairuccāvacairapi |
sarvaṃ sviṣṭakṛtaṃ hutvā vidhivadvedapāragaḥ |
kiṃkarāṇāṃ tataḥ paścāccakāra balimuttamam
यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह ।
तथाऽन्येषां च यक्षाणां भूतानां पतयश्च ये
yakṣendrāya kuberāya māṇibhadrāya caiva ha |
tathā'nyeṣāṃ ca yakṣāṇāṃ bhūtānāṃ patayaśca ye
कृसरेण च मांसेन निवापैस्तिलसंयुतैः ।
ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत्
kṛsareṇa ca māṃsena nivāpaistilasaṃyutaiḥ |
odanaṃ kumbhaśaḥ kṛtvā purodhāḥ samupāharat
ब्राह्मणेभ्यः सहस्राणि गवां दत्वा तु भूमिपः ।
नक्तंचराणां भूतानां व्यादिदेश बलि तदा
brāhmaṇebhyaḥ sahasrāṇi gavāṃ datvā tu bhūmipaḥ |
naktaṃcarāṇāṃ bhūtānāṃ vyādideśa bali tadā
धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम् ।
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिवः
dhūpagandhaniruddhaṃ tatsumanobhiśca saṃvṛtam |
śuśubhe sthānamatyarthaṃ devadevasya pārthivaḥ
कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः ।
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति
kṛtvā pūjāṃ tu rudrasya gaṇānāṃ caiva sarvaśaḥ |
yayau vyāsaṃ puraskṛtya nṛpo ratnanidhiṃ prati
पूजयित्वा धनाध्वक्षं प्रणिपत्याभिवाद्य च ।
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च
pūjayitvā dhanādhvakṣaṃ praṇipatyābhivādya ca |
sumanobhirvicitrābhirapūpaiḥ kṛsareṇa ca
शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः ।
अर्चयित्वा द्विजाग्र्या स्वस्ति वाच्य च वीर्यवान्
śaṅkhādīṃśca nidhīnsarvānnidhipālāṃśca sarvaśaḥ |
arcayitvā dvijāgryā svasti vācya ca vīryavān
तेषां पुण्याहघोषेण तेजसा समवस्थितः ।
प्रीतिमान्स कुरुश्रेष्ठः खानयामासं तं निधिम्
teṣāṃ puṇyāhaghoṣeṇa tejasā samavasthitaḥ |
prītimānsa kuruśreṣṭhaḥ khānayāmāsaṃ taṃ nidhim
ततः पात्री सकरका बहुरूपा मनोरमाः ।
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान्
tataḥ pātrī sakarakā bahurūpā manoramāḥ |
bhṛṅgārāṇi kaṭāhāni kalaśānvardhamānakān
बहूनि च विचित्राणि भाजनानि सहस्रशः ।
उद्धारयामास तदा धर्मराजो युधिष्ठिरः
bahūni ca vicitrāṇi bhājanāni sahasraśaḥ |
uddhārayāmāsa tadā dharmarājo yudhiṣṭhiraḥ
तेषां रक्षणमप्यासीन्महान्करपुटस्तथा ।
नद्धं च भाजनं राजंस्तुलार्धमभवन्नृप
teṣāṃ rakṣaṇamapyāsīnmahānkarapuṭastathā |
naddhaṃ ca bhājanaṃ rājaṃstulārdhamabhavannṛpa
वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशांपते ।
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः
vāhanaṃ pāṇḍuputrasya tatrāsīttu viśāṃpate |
ṣaṣṭiruṣṭrasahasrāṇi śatāni dviguṇā hayāḥ
वारणाश्च महाराज सहस्रशतसंमिताः ।
शकटानि रथाश्चैव तावदेव करेणवः ।
स्वराणां पुरुषाणां च परिसङ्ख्या न विद्यते
vāraṇāśca mahārāja sahasraśatasaṃmitāḥ |
śakaṭāni rathāścaiva tāvadeva kareṇavaḥ |
svarāṇāṃ puruṣāṇāṃ ca parisaṅkhyā na vidyate
एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः ।
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम्
etadvittaṃ tadabhavadyaduddadhre yudhiṣṭhiraḥ |
ṣoḍaśāṣṭau caturviṃśatsahasraṃ bhāralakṣaṇam
एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः ।
महादेवं प्रति ययौ पुरं नागाहयं प्रति
eteṣvādāya taddravyaṃ punarabhyarcya pāṇḍavaḥ |
mahādevaṃ prati yayau puraṃ nāgāhayaṃ prati
द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् ।
गोरुते गोरुते चैव न्यवसत्पुरुषर्षभः
dvaipāyanābhyanujñātaḥ puraskṛtya purohitam |
gorute gorute caiva nyavasatpuruṣarṣabhaḥ
सा पुराऽभिमुखा राजन्नुवाह महती चमूः ।
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान्
sā purā'bhimukhā rājannuvāha mahatī camūḥ |
kṛcchrāddraviṇabhārārtā harṣayantī kurūdvahān
पाठ का स्रोत: Wikisource · CC BY-SA 4.0 (Wikisource transcription of a public-domain text)